सिद्धान्तस्तु
सिद्धान्तनिरूपणम्
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ॥
सर्वात्तृत्वादिकं नैव विष्णोरन्यस्य युज्यते ।
विष्णावदितिशब्दस्तु श्रुतः श्रुत्यन्तरे स्फुटम् ॥ १ ॥
न च बाधं विना सर्वशब्दः सङ्कोचमर्हति ।
पूषादिवच्च नात्रास्ति बाधो येनापकर्षणम् ॥ २ ॥
अवान्तरप्रक्रियातु सन्दंशात् कल्प्यते स च ।
अभिक्रामं जुहोतीति वाक्येऽस्तिप्रकृते तु न ॥ ३ ॥
भाष्योक्तश्रुत्यादिना सर्वात्तृत्वं निरवकाशम् । अन्वाख्यानपक्षेऽपि देवमातरि रूढिबाधार्थमेवेह सर्वात्तृत्वमेवादितिशब्दप्रवृत्तिनिमित्तमिति श्रुत्या स्वयमेवोक्तत्वाददितिश्रुतिरदितित्वलिङ्गं च विष्णावेव मुख्यम् । न चाबाधे श्रुत्युक्तं निमित्तं त्यागार्हम् । अनश्नन्नित्यादेस्तूत्तराधिकरणे गतिर्वक्ष्यते । ‘‘यदेनमधिनोत्तद्दध्नो दधित्व’’मित्यादि तु यदि प्रसिद्धदधिविषयं तर्हि जातिनिमित्तकस्य दधिशब्दस्येदमन्वाख्यानमात्रम् । यदि त्वप्रसिद्धविषयं तर्ह्यबाधान्निमित्तपरमेव । युक्ता चादितिशब्दस्य ‘‘अदितिर्हीदं सर्वं यदिदं किञ्च अदितिर्देवतामयी’’त्यादौ ब्रह्मणि प्रयोगात्तत्र निमित्ताकाङ्क्षा । न हि लौकिकप्रयोग एवाकाङ्क्षानिमित्तम् । ‘‘यदाजिमीयुस्तदाज्यानामाज्यत्व’’मित्यादावदर्शनात् । किञ्च ।
पूर्वत्रादितिशब्दस्य प्रयोगान्नानुशासनम् ।
शब्दस्तु किन्तु पूर्वोक्तात्तृत्वे हेतुरिहोच्यते ॥ १ ॥
न हीहपूर्ववाक्येऽदितिशब्दःप्रयुक्तः । येन तदनुशासनं युक्तं स्यात् । न च तत्तदत्तुमिति पूर्वप्रतिज्ञातसर्वात्तृतायां श्रुत्यन्तरे ब्रह्मणि प्रयुक्तस्य सर्वात्तृत्वनिमित्तकस्यादितिशब्दस्य हेतूकरणे सम्भवति स्थलान्तरस्थादितिशब्दस्य निर्वचनं युक्तम् । अत एव टीकायां विषयवाक्यार्थोक्तिदशायां हेतुत्वमुक्तम् । एवं च न सर्वशब्दस्य सङ्कोचः । बाधकाभावात् । पूर्ववाक्ये स यद्यदेवासृजत तत्तदत्तुमिति वीप्सया कृत्स्नोक्तेश्च । सर्वस्यैतस्यात्तेत्यादौ तु सर्वशब्दस्य बाधकवशात्सङ्कोचः । अत एव सूत्रे लाघवाय श्रुत्यनुगमाय च सर्वशब्दे प्रयोक्तव्येऽपि सर्वशब्दस्य सङ्कोचनिरासाय चराचरशब्दः प्रयुक्तः । न चाबाधेऽपि प्रकरणादुत्कर्षः । अभिक्रमणस्यावान्तरप्रकरणं च तस्य प्रयाजविषयैर्वाक्यैः पूर्वं पश्चाच्च सन्दष्टत्वात् । न चात्तृत्वस्यादितिविषयैर्वाक्यैः सन्दंशोऽस्ति । अदितेरेव महाप्रकरणमिति तु ‘‘नेहासीत्किंचने’’त्यादिभाष्योक्तस्मृत्यैव निरस्तम् । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितयोर्लिङ्गप्रकरणयोरेव बलवत्त्व’’मिति । अत्र चाद्ये सूत्रे लिङ्गोक्तिर्द्वितीये तु प्रकरणोक्तिरिति स्फुटः सूत्रक्रमः ।
प्रकाशिका
‘‘सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्त्वमिति न्यायविवरणं हृदि कृत्वा भाष्यटीकयोरुक्ते पूर्वोत्तरपक्षप्रापकयोः सावकाशत्वनिरवकाशत्वे सङ्गृह्णाति ॥ सर्वेति ॥ आदिपदेन प्रकरणम् । अत्रैवं ध्येयम् । अत्ता विष्णुरेव । सर्वं वा अत्तीत्यद्यतया चराचराख्यसर्वग्रहणान्नैवेह किञ्चनेति विष्णुप्रकरणाच्च । ताभ्यामदितिश्रुतिलिङ्गयोर्बाधात् । न च ते सावकाशे श्रुतिलिङ्गे तु निरवकाशे इत्युक्तमिति वाच्यम् । यतस्सर्वातृत्वादिकमित्यादि सम्बध्यत इति ॥ श्रुतेस्सावकाशत्वोक्त्यैव तच्छब्दप्रवृत्तिनिमित्तस्यादितित्वलिङ्गस्यापि तत्सिद्धमित्यदितिशब्दस्त्वित्येवोक्तम् ।
ननु सर्वशब्दसङ्कोचेनादितावपि लिङ्गं युक्तमित्युक्तमित्यतस्सूत्रे चराचरेतिश्रौतसर्वशब्दार्थोक्त्या सूचितमाह ॥ न च बाधं विनेति ॥ या तु प्रकरणादुत्कर्षोक्तिस्तत्राह ॥ पूषादीति ॥ यदप्यभिक्रमणदृष्टान्तेनावान्तरप्रकरणकल्पनं तद्वैषम्यमाह ॥ अवान्तरेति ॥ सच सन्दंशः । पूर्वार्धं व्यनक्ति ॥ भाष्येति ॥ ‘‘एकः पुरस्ता’’दित्यादिश्रुत्या ‘‘स्रष्टापाते’’त्यादिस्मृत्येत्यर्थः । ननूक्तमत्र प्रसिद्धार्थ एवेत्यादि तत्राह ॥ अन्वाख्यानेति ॥ अदितिशब्दव्युत्पादनपक्षेऽपीत्यर्थः । प्रसिद्धादितिपरत्वत्यागेनापूर्वार्थस्वीकारायैव ‘‘सर्वं वा अत्ती’’ति सर्वात्तृत्वरूपप्रवृत्तिहेतुकथनादित्यर्थः । एतेन सर्वं वा अत्तीति यत्सर्वात्तृत्वमदितेरदितिशब्दार्थस्य विष्णोरदितित्वमदितिशब्दप्रवृत्तिनिमित्तमिति श्रुत्यर्थ उक्तो भवति । ननु श्रुतौ सर्वात्तृत्वरूपनिमित्तोक्तावपि न तन्निमित्तेन विष्णौ यौगिकत्वं युक्तम् । किन्तु जातिनिमित्तक एवायं शब्दः । दधिशब्दे तथादर्शनेन रूढेर्बलवत्त्वादित्यत आह ॥ न चेति ॥ कम्पनादित्यत्राज्ञरूढितो वैदिकयोगबलवत्ताया वक्ष्यमाणत्वादिति भावः । एतेन तीरादौ गङ्गादिपदप्रयोगेऽपीत्यादिनोक्तशङ्काऽपास्ता । श्रुतिरेव बाधिकेत्यत आह ॥ अनश्नन्नितीति ॥ अशुभभोक्तृत्वनिषेधपरतया गतिर्वक्ष्यत इत्यर्थः । न तदश्नातीत्यस्य त्वक्षरनये गतिर्वक्ष्यत इत्यपि ध्येयम् । एतेन यद्वेत्यादिनोक्तलिङ्गनिरवकाशत्वशङ्का प्रत्युक्ता प्रागुक्तदधिदृष्टान्तं प्रत्याह ॥ यदेनमिति ॥ दर्शपौर्णमासप्रकरणे ऐन्द्रदधि्नदधिशब्द निर्वचनार्थोऽयमर्थवादः। एनमिन्द्रमधिनोदप्रीणयदिति यत्तद्दध्नो दधित्वमित्यन्वाख्यानमात्रम् । अवयवार्थकथनमात्रम् । ननु पूर्वत्रादितिपदस्य विष्णावेवाप्रयोगान्न तत्र निमित्ताकाङ्क्षा । तथाच विष्ण्वर्थत्वेऽदितिशब्दस्य तत्राप्रसिद्धत्वेनादितेरित्यनुवादोवाऽदितित्वमित्यत्र निमित्तोक्तिर्वा न युक्तेत्यतो ऽत्र श्रुतावदितिपदस्य पूर्वत्राप्रयोगेऽपि श्रुत्यन्तरे प्रयोगसत्त्वेन विष्णौ प्रसिद्धेस्तत्र निमित्ताकाङ्क्षायाम् अदितेरदितिशब्दवाच्यस्य विष्णोस्तत्सर्वात्तृत्वमदितित्वमदितिशब्दप्रवृत्तिनिमित्तमित्यर्थोपपत्तिरिति भावेनाह ॥ युक्ताचेति ॥ एतेन ‘‘विष्णावदितिशब्दस्त्वित्यर्धं विवृतम् । अथवेत्यादिनोक्तश्रुतिलिङ्गनिरवकाशत्वशङ्का च निरस्ता । ‘‘अदितिश्रुतेर्विष्णावपि सावकाशत्वाल्लिङ्गस्य चादितिशब्दवाच्यत्वमदितित्वमिति सावकाशत्वा’’दिति टीकाच विवृता । ननु विष्णावदितित्वनिमित्तेनैवादितिशब्दस्य विधित्सितत्वेन निमित्तोक्तेः पूर्वमदितेरिति कथमनुवाद इति चेन्न । ‘‘इग्यणस्सम्प्रसारणम् अग्नये जुष्टं निर्वपामी’’त्यादाविव भाविसंज्ञयोपपत्तेः । यथोक्तं न्यायविवरणटीकायां ‘‘अदितेरिति भाविनी संज्ञा विज्ञायते । यथाऽस्य सूत्रस्य शाटकं वयेति । अन्यथा परस्यापि दुर्घटमेतत् । अविवक्षितनिमित्तां प्रसिद्धिमाश्रित्य ममानुवादस्सम्भवतीति चेन्ममापि तत्समम् ।
इयांस्तु विशेषः । परस्य लौकिकी प्रसिद्धिर्मम वैदिकीतीति ॥ लौकिकेति ॥ तत्र विप्लुतिसम्भवात् । निर्दोषवैदिकप्रयोगे तु तदसम्भवादिति भावः ॥ यदाजिमिति ॥ छन्दोगब्राह्मणे ज्योतिष्टोमप्रकरणे बहिष्पवमानस्तोत्रनामनिर्वचनार्थोऽयमर्थवादः । यानि स्तोत्राण्यवष्टभ्य देवा आजिं युद्धमीयुस् तदेवाज्यानां स्तोत्राणामाज्यत्वमित्यर्थः । ‘‘तस्योपनिषत्सत्यमिति । सदित्यन्नं तीत्यमृतम् । ते उभे यच्छती’’त्यादिरादिपदार्थः । पूर्वं न्यायविवरणटीकारीत्याऽन्यत्र प्रयुक्तादितिशब्दान्वाख्यानपरत्वं विवृतम् । इदानीमेतट्टीकोक्तं हेतुपरत्वं विवृणोति ॥ किञ्चेति ॥ पूर्वोक्तात्तृत्व इति ॥ तत्तदत्तुमध्रियत आदच्चेति पूर्ववाक्योक्तात्तृत्व इत्यर्थः ॥ हेतुरिति ॥ यतस्सर्वात्तृत्वादेवादितिशब्दवाच्यत्वमतस्सर्वात्तृत्वनिमित्तकादितिशब्दवाच्यत्वादेव सर्वमाददिति हेतुरुच्यत इत्यर्थः ॥ स्थलान्तरस्थेति ॥ विष्णौ श्रुत्यन्तरे प्रयुक्तस्येत्यर्थः ॥ हेतुत्वमुक्तमिति ॥ तत्तदत्तुं मनोध्रियत आदच्च । कुतः सा सर्वात्री । सर्वमत्तीति यत्तदेव ह्यदितेरदितित्वनिमित्तमित्युक्तमित्यर्थः । न च बाधं विनेत्यर्धं व्यनक्ति ॥ एवं चेति ॥ न केवलं बाधाभावः । असङ्कुचितवृत्तित्वे ज्ञापकं चास्तीति भावेन सुधोक्तमाह ॥ पूर्वेति ॥ यदपि स्वीकृतश्च सिद्धान्तिना सङ्कोच इति तत्राह ॥ सर्वस्येति ॥ असम्भवस्यैव बाधकत्वादिति भावः । पूषादिवच्चेत्यर्धं व्यनक्ति ॥ न चेति ॥ उक्तरीत्या श्रुतिलिङ्गयोः सावकाशत्वेन तयोरबाधकत्वादिति भावः । उक्तं चार्थवादाधिकरणे ‘‘प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हितं प्रती’’ति सूत्रे बाधकाभावेऽपकर्षणं नेत्येतदिति भावः । अवान्तरेति श्लोकं व्याचष्टे ॥ अभिक्रमणस्येति ॥ ‘‘समानयत उपभृत’’ इति पूर्वं ‘‘यो वै प्रयाजानां मिथुन’’मिति पश्चाच्च प्रयाजविषयैर्वाक्यैरित्यर्थः । यदपि यद्वाऽदितिश्रुतिबलादित्यादि तन्न । प्रकरणस्य निरवकाशत्वादित्याह ॥ अदितेरिति ॥ टीकाप्रमेयं न्यायविवरणमूलमिति भावेनाह ॥ तदेतदिति ॥ सन्दिग्धेति ॥ सन्दिग्धत्वनिश्चितत्वे सावकाशत्वनिरवकाशत्वे । प्रकरणाल्लिङ्गस्य बलवत्त्वात्सूत्रक्रम इत्याह ॥ अत्र चेति ॥
चन्द्रिकाबिन्दुः
ननु अन्वाख्यानपक्षे सर्वात्तृत्वमदितौ वक्तव्यमिति निर्बन्धो नास्तीत्यत आह ॥ अन्वाख्यानेति ॥ निर्वचनलभ्यार्थस्यादितावनङ्गीकारे अन्वाख्यानमप्ययुक्तमेव अन्वाख्यायमानार्थस्य तथात्वे क्वचिदप्यभावप्रसङ्गात् । तथा चादौ सर्वात्तृत्वादिकमस्तीति वक्तव्यं तच्च न सम्भवतीति भावः । प्रसिद्धदधीति ॥ दध्याधारकत्वेन प्रसिद्धेत्यर्थः ॥ अन्वाख्यानमात्रमिति ॥ हविष्ट्वेन प्राप्ते दधि्न यदेनमित्यादिना इन्द्रप्रीतिकरत्वं विद्यमानमन्वाख्यायते इत्येव न तत्तत्पदप्रवृत्तिनिमित्तमिति भावः ॥ निमित्तपरमेवेति ॥ तथा च दधिशब्दः दध्नयसाधारणः सर्वत्रापि इन्द्रप्रीतिकरत्वाख्यनिमित्तस्य सत्त्वादिति भावः । विष्णावदितिशब्दस्त्विति कारिकार्थं व्याचष्टे ॥ युक्ता चेति ॥ वेदेन कृते प्रयोगे निमित्ताकाङ्क्षा नैवेत्यत आह ॥ न हीति ॥ अदर्शनादिति ॥ आज्यैः स्तुवत इत्यादौ स्तोत्र आज्यपदप्रयोगादर्शनात् केवलवेदेन कृत एव प्रयोगे वेदेनैव यदि जिमीयुरित्यादिना निमित्तकथनं न स्यादिति भावः ॥ स्थलान्तरस्थेति ॥ एतस्य पूषानुमन्त्रणवाक्यादपकर्षं वदता त्वया स्थलान्तरस्थादितिशब्दव्याख्यानस्यैवाङ्गीकारादिति भावः ।
पाण्डुरङ्गि
तद्दध्नो दधित्वमित्यत्र प्रातिपदिकस्य प्रसिद्धदधिपरत्वस्य त्वप्रत्ययस्य च तद्गतधर्मपरत्वस्य च दर्शनेन प्रकृतेऽपि सर्वं वा अत्तीत्यादावदितिप्रातिपदिकस्य प्रसिद्धादितिपरत्वात्ततः परत्वप्रत्ययस्य तद्गतधर्मपरत्वमेव किं न स्यादित्यतो दृष्टान्त एवासम्प्रतिपन्न इत्याह ॥ यदेनमिति ॥ अन्वाख्यानमात्रं प्रकृतिप्रत्यययोरर्थकथनमात्रमित्यर्थः । अन्वाख्यानपक्षेऽपि सर्वात्तृत्वमदितिशब्दप्रवृत्तिनिमित्तमित्ययुक्तम् । प्रसिद्ध एवार्थे निमित्तस्याकाङ्क्षितत्वेन ब्रह्मणि चादितिशब्दप्रयोगाभावेन तस्यादितिशब्दप्रसिद्धार्थत्वाभावेन तत्र निमित्तस्यानाकाङ्क्षितत्वादित्यत आह ॥ युक्ताचेति ॥ नन्वेवमदितिशब्दस्य ब्रह्मणि श्रौतप्रयोगसद्भावेऽपि तस्याकाङ्क्षानिमित्तत्वाभावात् । आकाङ्क्षानिमित्तस्य च लौकिकप्रयोगस्य देवमातरीव ब्रह्मण्यभावान्निमित्ताकाङ्क्षा नोपपद्यत इत्यत आह ॥ न हीति ॥ यदेति ॥ तथा सत्याज्यैस्तुवत इत्यत्राज्यशब्दस्य लोकतो घृतमात्रे प्रसिद्धस्य स्तोत्रे लोकतोऽप्रसिद्धत्वादाकाङ्क्षानिमित्तस्य लौकिकप्रयोगस्याभावात् । यदा जिमीयुरिति प्रवृत्तिनिमित्तकथनमनुपपन्नमित्यर्थः । एवमन्वाख्यानपक्षमेवाङ्गीकृत्य सर्वं वा अत्तीत्यनेन सर्वात्तृत्वरूपमदितिशब्दप्रवृत्तिनिमित्तमेवोच्यत इत्युपपादितम् । इदानीं तु हेतुपरत्वेऽपि व्याचष्टे ॥ किं चेत्यादिना ॥
ननु पूर्ववाक्येऽदितिशब्दस्याप्रयुक्तत्वेऽप्यनुशासनं युज्यते । अदितिर्देवतामयीत्यादौ स्थलान्तरे प्रयुक्तस्यादितिशब्दस्य निर्वचनं क्रियत इति किं न स्यादित्यत आह ॥ न चेति ॥ किं चादितिशब्दस्य प्रसिद्धादितिपरत्वे सर्वं वा अत्तीति सर्वशब्दोऽनुपपन्नः । नचात्रोक्तश्रुतौ सर्वशब्दस्त्वदित्यदनयोग्यसर्वपर इति तत्राह ॥ एवं चेति ॥ किं च मृत्युनैवेदमावृतमासीदित्यादिनाऽस्य प्रकरणस्य वैष्णवत्वाददितिशब्दस्य प्रसिद्धार्थत्वे प्रकरणविरोधः । न च दर्शपूर्णमासप्रकरणात्पूषाप्रपिष्ट भाग इत्युक्तस्य पौष्णपेषणस्येव विष्णुप्रकरणात्तददितेरदितित्वमित्यस्याप्युत्कर्षोऽस्त्वित्यतो वैषम्येण परिहरति ॥ न चेति ॥ दृष्टान्ते तु बाधकसद्भावादुत्कर्ष इति भावः । नन्वभिक्रामं जुहोतीति दर्शपूर्णमासप्रकरणे श्रुतस्याभिक्रमणस्यैतदङ्गप्रयाजान्वयार्थं प्रयाजस्यावान्तरप्रकरणमिव विष्णुप्रकरणेऽदितेरवान्तरप्रकरणं किं न स्यादित्यत आह ॥ अभिक्रमणस्येति ॥ अदितिश्रुतिबलान्नैवेत्यादिप्रकरणमपि अदितेरेवेत्यन्तिमपूर्वपक्षं निराकरोति ॥ अदितेरिति ॥