टीकाक्षरार्थस्तु
टीकाक्षरार्थवर्णनम्
तात्पर्यचन्द्रिका
टीकाक्षरार्थस्तु ॥ पूर्वं चक्षुर्मयत्वादिकमन्तर्यामिण्यङ्गीकृत्याल्पौकस्त्वं न युक्तमित्युक्तम् । इदानीं जीवधर्मत्वात्तस्य तदपि न युक्तमित्याह ॥ चक्षुर्मयत्वाद्ययोगाच्चेति ॥ सर्वगतत्वानतिरिक्तत्वेनेति ॥ ‘‘अत सातत्यगमन’’ इति धातोः ‘‘सन्ततो ह्यत उच्यत’’ इति वचनाच्चातत्वं सर्वगतत्वानतिरिक्तमित्यर्थः ॥ व्रीह्यादिगतजीवान्तरवदिति ॥ स्वर्गाच्च्युतः स्थूलशरीरसम्बन्धार्थं पित्रादिशरीरप्रवेशायान्यकर्मनिर्मितव्रीह्यादिशरीरगतो जीवो जीवान्तरशब्दार्थः ॥ सर्वगततया सर्वजीवाग्रहणापातादिति ॥ सर्वजीवानां कर्मत्वाभावे सर्वगतवाक्ये सर्वगततया ये सर्वजीवाः प्रकृतास्तेषां ‘‘स य एवमेतमात्मान’’मिति कर्मभूतात्मविशेषणेनैतच्छब्देन ग्रहणं न स्यात् । ग्रहणे सर्वजीवानां कर्मत्वापत्तेः । तथाचैतच्छब्दस्य प्रकृतसर्वपरत्वसम्भवे तदेकदेशपरत्वमयुक्तमित्यर्थः । यद्वा एतमित्यनेन सर्वजीवानामनिर्देशे एतच्छब्दस्वारस्यार्थं सर्वगतवाक्येपि सर्वगततया सर्वेषां ग्रहणं न स्यात् । तथाच सर्वे जीवाः सर्वगता इति पूर्वपक्षिणा यद्गृहीतं तद्धीयेतेत्यर्थः ॥ तथा प्रतीत्यभावेनेति ॥ कर्मीभूतात्मविशेषणेन चक्षुर्मयत्वादिना जीवसामान्यलिङ्गेन जीवमात्रस्यैव प्रतीतेरित्यर्थः । न केवलं कर्मत्वं जीवविशेषस्येत्ययुक्तम् । किन्तु कर्तृत्वमपि । ‘‘योऽवगुरेत्तं शतेन यातया’’दित्यत्रेव यः शंसत्यस्य वेदा दुग्धदोहा भवन्तीति सामान्येनैव प्रत्यवायश्रवणात् । अन्यथा केषांचित्प्रत्यवायो न स्यादित्यपि द्रष्टव्यम् ॥ असदपरोक्षतया प्रतीयते वाच्यत्वादिति ॥ धर्माधर्मादेरपि ईश्वराद्यपरोक्षत्वान्न व्यभिचार इति भावः ॥
प्रकाशिका
ननु ‘‘न च तल्लिङ्गमन्तर्यामिविषय’’मिति चक्षुर्मयत्वादेरन्यथासिद्धौ शङ्कितायां तत्समाधानमकृत्वाऽल्पौकस्त्वायोगं समाधाय व्यवधानेन तदुक्तिरयुक्तेत्यत आह ॥ पूर्वमिति ॥ तात्पर्यं तु प्रागेव विवृतमिति भावः । विवक्षितसूत्रे टीकायां ‘‘अतत्वस्यादिमत्वेपि तस्य सर्वगतत्वानतिरिक्तत्वेन साध्यत्वादश्रुतत्वादीनामेव ग्रहण’’मित्युक्तम् । तत्रातत्वस्य सर्वगतत्वरूपत्वं व्यनक्ति ॥ अतेति ॥ सातत्यगमनवाचिनोऽतधातोरचि कृतेऽतेति भवति ।
देशतः कालतश्चैव गुणतश्चापि पूर्तितः ।
अत इत्युच्यते विष्णुस्सन्ततो ह्यत उच्यते ॥
इत्यैतरेयभाष्योक्तवचनाच्चेत्यर्थः । ननु व्रीह्यभिमानिजीवे कुट्टनभर्जनादिना दुःखभावात्कथं दृष्टान्त इत्यत आह ॥ स्वर्गादिति ॥ कर्मकर्तृसूत्रे ‘‘न चैकस्सर्वगतो जीवः सर्वगतं जीवान्तरं शंसतीति योज्यम् । सर्वगततया सर्वजीवाग्रहणापाता’’दिति वाक्यं दुर्गमत्वाद्द्वेधा व्याचष्टे ॥ सर्वेति ॥ सर्वगतवाक्ये सर्वेषु भूतेष्वेतमिति वाक्ये । ‘‘तथाप्रतीत्यभावेन क्लिष्टकल्पनाच्चे’’ति तदुत्तरवाक्यं व्यनक्ति ॥ कर्मीभूतेति ॥ कर्मीभूतजीवसङ्कोचे क्लिष्टकल्पनत्वमुपपाद्य यदुक्तं कश्चित्सर्वगतो जीव इति स एवमित्यत्र तच्छब्देन सर्वगतः कश्चिदिति गृह्यत इति तत्रापि क्लिष्टकल्पनत्वं ध्येयमित्याह ॥ न केवलमिति ॥ अवगुरेन् निन्देदित्यर्थः । शिष्टमुपन्यासमुखेन स्पष्टमिति भावः ॥
पाण्डुरङ्गि
न च तल्लिङ्गमन्तर्यामिविषयमित्यादिटीकाऽनुपपन्ना । तत्र चक्षुर्मयत्वादेरन्तर्यामिविषयत्वे शङ्कितेऽर्भकौकस्त्वायोगादिति बाधकान्तरमुच्यते । तत्किं चक्षुर्मयत्वस्यान्तर्यामिविषयत्वमङ्गीक्रियते न वा । नाद्यः । तथा सति चक्षुर्मयत्वायोगाच्चेत्युत्तरटीकानुपपत्तिः । द्वितीये चक्षुर्मयत्वस्यैव बाधकत्वेन वक्तव्यत्वेन तत्परित्यज्यार्भकौकस्त्वस्य बाधकत्वोक्तिरयुक्ता । तथा च टीका पूर्वोत्तरविरुद्धत्वादनुपपन्नैवेत्यत आह ॥ पूर्वमिति ॥ अनेन चक्षुर्मयत्वायोगाच्चेत्यत्र तस्य जीवधर्मत्वादिति युक्तिः सूचिता भवति । अप्रतीतेर्व्याचष्टे ॥ अत सातत्येति ॥ ननु कथमेकस्मिञ्च्छरीरे जीवद्वयसद्भावः । तथासति यावद्देहसद्भावमुभयोस्तत्र सद्भावेनोभयकर्मनिर्मितत्वापत्त्या सुखादिभोगस्स्यात् । सर्वस्यापि जीवान्तरत्वाज्जीवान्तरशब्देन किं विवक्षितमित्यतो व्याचष्टे ॥ स्वर्गाच्च्युत इति ॥ ननु सर्वजीवग्रहणापातादित्ययुक्तम् । तत्र किं सर्वेषु भूतेष्विति वाक्ये वा सर्वगततया सर्वजीवाग्रहणमुच्यते किं वा एतमात्मानमिति वाक्ये वा । नाद्यः । सर्वजीवसाधारणस्य चक्षुर्मयत्वादेस्तत्र सद्भावेन सर्वगततया सर्वजीवाग्रहणोपपत्तेः । न द्वितीयः । तत्र कर्तृव्यतिरिक्तसर्वगतजीवानामेव शंसनकर्मत्वापत्त्याऽनिष्टाभावात् । सर्वेषां सर्वगतत्वेऽपि केषांचिदेतच्छब्देन परामर्शेऽपि बाधकाभावादित्यतस्तत्र बाधकं वक्तुं व्याचष्टे ॥ सर्वजीवानामिति ॥ सर्वगतवाक्यानुसारेणैतमात्मानमिति वाक्यं व्याख्येयमित्युक्तम् । इदानीमेतमिति वाक्यानुसारेण सर्वगतवाक्यं व्याख्येयमित्याह ॥ यद्वेति ॥ तद्धीयेतेत्यर्थ इति ॥ अंशे बाधादित्यर्थः । तद्व्यतिरिक्तजीवपक्षाङ्गीकारे शंसनादिकर्तृजीवान्यविवेकस्य शक्यत्वेन प्रतिज्ञायाः सम्भावनारूपत्वापत्तेः । विवेकेपि वा कर्तृजीवेषु परस्मा इत्युक्तासज्जीवविशेषेषु च व्यभिचारिणश्चक्षुर्मयत्वादिहेतोः कर्मीभूतजीवविशेषसर्वगतत्वसाधकत्वायोगात् । प्रथमपक्षतात्पर्यमप्येवं ज्ञेयम् ॥
॥ इति सर्वगतत्वाधिकरणम् ॥ १ ॥