०१ प्रत्युदाहारणसंगतिप्रदर्शनम्

अत्र पूर्ववैषम्यप्रदर्शनेन पूर्वपक्षोत्थानादनन्तर सङ्गतिः

अत्तृत्वाधिकरणम्

प्रत्युदाहारणसंगतिप्रदर्शनम्

तात्पर्यचन्द्रिका

॥ ॐ अत्ताचराचरग्रहणात् ॐ ॥

अत्र पूर्ववैषम्यप्रदर्शनेन पूर्वपक्षोत्थानादनन्तर सङ्गतिः । अत्र ‘‘सर्वं वा अत्तीति तददितेरदितित्व’’मित्युक्तमत्तृत्वं किमदितेर्विष्णोर्वेति चिन्ता । तदर्थं सर्वशब्दसङ्कोचकमस्ति न वेति । तदर्थं सर्वं वा इति वाक्यं किं प्रसिद्धेऽर्थे शब्दान्वाख्यापकं किं वा प्रसिद्धार्थं बाधित्वा योगोक्त्या ‘‘तत्तदत्तुमध्रियते’’ति प्रतिज्ञाते सर्वात्तृत्वे हेतुपरमिति । पूर्वपक्षस्तु । युक्तमादित्यश्रुतिसहचरितमपि सर्वगतत्वं विष्णौ । अन्तरित्यत्र तत्पर्यायसवितृशब्दसमन्वयस्य सिद्धेः । अदितिशब्दपर्यायस्यापि न तत्र सिद्धिः । तथाचादितिरेवात्री तददितेरदितित्वमित्यदितिश्रुतेरदितित्वलिङ्गाच्च । तदुक्तं न्यायविवरणे । श्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं चेति । नन्वत्र टीकायामुक्तन्यायेन श्रुतेः सावकाशत्वे शङ्किते तामनुक्त्वा लिङ्गमुक्त्वा नह्यदितिभिन्नस्यादितित्वमिति लिङ्गस्य निरवकाशत्वं चोक्तम् । तत्कथम् । अदितिश्रुतेर्ब्रह्मणि मुख्यत्वेऽमुख्यत्वे वाऽदितित्वलिङ्गस्यापि तत्र मुख्यस्यामुख्यस्य वा सम्भवादिति चेदुच्यते । तीरादौ गङ्गादिपदप्रयोगेऽपि तीरे गङ्गात्वमित्यप्रयोगात् श्रुतेर्ब्रह्मण्यमुख्यत्वेन सम्भवेऽपि लिङ्गस्यामुख्यत्वेनाप्यसम्भव इति टीकाभिप्रायः ।

प्रकाशिका

अत्र भाष्यदिशा जन्मादिसूत्रानन्तर्यभावेऽपि तत्फलपरमिति भावेन पूर्वेण प्रत्युदाहरणसङ्गतिमाह ॥ अत्रेति ॥ वैषम्यं चाग्रे स्पष्टम् । एतेन टीकोक्तरीत्याऽदितिश्रुतेस्सावकाशत्वाल्लिङ्गस्य निरवकाशत्वात्स्वत एव लिङ्गमन्यत्र प्रसिद्धम् । न तु श्रुतितः । प्रत्युत लिङ्गात् श्रुतिरेव पूर्वत्रेवान्यत्रप्रसिद्धेति कथं लिङ्गस्य तत्साहित्येन तथात्वोक्तिरिति निरस्तम् । पूर्ववैषम्यस्य श्रुतेर्निरवकाशत्वस्य वक्ष्यमाणत्वात् । लोकतश्श्रुतेरन्यत्र निरूढत्वाच्च । अत एव टीकायां लोकत इत्युक्तम् । न चैवं नामैव समन्वीयतामिति वाच्यम् । पादसङ्गत्यर्थं सर्वात्तृत्वरूपापूर्वगुणलाभार्थं च लिङ्गस्यैव समन्वयोक्तेरिति । संशयटीकां व्यनक्ति ॥ अत्रेति ॥ ‘‘स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदितित्व’’मिति बृहदारण्यके तृतीयेध्याये ‘‘सोऽदितिर्यद्यदसृजत तत्तदत्तुं मनोऽध्रियत । आदच्च । कुतः सर्वात्री सा सर्वं वा अत्तीति यत्तदेव ह्यदितेरदितित्व’’मिति टीकोक्तदिशा श्रुतं सर्वसंहर्तृत्वरूपमत्तृत्वमित्यर्थः । प्रसिद्धेऽर्थे अदितिरूपदेवतायाम् । अदितिशब्दप्रवृत्तिनिमित्तव्युत्पादकमित्यर्थः ॥

हेतुपरमिति ॥ यस्मात् सर्वात्तृत्वादेवादितित्वमतस्सर्वमत्तुं मनोऽकुरुतेति हेतुपरमित्यर्थः । यद्यन्वाख्यापकं तदा तत्र सम्भावितकतिपयात्तृत्वस्यैव ग्राह्यत्वेन सर्वशब्दसङ्कोचाददितिरेवेति पूर्वपक्षे फलम् । यदि हेतुपरं तदा सङ्कोचकाभावाद्विष्णुरेवेति सिद्धान्ते फलमिति स्पष्टत्वान्नोक्तम् । अत्र ‘‘सन्दिग्धश्रुतिलिङ्गाभ्यां निश्चितलिङ्गप्रकरणयोरेव बलवत्त्वम् । सन्दिग्धश्रुतिर्लिङ्गं चादितिशब्दोऽदितित्वं चे’’ति न्यायविवरणे श्रुतेरेव सन्दिग्धत्वविशेषणाल्लिङ्गस्य तदविशेषणाद् भाष्यटीकायां न्यायविवरणटीकायां च श्रुतेरन्तर्नयन्यायेन सावकाशत्वमुपेत्य लिङ्गस्य निरवकाशत्वेन पूर्वपक्षः कृतः । तस्मिन्पक्षे लिङ्गस्य निरवकाशत्वं नन्वत्रेत्यादिना वक्ष्यमाणदिशोपपादनसापेक्षम् । श्रुतेरपि निरवकाशत्वे तु नोपपादनक्लेश इति भावेन न्यायविवरणस्थचशब्देन द्वयोरपि प्रत्येकं पूर्वपक्षप्रापकत्वभानात्तदनुरोधेन द्वयोरपि प्रत्येकं निरवकाशत्वं न्यायविवरणाभिमतम् । सन्दिग्धपदेन श्रुतेस्सावकाशत्वोक्तिस्त्वन्तर्नये सजातीयेन्द्रादिदेवतावाचिशब्दस्य समन्वितत्वात्सिद्धान्तिना सावकाशयितव्यत्वाभिप्रायत्वादिति । श्रुतेर्निरवकाशत्वं च द्वेधा । पूर्वमदितिशब्दपर्यायस्यापि विष्णावसमन्वयाद्वा श्रुतिबाधकनिरवकाशविष्णुलिङ्गाभावेनान्तर्नयन्यायाविषयत्वाद्वेत्यभिप्रेत्य तत्राद्यं पूर्ववैषम्यप्रदर्शनपूर्वं व्यनक्ति ॥ युक्तमित्यादिना ॥ द्वितीयमथवेत्यादिनाऽग्रे विवरिष्यत इति ध्येयम् । अत्रैवं योजना । अदितिरेवात्तृत्वेनोच्यते । तददितेरित्यादिश्रुतेः । न चादित्यश्रुतौ सत्यामपि सर्वगतत्वं विष्णोरिवात्तृत्वमपि किं न स्यादिति वाच्यम् । युक्तमादित्यश्रुतीत्यादि ॥ सवितृशब्देति ॥ सवितारं बृहस्पतिमिति तत्र श्रवणादिति भावः । एवं श्रुत्यैव पूर्वपक्षे तद्दार्ढ्याय लिङ्गं चाह ॥ अदितित्वेति ॥ श्रुतेर्निरवकाशत्वोक्त्यैवादितित्वलिङ्गस्य विष्णौ निरवकाशत्वं सिद्धमेव । तच्छब्दप्रवृत्तिनिमित्तरूपत्वात्तस्य । अतो न तत्रोपपादनापेक्षेति भावेन वा अथवेत्यत्राग्रे स्पष्टमित्यभिप्रेत्य वाऽदितित्वलिङ्गाच्चेत्येवोक्तम् । टीकायामेवमदृष्टेः किमस्य मूलमित्यतो न्यायविवरणस्य टीकोक्तवर्णकाद्वर्णकान्तरमेतदिति भावेनाह ॥ तदुक्तमिति ॥ सन्दिग्धश्रुतिलिङ्गं चेत्यादिरूपेण तत्र पाठेपि श्रुतिर्लिङ्गं चेत्यनुवादस्तु सन्दिग्धपदं टीकायां ‘‘श्रुतेस्सावकाशत्वोक्ति’’स्त्वित्यादिना वक्ष्यमाणाभिप्रायमिति सूचयति । श्रुतिर्लिङ्गं चेत्युक्तस्य यथाक्रमं विवरणमदितिशब्दोऽदितित्वं चेति । नन्वस्त्वेवमुक्तदिशा श्रुतिर्निरवकाशेति लिङ्गमपि तादृशम् । श्रुतिस्सावकाशेति पक्षे कथमित्याक्षिपति ॥ नन्विति ॥ न च श्रुतिर्विष्णुविषया किं न स्यादुक्तन्यायादित्यन्तरधिकरणन्यायेन शङ्कित इत्यर्थः । पूर्वपादे प्रतिनयमधिदैवाधिभूतादिशब्दानां विष्णौ शक्तिरप्यस्तीत्युच्यत इति पक्षमुपेत्याह ॥ श्रुतेर्ब्रह्मणि मुख्यत्व इति ॥ तात्पर्यमात्रमेवोच्यते । न तु शक्तिरिति पक्षमुपेत्याह ॥ अमुख्यत्वेवेति ॥ यद्वा लोकरूढ्यभावमदनरूपप्रवृत्तिनिमित्ताभावं वाऽभिप्रेत्याह ॥ अमुख्यत्वेवेति ॥ लिङ्गस्यापीति ॥ तच्छब्दप्रवृत्तिहेतुत्वात्तस्येति भावः । द्वेधासमाधिमाह ॥ तीरेति ॥ सम्भवेऽपीत्यभ्युपगमवादं सूचयत्यपिपदेन । वस्तुतोऽदितिशब्दस्य तत्पर्यायस्य वा प्रागसमन्वयेन मुख्यत्वेन ब्रह्मणि सम्भवायोगात् सजातीयेन्द्रादिशब्दसमन्वयोक्तिमात्रेणादितिशब्दप्रवृत्तिहेतोर्हरावसिद्धेर्ब्रह्मण्यमुख्यत्वेन सम्भवेऽपीत्युक्तम् । मुख्यत्वेन सम्भवेतु तच्छब्दप्रवृत्तिनिमित्तस्यादितित्वस्य ब्रह्मणि मुख्यत्वेन सम्भव एव स्यादिति भावः ।

चन्द्रिकाबिन्दुः

अत्ता चराचरग्रहणात् ॥ किं प्रसिद्धेऽर्थ इति ॥ प्रसिद्धेऽर्थे देवमातरि वा स्वरूपप्रवृत्तिनिमित्तकस्य वाशब्दस्य अत्तीति निर्वचनप्रदर्शनेन अदितिशब्दस्य साधुत्वमात्रमन्वाख्यायते इत्यर्थः । तथास्यां कोटौ अदितिशब्दस्य निर्वचनलब्धस्यात्तृत्वस्यादितौ सत्त्वं नाभ्युपेयते शब्दान्वाख्यानमात्रत्वाद्वाक्यस्येति । तथा चास्यां कोटौ अदितिश्रुतिरेव सर्वशब्दसङ्कोचितफलम…..हेतु ॥ परमिति ॥ तथा चादितिर्न……सको निकतिह फलमिति भावः । अत्रास्पष्टोऽभिप्रायः ग्रन्थपातश्च स्यादिति भाति ।

पूर्वाधिकरणवैलक्षण्यप्रदर्शनपूर्वकं पूर्वपक्षमारचयति ॥ पूर्वपक्षस्त्विति ॥ अदितित्वलिङ्गादिति ॥ न हि विष्णोरदित्यात्मकत्वमिति भावः । लिङ्गमुक्तवा अदितित्वलिङ्गमुक्तवा ॥ मुख्यत्वेऽमुख्यत्वेति ॥ अन्तरधिकरणे इन्द्रादिशब्दानां मुख्यत्वपक्षावलम्बनेनामुख्यत्वपक्षावलम्बनेन च सिद्धान्तकथनात्तथोक्तमिति ध्येयम् । तीरे गङ्गात्वमिति प्रयोगे अमुख्यगङ्गात्वमस्त्येव ।

पाण्डुरङ्गि

पूर्ववैषम्येति ॥ युक्तमादित्यश्रुतिसहचरितमपि सर्वगतत्वं विष्णौ । अन्तरित्यत्र तत्पर्यायसवितृशब्दसमन्वयस्य सिद्धत्वात् । न च प्रकृतेऽदितिशब्दपर्यायशब्दसमन्वयोंऽतरित्यत्र सिद्धः । तथापूर्ववैषम्यमित्यर्थः ।