११ विशिष्टाद्वैतमतपरीक्षा

केचित्तु

विशिष्टाद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु ‘‘सर्वं खल्विद’’मित्यादिवाक्यं ब्रह्मविषयं मनोमयवाक्यं तु जीवविषयमिति भिन्नविषयत्वेन यः परकीयपूर्वपक्षस् तस्यैकविषयत्वसम्भवेऽयोगादेवं पूर्वःपक्षः । सर्वं खल्विदं ब्रह्मेति ब्रह्मशब्दनिर्दिष्टो जीव एव । सर्वशब्दनिर्दिष्टब्रह्मादिस्तंबपर्यन्तकृत्स्नात्मकताया अनादिसंसारे कर्मवशाज्जीवे सम्भवान्निखिलहेयप्रत्यनीके च ब्रह्मणि तदयोगात् । जन्मादिकारणतायाश्च कर्मद्वारा जीवेऽपि सम्भवाद् ब्रह्मशब्दस्य च जीवेऽपि प्रयोगादिति ॥ सिद्धान्तस्तु । जीवस्य जीवान्तरात्मकत्वाभावेन सर्वात्मकत्वायोगात् सर्वात्मकता च सर्वप्रकारकतेति स्वीकारेण प्रकारभूतशरीरगतानां दोषाणां प्रकारिणि ब्रह्मण्यप्रसङ्गात् । ब्रह्मशब्दकारणतयोश्च जीवेऽस्वारस्याद् ब्रह्मैव सर्वात्मकमिति ॥ सूत्राक्षरार्थस्तु ॥ सर्वत्र सर्वं खल्विति निर्दिष्टे जगति । तत्समानाधिकरणेन ब्रह्मशब्देन तदात्मकतयाभिधीयमानं परंब्रह्मैव । खलुशब्देन सर्वात्मकतायास्तज्जलानितीति हेतुत्वार्थेनेतिशब्देन च जन्मादिकारणतायाः प्रसिद्धत्वेनोपदेशात् । कारणत्वादेश्च ‘‘आनन्दाद्ध्येव खल्विमानिभूतानी’’त्यादिश्रुत्यन्तरे ब्रह्मण्येव प्रसिद्धत्वादित्याहुः । तन्न । त्वन्मतेंऽतरधिकरणे छान्दोग्योक्तस्यादित्यान्तस्स्थस्य जीवत्वे ‘‘यश्चासावादित्ये’’ इत्यानन्दवल्ल्युक्तस्यापि जीवत्वमिति पूर्वपक्षवत् ‘‘सर्वं खल्विद’’मित्यत्रोक्तस्य कारणस्य जीवत्वे यतो वेत्यादावुक्तस्यापि तस्य जीवत्वमिति पूर्वपक्षस्य सम्भवेन कारणताया वाक्यान्तरे ब्रह्मणि प्रसिद्ध्यभावात् । किञ्च ‘‘आनन्दाद्ध्येव खल्वि’’त्यत्र हिशब्दखलुशब्दयोः ‘‘यतो वा इमानि’’ आत्मावा इद’’मित्यादौ वैशब्दादेः श्रवणेन तत्रापि श्रुत्यन्तरप्रसिद्ध्यपेक्षा स्यात् ।

अपि च ‘‘अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते प्राणाद्ध्येव खल्विमानि भूतानी’’त्यत्रेव खलुशब्दादेः श्रवणेऽप्यब्रह्मपरता किं न स्यात् । अक्षरार्थोऽप्ययुक्तः । सर्वात्मकत्व(स्यापि)स्य हि साध्यत्वे तत्प्रतिपादनाय श्रुत्यनुगमाय च सूत्रे सर्वमितिनिर्देशः स्यात् । न हि सर्वत्रेत्यनेन सर्वात्मकता लभ्यते । किन्तु सर्वगतता । सौत्रप्रसिद्धशब्दस्य भावप्रधानताच कल्प्या । यच्चोक्तं ‘‘अर्भकौकस्त्वा’’दिति सूत्रे ‘‘एषम आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वे’’त्युक्तमणीयस्त्व मौपाधिकम् । तदुपाधेर्हृदयस्योक्तत्वात् । ‘‘ज्यायान् पृथिव्या’’ इत्यादिनोक्तं महत्त्वं तु स्वाभाविकम् । तदुपाधेरनुक्तत्वादिति । तन्न । हृद्यपेक्षयेत्यत्र हृदयस्यांगुष्ठप्रमाणतायास्त्वयाऽप्युक्तत्वात्तस्य सर्षपादणीयस्त्वेऽनुपाधित्वात् । किञ्च ‘‘प्रशस्यस्य श्रः । ज्यच । वृद्धस्य चे’’त्यत्र वृद्धस्येति सूत्रेण वृद्धशब्दस्येव ज्यचेत्यनेन सूत्रेण प्रशस्यशब्दस्यापि ज्यादेशविधानादिह श्रुतावणीयस्त्वं स्वाभाविकं ज्यायस्त्वं त्वतिशयेन प्रशस्यत्वमिति किं न स्यात् । एतदप्यभिप्रेत्योक्तं भाष्ये ‘‘न चाप्रामाणिकं कल्प्य’’मिति । न तु टीकोक्तरीत्या भेदसत्यत्वमात्रमभिप्रेत्य ॥

प्रकाशिका

केचित्तु सर्वमिति ॥ परैस्सर्वं खल्विदं ब्रह्मेति वाक्यं ब्रह्मपरमित्यभिप्रेत्य क्रतुं कुर्वीतेति वाक्यविहितोपासनानुवादेन शान्तत्वरूपगुणविधिपरत्वान्नोपासनायां कर्मतया ब्रह्मार्पकं किन्तु मनोमयवाक्यमेव जीवं कर्मतयाऽर्पयतीत्युक्तम् । एते तु सर्वात्मकं ब्रह्म शान्तस्सन्नुपासीतेत्यत्रैवोपासना विधीयते । क्रतुं कुर्वीतेति तु मनोमयत्वादिगुणविधानाय प्राग्विहितोपासनानुवादः । ततश्च सर्वात्मकं ब्रह्ममनोमयत्वादिगुणकमुपासीतेति समग्रवाक्यार्थ इत्येकवाक्यतामाहुः । तथा च ब्रह्मपदनिर्दिष्टं यदि जीवस् तर्हि स एव तथोपास्यः । यदि ब्रह्म तर्हि तदेव तथोपास्यमिति सेत्स्यतीति ब्रह्मपदनिर्दिष्टमेव किं जीव उत परमात्मेति विचार्यते । तत्र पूर्वपक्षाद्यनुवदति ॥ सर्वं खल्विदं ब्रह्मेतीति ॥ अत्र ब्रह्मोद्दिश्य इदं सर्वं खल्वित्युच्यमानं सर्वात्मकत्वं चतुर्मुखादितृणपर्यंतजगदात्मकत्वम् । तच्चानाद्यविद्याकर्मवशेन नानायोनिषु जननसम्भवेन जीव एव भवति । न तु सर्वदोषदूरपरमात्मनीत्यर्थः । कथं तर्हि तज्जलानित्युक्तसृष्ट्यादिहेतुत्वमित्यत आह ॥ जन्मादीति ॥ सर्वप्रकारकतेतीति ॥ सर्वविशेषणकत्वं देवतिर्यङ्मनुष्यशरीरकत्वमिति यावत् । सर्वत्रेतिपदं प्रतिज्ञापरं मत्वा सूत्रार्थमनुवदति ॥ सर्वत्रेति ॥ सर्वत्रेत्यनुवादः । जगतीति व्याख्या । हेत्वंशार्थमाह ॥ खल्विति ॥ प्रसिद्धोपदेशादित्यस्य प्रसिद्धत्वेनोपदेशादित्यर्थः । कस्येति प्रतियोग्याकाङ्क्षायां तज्जलानिति वाक्योक्तस्य जन्मादिहेतुत्वस्य सर्वमिदमित्युक्तसर्वात्मकतायाश्चान्वयः । सार्वात्म्यस्य प्रसिद्धत्वं खलुशब्देन हेतुत्वस्य प्रसिद्धत्वमितिशब्देनोच्यते । इतिशब्दस्य हेत्वर्थत्वात्प्रसिद्धस्यैव हेतुत्वाज्जन्मादिहेतुत्वं प्रसिद्धमिति गम्यत इति सार्वात्म्यहेतुत्वयोः खल्वितिशब्दाभ्यां प्रसिद्धत्वेनोपदेशादिति सूत्रार्थः पर्यवस्यतीत्यर्थः । अस्तु जन्मादिकारणत्वस्य प्रसिद्धत्वेनोपदेशस् ततश्च किमत आह ॥ कारणत्वादेश्चेति ॥ ‘‘आनन्दाद्ध्येव खल्वि’’ति ‘‘यतोवा इमानि भूतानि जायन्त’’ इति श्रुत्यन्तरे ब्रह्मणि प्रसिद्धस्यैव जगत्कारणत्वस्येहाम्नाना-द्विवक्षितगुणानामुपपत्तेश्च ब्रह्मेत्यवगम्यत इत्यर्थः । यथोक्तमधिकरणसारावल्यां–

सर्वत्वं कर्मभिस्स्वैर्जनिमति घटते ब्रह्मशब्दोत्र चैवे

त्यल्पस्थानोऽल्पमानः सुखतदितरभुग्जीव एवेति चेन्न ।

तज्जत्वादेरनूक्तेर्विविधगुणभिदा दर्शनात्सर्वतादे

स्स्वारस्यादप्यणुत्वं ह्युपधिकृतमिहोपास्तये ज्यायसि स्यात् ॥ इति ।

अत्र प्राग्वद्ब्रह्मधर्माणामेव भावेन संशयपूर्वपक्षयोरयोगात् सत्यकामत्वादिभिरनेकै-र्निरवकाशैः पूर्वस्यापि सर्वात्मकत्वादेः कथञ्चिन्नेयत्वात् स्वप्रकरणे शब्दविशेषाभावेनोदाहरणानौचित्यादिति ध्येयम् । यदुक्तं यतोवेत्यादि वाक्यान्तरे ब्रह्मणि प्रसिद्धस्यैवेहाम्नानादिति तत्र पूर्वपक्षे सर्वकारणवाक्ये ब्रह्मकारणत्वाक्षेपसम्भवेन न क्वापि ब्रह्मकारणत्वप्रसिद्धिः । तथाच न सिद्धान्तोदय इति सदृष्टान्तमाह ॥ तन्नेत्यादिना ॥ ‘‘य एषोन्तरादित्ये हिरण्मयः पुरुष’’ इत्युक्तस्येत्यर्थः । तस्य कारणस्य । तथाच सौत्रहेतोरसिद्धिरिति भावः । ननु यतोवेत्युपक्रम्यानन्दाद्ध्येवेति श्रवणादानन्दस्य च ब्रह्मवल्ल्यामनेकन्यायैर्ब्रह्मत्वेन निर्णीतानन्दमयस्थानपतितत्वेन ब्रह्मत्वाज्जीवत्वं न वक्तुं शक्यमिति चेत् तर्ह्यत्रापि पूर्वपक्षानुदयस्योक्तत्वात् । यद्यत्र प्रसिद्धिद्योतकखलुशब्दात्तत्प्रसिद्ध्यर्थं श्रुत्यन्तरानुसरणं तर्हि तत्रापि तथाश्रवणान्न क्वापि व्यवस्था स्यादिति दोषान्तरमाह ॥ किञ्चेति ॥ प्रसिद्धोपदेशादिति हेतोर्व्यभिचारं चाह ॥ अपि चेति ॥ अन्नादेर्ब्रह्मत्वस्य त्वयाऽनङ्गीकारादिति भावः ।

सूत्रार्थं निराह ॥ अक्षरार्थोऽपीति ॥ ब्रह्मशब्दाभिधेयस्य परब्रह्मत्वं सर्वात्मकत्वं च द्वयमपि यदि साध्यत्वेनाभिमतं तर्हि सर्वं ब्रह्मेत्येव वाच्यं न तु सर्वत्र ब्रह्मेति । तथोक्तौ पराभिमतासिद्धिं व्यनक्ति ॥ न हीति ॥ एतेनास्मदर्थे सूत्रानुगुण्यं सूचितम् । उपलक्षणमेतत् । सर्वत्रेत्यनेन सर्वस्मिन् जगतीत्युक्तावपि ब्रह्मशब्देनोच्यमानं ब्रह्मैवेत्यंशस्य बोधकपदाभावेनाध्याहार्यत्वात् । यदत्रोक्तं श्रुतप्रकाशे नाशाब्दमिति वा नेतर इति वाऽन्य इति वा पूर्वपादादनुवर्तते वा नशारीर इति वक्ष्यमाणमपकृष्यते वा । तस्य पर्यवसानाद्ब्रह्मैवेति लभ्यते । नाध्याहार इति । तन्न । ब्रह्मशब्देनाभिधीयमानमित्यस्यैतावताऽध्याहारापरिहारात् । अस्मद्रीत्याऽऽध्यायपरिसमाप्ति प्रत्यधिकरणमनुवर्तमानेन तत्त्वितिपदेनैव साक्षात्साध्यबोधसम्भवेऽत्यन्तव्यवहितस्यानुवर्तनेनापकर्षेण वा पर्यवसानद्वारा साध्यबोधोक्तेरयुक्तत्वात् । अत एव द्वितीये ‘‘व्यवायान्नानुषज्ज्यत’’ इत्यत्र ‘‘संयज्ञपतिराशिषे’’ति वाक्ये क्रियाध्याहार इत्युक्तमित्यपि ध्येयम् । इतराणि सूत्राणि प्रागुक्तदिशा निरसनीयानीति भावः । तथाहि । यदुक्तं विवक्षितगुणोपपत्तेः । विवक्षितानां वक्ष्यमाणानाम् । उपसंहारस्थानामिति यावत् । मनोमयत्वादीनामवाक्यनादर इत्यन्तानां गुणानां परमात्मन्येवोपपत्तेः परमात्मैवोच्यते । विवक्षितगुणानामनुपपत्तेर्न शारीरोऽत्रोच्यते । ‘‘इतःप्रेत्याभिसम्भवितास्मी’’ति प्राप्यप्राप्तृतया ब्रह्मजीवयोः कर्मकर्तृभावेन व्यपदेशाच्च । ‘‘एष म आत्मांऽतर्हृदय’’ इति षष्ठ्यन्तप्रथमान्तरूपाद्वाजिनां श्रुतौच ‘‘एवमयमन्तरात्मन्पुरुषो हिरण्मय’’ इति सप्तम्यन्तप्रथमान्तरूपाज्जीवब्रह्मणोश्शब्दविशेषाच्च । ‘‘सर्वस्य चाहं हृदि सन्निविष्ट’’ इत्यादिस्मृतेश्च न शारीर इति । तन्न । ब्रह्मणि विवक्षितगुणानामुपपत्त्युक्त्याऽर्थाज्जीवे तदनुपपत्तेरुक्तत्वात्तेन तृतीयस्य पौनरुक्त्यम् । चतुर्थषष्ठगृहीतयोः ‘‘एतमितः प्रेत्ये’’ति ‘‘सर्वस्य चाह’’मिति श्रुतिस्मृत्योरपि ‘‘एषमआत्मान्तर्हृदय’’ इति विरुद्धविभक्तिकशब्दग्राहकेण पञ्चमेनैव ग्रहणसम्भवात्तेन तयोः पौनरुक्त्यम् । शब्दविशेषाच्चेति चशब्दाध्याहारश्चेत्यादि ध्येयम् । सप्तमे दूष्यभागमनूद्य निराह ॥ यच्चेति ॥ सूत्रार्थस्तु पूर्वमत इव ध्येयः ॥ त्वयेति ॥ ‘‘हृद्यपेक्षयातु मनुष्याधिकारत्वा’’दित्यत्र ‘‘उपासकहृदयस्यांगुष्ठप्रमाणत्वा’’दिति त्वद्भाष्योक्तेरिति भावः । तस्य हृदयस्य । आत्मनि सर्षपादणीयस्त्वसम्पादनेऽनुपाधित्वात् । तत्परिमितस्यैव तत्रोपाधित्वेन वाच्यत्वादित्यर्थः । अत एव श्रुतप्रकाशे ‘‘अत्र हृदयमल्पत्वोपाधिभूतं श्रुतम् । न तु ज्यायस्त्वोपाधिश्श्रुतः । पृथिव्यादयस्तदुपाधय इति न शङ्कनीयम् । ततोपि ज्यायस्त्वश्रवणात् । न हि ततोऽधिकपरिमाणत्वं तदुपाधिकं भवितुमर्हती’’त्यधिकपरिमाणस्य न्यूनपरिमाणोपाधिकत्वं निराकृतम् । तद्वदेवेहापि न्यूनपरिमाणस्य ततोधिकपरिमाणहृदयोपाधिकत्वमयुक्तमिति ।

नन्वणीयस्त्वज्यायस्त्वयोर्विरोधादेकस्यावश्यं परित्यागे कथञ्चिदौपाधिकत्वेन समाधेयमित्यतोऽविरोधप्रकारमाह ॥ किञ्चेति ॥ अत्र ज्यायस्त्वं नाम नातिशयितमहत्त्वम् । किन्तु प्रशस्ततमत्वमुच्यते । ज्यायश्शब्दस्यार्थद्वये व्युत्पन्नत्वात् । प्रशस्यशब्दस्यातिशायन ईयसुन्प्रत्यये कृते ‘‘प्रशस्यस्यश्र’’ इति सूत्रात्प्रशस्यशब्दमनुवर्त्य ‘‘ज्यचे’’ति सूत्रेण ज्यादेशो विहितः । तदनन्तरं ‘‘वृद्धस्य चे’’ति सूत्रे वृद्धशब्दस्यापीयसुन्प्रत्यये परतः ‘‘ज्यचे’’ति सूत्राज्ज्यशब्दमनुवर्त्य ज्यादेशो विहितः । तथाच ज्यायानित्यस्यातिशयेन वृद्धिमत्त्वमतिशयेन प्रशस्तत्वं चेति द्वयमप्यर्थो भवति । तथाच प्रकृतेऽतिशयितवृद्धिमत्त्वरूपार्थं हित्वा प्रशस्ततमत्वरूपार्थमादायाणीयस्त्वं स्वाभाविकमित्यङ्गीक्रियतामित्यर्थः । इदमङ्गीकृत्योक्तम् । वस्तुतस्तु पूर्वोक्तरीत्याऽणुत्वमहत्त्वयोस्स्वाभाविकत्वेऽपि न विरोधलेश इति ध्येयम् । एतेन यत्केनचिदुक्तम् आद्यसूत्रद्वयमेकमधिकरणम् । तत्र ‘‘मनोमयः प्राणशरीर’’इत्यादिवाक्ये मनोमयत्वादियुक्तो जीवः शिवो वेति विशये ‘‘क्रतुमयः पुरुषो यथाक्रतुरस्मिन्लोके पुरुषो भवति तथेतः प्रेत्य भवती’’ति कर्मवशादिहामुत्र भ्रमतो जीवस्य प्रस्तुतत्वात् सति यथार्थेऽसङ्कल्प इत्यादि विभागेन सत्यसङ्कल्पत्वादेरुपपत्तेर्जीव इति प्राप्ते ‘‘सर्वं खल्विदं ब्रह्मतज्जला’’निति सर्वकारणस्योपास्यत्वेनोपदेशाद्विवक्षितसत्यकामत्वादिगुणानामुपपत्तेश्च शिव एव तथाविध इति सिद्धान्त इति । तन्निरस्तम् । संशयाद्ययोगेनोदाहरणानौचित्यस्योक्तत्वात् । सूत्राक्षरार्थासामञ्जस्य स्फुटत्वात् ।

तच्च ब्रह्मजलान् साक्षाद्योऽसौ विष्णुर्जलेऽनिति ।

महाज्ञानात्मकत्वात्तु प्रोक्तो विष्णुर्मनोमयः ॥

यस्माद्बलशरीरोऽसावतः प्राणशरीरकः ।

इत्यादिस्मृतिविरुद्धत्वाच्च । अनुपपत्तेरित्यादेरधिकरणान्तरत्वेऽत्रोक्तार्भकौकस्त्वसम्भोगप्राप्त्यादिशङ्कासमाधानाभावेन सिद्धान्तानुत्थितेश्च । अणीयस्त्वस्यासमाधानाच्चेत्यादि ध्येयम् । यदप्यनुपपत्तेस्त्वित्यादि षट्सूत्र्यधिकरणान्तरमिति मत्वा ‘‘पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमुच्युतम् । नारायणं महाज्ञेय’’मित्याद्युदाहृत्य नारायणशब्दवाच्यो मूर्त्यात्मा विष्णुश्शिवो वेति संशये ‘‘समुद्रेंऽतर्विश्वशंभुव’’मिति समुद्रान्तस्स्थत्वादिलिङ्गानामच्युतादिश्रुतीनां सत्त्वेन विष्णुरिति प्राप्ते ‘‘पशूनां पतये वृक्षाणां पतये जगतां पतये विश्वाधिको रुद्रो महर्षि’’रित्यादौ शिवे प्रसिद्धस्य विश्वपतित्वादेर्विष्णावनुपपत्तेश्शिव एवेति सिद्धान्त इति । तदपि न । विष्णौ निरूढश्रुतिलिङ्गानां बाहुल्येन संशयादेरयोगात् । विश्वपतित्वादेः पालकत्वेन प्रसिद्धे विष्णौ ‘‘न ते विष्णो जायमानः’’ य उत्रिधातुपृथिवीमुतद्यामेको दाधार भुवनानि विश्वा । सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणी’’त्यादि श्रुतिभिः ‘‘श्रियः पतिर्यज्ञपतिः प्रजापतिर्गिरां पतिर्लोकपति’’रित्यादिस्मृत्या विष्णोरेव प्रसिद्धेः । ‘‘विश्वाधिक’’ इत्यादिनिरवकाशचतुर्मुखजनकत्वलिङ्गेन रुद्रशब्दस्य विष्णावेवोपपत्तेः । अस्य स्वपक्षसाधकत्वे ‘‘अन्तस्तद्धर्मोपदेशा’’दित्यादाविव समन्वीयमानं लिङ्गं नामवा निर्दिश्य तद्धर्मोपपत्तेरित्यन्वयमुखेन वचनं विना व्यतिरेकमुखेन सूत्रविन्यासायोगादिति दिक् ।

चन्द्रिकाबिन्दुः

मायावादिपूर्वपक्षस्य तावदनौचित्यं दर्शयति ॥ सर्वं खल्विदमित्यादीति ॥ निखिलेति ॥ निखिलदोषविरोधिनीत्यर्थः । तदयोगात् सर्वात्मकत्वायोगात् । ननु तत्प्रकरणे तज्जन्मादीति जगत्कारणत्वमुक्तं तत्कथं जीव इत्यत आह ॥ जन्मादिकारणताया इति ॥ प्रकारिणि तच्छरीरिणि । स्वपक्षे सूत्रं योजयति ॥ सूत्राक्षरस्त्विति ॥ खलुशब्दसूचितं जगत्कारणत्वस्य वाक्यान्तरप्रसिद्धत्वं ब्रह्मणीत्युक्तं तन्नोपपद्यते । पर्यवसानस्यापि जीवविषयत्वेन पूर्वपक्षिणा वक्तुं शक्यत्वादित्यत आह ॥ त्वन्मत इत्यादि ॥ अपेक्षा स्यादिति ॥ तथा च पर्यवसानप्रसङ्ग इति भावः ॥ सौत्रेति ॥ कारणतायाः खलु शब्देन प्रसिद्धोपदेशादित्यर्थ । इति त्वयोक्तत्वादिति । हृदयस्याधिकपरिमाणत्वाद् लोके वा न्यूनाधिकपरिमाणत्वात्तस्यैवोपाधित्वेन दर्शनादिति भावः । ज्यायस्त्वं प्रशस्यत्वं चैकमेवेति दर्शयितुमाह ॥ किञ्चेति ॥ एतदिति ॥ एवं परमतदूषणमित्यर्थः ।

पाण्डुरङ्गि

श्रुत्यनुगमायेति ॥ सर्वं खल्विदं ब्रह्मेत्यादिश्रुत्याऽनुगमायेत्यर्थः ॥ सौत्रेति ॥ गत्यन्तराभाव एव तत्कल्पनं युक्तम् । प्रकृते चास्मद्रीत्या प्रकारान्तरेणोपपत्तिरिति भावः । किं च यद्यत्र प्रकरणेऽणुत्वं महत्त्वं चोच्येत तदा विरोधे प्राप्ते स्वाभाविकत्वौपाधिकत्वाभ्यां विरोधः परिहर्तव्यः स्यात् । न चाणुत्वमहत्त्वप्रतिपादनमस्ति । न च ज्यायानित्यनेनैव महत्त्वं प्रतिपादितमिति वाच्यम् । तस्य प्राशस्त्यप्रतिपादकत्वेन महत्त्वाप्रतिपादकत्वादित्याह ॥ किञ्चेति ॥