०५ अद्वैतमतपरीक्षा

अत्र परैरुक्तं ‘‘यस्य ब्रह्मच क्षत्रं चोभे भवत ओदनः

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अत्र परैरुक्तं ‘‘यस्य ब्रह्मच क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसेचन’’मिति काठकवाक्ये ओदनोपसेचनपदाभ्यां सूचितोऽत्ता जीव एव । अत्तृत्वस्य भोज्यतया प्रसिद्धौदनसम्बन्धेन भोक्तृत्वरूपत्वात् । ब्रह्मणश्चाभोक्तृत्वादिति प्राप्ते सत्यमभोक्तृ ब्रह्म । तथापि तदेवात्तृ । अत्तृत्वस्य संहर्तृत्वरूपत्वात् । तस्याविक्रिये शुद्धे ब्रह्मण्यसम्भवेऽपि मायोपाधिके सम्भवात् । भक्तवाचिनश्चौदनशब्दस्य भोक्तृप्रतियोगिभोज्यत्वं न मुख्यवृत्त्याऽर्थः । अमुख्यवृत्त्या चेत्तर्ह्योदनगतं संहर्तृप्रतियोगि संहार्यत्वमेवार्थोऽस्तु । एवं च ब्रह्मक्षत्रादिपदानां न मुख्यार्थत्यागः । जीवपक्षेतु तत्त्यागः । न हि कश्चिदपि जीवः सर्वस्य ब्रह्मक्षत्रस्य मृत्योश्च भोक्ताऽस्तीति सिद्धान्त इति ॥ अत्र ब्रूमः ।

भोक्तृतापि विशिष्टेऽस्तु यथा संहर्तृता तव ।

अभोक्तृत्वं निविशतां शुद्धे कौटस्थ्यवत्सुखम् ॥ १ ॥

अभोक्तृत्वश्रुतेर्निर्विकारत्वश्रुतिवच्छुद्धविषयत्वसम्भवेन मायोपाधिके संहर्तृतेव भोक्तृताऽप्यस्तु । एवं च ब्रह्मक्षत्रादिशब्दानां न मुख्यार्थत्यागः । तद्भोक्तृत्वस्य ब्रह्मणि सम्भवात् । ओदनादिपदोपस्थापितस्यान्तरङ्गस्य भोज्यत्वस्यापि न त्यागः । नह्यग्निर्माणवक इत्यत्राग्निशब्दः पैङ्गल्यादिकमिव द्रव्यत्वाद्युपस्थापयति । न वा प्रोद्गातॄणामित्यत्रोद्गातृशब्दोंऽतरङ्गभूतान् प्रस्तोत्रादीनिव षोडशर्त्विजो लक्षयति । येनात्राप्योदनशब्दः संहार्यत्वमुपस्थापयेत् । अपि च ‘‘सर्वं वा अत्ती’’ति मदीयविषयवाक्य इव त्वदीये वाक्ये सूत्रे प्रतिज्ञातोऽत्ता हेतूकृतं चराचरग्रहणं च न साक्षादस्ति । यच्चोक्तं परैः ‘‘प्रकरणा’’दिति सूत्रस्य ‘‘न जायते म्रियते वा विपश्चि’’दिति परमात्मन एव प्रकृतत्वाच्च स एवात्तेत्यर्थ इति । तन्न । न जायत इत्यस्मादुत्तरवाक्ये ‘‘नहन्यते हन्यमानेऽपि देह’’ इति देहसम्बन्धस्य ‘‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीत’’ इति हन्तृत्वादिभ्रान्तेश्च जीवलिङ्गस्य दर्शनेन ‘‘नजायत’’ इत्यादेर्जीवविषयत्वात् । अत्रापि परमतेऽप्यत्तुर्जीवत्वं निषिध्य ब्रह्मत्वोक्तेस्तदैक्यप्रतिकूलता व्यक्तैव ॥ टीकाक्षरार्थस्तु ॥ इति योजनायामस्ति चोद्यावकाश इति । यद्यपि ‘‘स यद्यदेवे’’त्यत्र स इत्यस्य संवत्सराख्यचतुर्मुखपरत्वमेव बृहदारण्यकभाष्ये उक्तम् ॥ ‘‘यद्यद्ब्रह्मासृजत्पूर्वं तत्तदत्ति जनार्दन’’ इति स्मृतेः । उत्तरत्र ‘‘सोऽकामयत भूयसा यज्ञेन भूयो यजेये’’त्यादौ चतुर्मुखपरत्वदर्शनाच्च । पूर्वत्रापि ‘‘स तया वाचा तेनात्मने’’ति प्रथमान्तोक्तमृत्युतोऽपि तृतीयान्तोक्त संवत्सरस्याव्यवधानेन प्रकृतत्वाच्च । संवत्सरसृष्टमत्तुमेव मृत्योः संवत्सरादनान्निवृत्ततया संवत्सरस्यैव स्रष्टृत्वस्योचितत्वाच्च । कर्तुरपि संवत्सरस्य भगवत्स्वातंत्र्यविवक्षया तेनेतिकरणत्वेन निर्दिष्टस्यापि स इति कर्तृत्वेन निर्देशोपपत्तेश्च । तथापि समानविभक्तिकत्वं परामर्शे तंत्रमिति भ्रमेण स इत्यनेनादित्याख्यमृत्योरेव परामर्श इति पूर्वपक्षे पुल्लिङ्गानुपपत्तिचोद्यावकाशोऽस्त्येव ।

ननु तथापि न चोद्यावकाशः । स ऐक्षतेत्यादौ पुल्लिङ्गैनैव तच्छब्देन मृत्युनेति मृत्युशब्देन च प्रस्तुततया गुरोर्दाराः समागतास्ते पूज्या इत्यादाविव पुल्लिङ्गोपपत्तेः । न च ‘‘अशनायां हि मृत्यु’’रिति स्त्रीलिङ्गेनाशनायाशब्देन प्रस्तुतत्वात्स इति पुल्लिङ्गानुपपत्तिरिति वाच्यम् । तथात्वे सिद्धान्तेऽप्येतदनुपपत्तेरिति चेदुच्यते । दारखट्वादिशब्देषु पुल्लिङ्गस्त्रीलिङ्गादेः शब्दसाधुतैव न त्वर्थसाधुता । न चार्थसाधुत्वे सम्भवति शब्दसाधुत्वमात्रं युक्तम् । एवं चादितौ पुल्लिङ्गो मृत्युशब्दोऽप्ययुक्तः । परमपुरुषे तु स्त्रीलिङ्गोऽप्यदितिशब्दः प्रकृत्यधिकरणन्यायेन युक्तः । तथाचास्ति चोद्यावकाश इति भावः ॥ अदितिशब्दवाच्यत्वमिति ॥ अदितिशब्दप्रवृत्तिनिमित्तमित्यर्थः ॥

प्रकाशिका

अत्र परैरिति ॥ मायावादिभिरित्यर्थः । विषयवाक्येऽत्तेतिपदाश्रवणात्तल्लाभमाह ॥ ओदनेति ॥ अद्यत्वे सत्यदनसाधनमुपसेचनम् । तयोरदनीयवाचित्वात् प्रतिसम्बन्ध्यत्ता लभ्यत इत्यर्थः । भोज्यतया प्रसिद्धो य ओदनस्तसम्बन्धेनेत्यर्थः ॥ अभोक्तृत्वादिति ॥ पूर्वत्र सम्भोगसूत्रेऽभोक्तृत्वोक्तेरश्नन्निति श्रुतेश्चेति भावः ॥ मायेति ॥ ‘‘मायोपाधेः परस्यास्ति संहर्तृत्व’’मिति कल्पतरूक्तेरिति भावः । संहर्तृत्वलाभप्रकारमाह ॥ भक्तेति ॥ अन्नवाचिन इत्यर्थः । को विशेष इत्यत आह ॥ एवं चेति ॥ मुख्यार्थत्यागमुपपादयति ॥ नहीति ॥ ब्रह्मणस्तु सर्वसंहर्तृत्वं युज्यत इति भावः । यदुक्तम् अमुख्यत्वाविशेषाद्ब्रह्मक्षत्रादिशब्दमुख्यत्वायौदनादिपदस्य संहार्यत्वमेवार्थोऽस्त्विति तत्रामुख्यत्वाविशेषेऽप्यन्तरङ्गत्वाद्भोक्तृत्वप्रतिसम्बन्धि भोज्यत्वमेव लक्ष्यताम् । ब्रह्मक्षत्रादिशब्दस्य मुख्यत्वं च शक्यसम्पादमिति भावेन तदीयसिद्धान्तरचनां निरस्यति ॥ भोक्तृतेति ॥ अनशनश्रुतेर्गतिमाह ॥ अभोक्तृत्वमिति ॥ निविशतामिति ‘‘नेर्विश’’ इत्यात्मनेपदम् । उत्तरार्धव्यक्तिपूर्वं पूर्वार्धं व्यनक्ति ॥ अभोक्तृत्वेति ॥ को विशेष इत्यतोंऽतरङ्गत्वादित्याह ॥ ओदनेति ॥ नन्वमुख्यत्वेऽन्तरङ्गत्वं बहिरङ्गत्वं वाऽप्रयोजकमित्यत उपस्थितिवैशेष्यादन्तरङ्गमेवादर्तव्यं न बहिरङ्गमित्येतदुपपादयति ॥ नहीति ॥ इदं गौणवृत्तेर् अन्तरङ्गस्योपस्थित्युपपादनम् । लक्षणायामाह ॥ न वेति ॥ यद्वा लौकिकवैदिकोदाहरणप्रदर्शनार्थं द्वयम् । उक्तमधिकरणशरीरं जन्माद्यस्येति सूत्रे । एकस्तोत्र वचनसम्बन्धादिभिरन्तरङ्गभूतान्प्रस्तोत्रादीनिव बहिरङ्गभूतान् षोडश ऋत्विजो यथोद्गातृशब्दो न लक्षयति तथौदनादिशब्दोऽपीत्यर्थः । सुधोक्तमुदाहरणानौचित्यं चाह ॥ अपि चेति ॥ ओदनोपसेचनशब्दाभ्यामत्तेत्यस्योपलक्षणीयत्वेनोक्तत्वान्न साक्षादत्तेति श्रुतम् । ब्रह्मक्षत्रादिपदेन लक्षणया चराचरग्रहणस्योक्तत्वात्तदपि न साक्षात् श्रुतम् । अतोऽस्मदुदाहरणमेव सूत्रानुगुण्याद्युक्तमित्यर्थः ।

ननु त्वद्वाक्येऽपि सर्वशब्दस्यैव श्रवणाच्चराचरशब्दाश्रवणान्न सूत्रानुगुण्यमिति चेन्न । तस्य सङ्कोचनिवृत्त्यर्थं सर्वशब्दव्याख्यानाय चराचरेत्युक्तत्वादिति प्रागेवोक्तत्वादिति भावः । द्वितीयसूत्रार्थमप्यनूद्य निराह ॥ यच्चेति ॥ उत्तरवाक्य इति ॥ ‘‘अजो नित्यश्शाश्वतोयं पुराणो न हन्यते हन्यमानेऽपि देह’’ इत्यव्यवहितोत्तरवाक्ये । उपलक्षणमेतत् । पूर्वत्रापि ‘‘एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते’’ इति जीवस्यैव प्रथमान्ततया प्रकृतस्यान्वयाच्च । विपश्चित्त्वविशेषणेन प्रागुक्तज्ञानिन एवान्वयप्रतीतेश्च । ‘‘भावाभावौ न विदुषो यस्माज्जीवो न कश्चन । न जायते म्रियते वापी’’त्यादिस्मृतिविरोधाच्चेति ध्येयम् । परस्येदं नारभ्यमेवेति भावेनाह ॥ अत्रापीति ॥ न केवलं पूर्वत्रेत्यर्थः । एतेनैतदेव वाक्यमुदाहृत्य शिवनिष्ठं संहर्तृत्वमिति वदतः कस्यचिन्मतमपि प्रत्युक्तं बोध्यम् । विषयवाक्यानानुगुण्यादेरुक्तत्वादिति ॥ अत्र टीकायां पूर्वपक्षग्रन्थे सयद्यदेवेत्यत्र पुल्लिङ्गानुपपत्तिचोद्यं भाष्यकारीयमाक्षिप्य समाहितम् । तत्राक्षेपबीजप्रदर्शनपूर्वं तद्वाक्यं व्यनक्ति ॥ यद्यपीति ॥ तद्भाष्योक्तस्मृतिमाह ॥ यद्यदिति ॥ उत्तरत्रेति ॥ स इत्यस्येत्यनुषज्यते । तच्छब्दस्य सन्निहितपरत्वाच्चतुर्मुखस्य च सन्निहितत्वात्तत्परत्वं युक्तमित्याह ॥ पूर्वत्रापीति ॥ संवत्सरसृष्टमिति ॥ पूर्वत्र ‘‘स ऐक्षत यदिह वा इममभिमंस्ये कनीयोन्नं करिष्य इति । स तया वाचा तेनात्मनेदं सर्वमसृजते’’त्यनेन यदीमं संवत्सरशब्दितं भक्षयामि तर्ह्यल्पमन्नं मे भविष्यति । अत एनमभक्षयित्वा तन्मुखेन सर्वसृष्टिं कारयित्वा तत्सृष्टमेव सर्वं भक्षयामीति बुद्ध्या तन्मुखेन सर्वसर्जनाद्भक्षणान्निवृत्तिरवगम्यत इति तदन्यथानुपपत्त्या च चतुर्मुखपरत्वमित्यर्थः । ननु पूर्वं तस्य सन्निहितत्वेऽपि तृतीयया करणत्वेनैव निर्देशान्न कर्तृवाचिना परामर्शो युक्त इत्यत आह ॥ कर्तुरिति ॥ टीकोक्तं स्पष्टीकृत्य तदुपलक्षणमिति भावेन भाष्यं प्रकारान्तरेण स्वयमाक्षिप्य समाधत्ते ॥ ननु तथापीति ॥ कथं तर्हि विष्णावदितिशब्द इत्यत आह ॥ परमेति ॥ पुरुषेति हेतुगर्भम् । अदितेरित्यनेनैव तद्वाच्यत्व-लाभाददितित्वमिति व्यर्थमित्यत आह ॥ अदितिशब्देति ॥ शिष्टं सुगममिति भावः ॥

चन्द्रिकाबिन्दुः

उपसेचनं नाम चिरं लवणसिक्तामलकादिफलानि । कथमत्ता सूचित इत्याशङ्क्य भोज्योदनादिपदमहिम्नेत्याह ॥ अत्तृत्वस्येति ॥ संहर्तृत्वस्य कौटस्थ्यवन् निष्क्रियत्ववत् । ओदनादिपदेन भोज्यत्वत् संहार्यत्वमपि लक्ष्यमिति यदुक्तं तन्निराकर्तुमाह ॥ ओदनादिपदेति ॥ द्रव्यत्वादीति पदार्थान्तरसाधारणधर्मोपस्थापकत्वं नास्तीत्यर्थः । तद्वदत्र पाषाणादिसाधारणसहायत्वं नोपस्थाप्यमिति भावः । तेन स इति तच्छब्देन संवत्सरपरामर्शे तस्य कर्तृत्वं प्राप्तं पूर्वं च तस्य करणत्वेन तं स तथा वाचा तेनात्मनेत्यादावुक्तिरस्ति अतो विरोध इत्यत आह ॥ कर्तुरपीति ॥ अदितेरपि स्त्रियः पुंशब्देन प्रकृतत्वात् स इति परामर्श उपपद्यते । तथा च पुनरपि न चोद्यावकाश इत्याक्षिपति ॥ ननु तथापीति ॥ मृत्युशब्देनेति ॥ यद्यपि मृत्युशब्दः स्त्रीलिङ्गोऽप्यस्ति । तथाप्यत्र मृत्युनेत्युक्तत्वात् पुंलिङ्ग एवायं मृत्युशब्द इति भावः ॥ तथात्व इति ॥ सिद्धान्ते अशनायाशब्देनापि विष्णोरुक्तेरिति भावः ॥ एवं चेति ॥ तथा पुंलिङ्गनिर्देश इति पदं भाष्ये मृत्युशब्दतच्छब्दाद्यभिप्रायेण प्रवृत्तमिति ध्येयम् ॥ तथात्व इति स्वपक्षोक्तदूषणं परिहरति ॥ परमपुरुषे त्विति ॥

॥ इति अत्तृत्वाधिकरणम् ॥ २ ॥