अन्ये तु
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु ‘‘सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः सत्यसङ्कल्प’’ इति वाक्ये मनोमयत्वादिनोपास्यो जीवः । तस्यैव मनःप्राणादिसंबन्धात् । ब्रह्मणस्तु ‘‘अप्राणो ह्यमनाः शुभ्र’’ इत्यादिश्रुत्या तद्राहित्यादिति प्राप्ते ब्रह्मैवोपास्यम् । सत्यकामत्वज्यायस्त्वादिलिङ्गात् । जीवधर्मास्तु मनोमयत्वाणीयस्त्वादयो जीवाभिन्ने ब्रह्मणि युक्ताः । न च वैपरीत्यं शङ्क्यम् । विशिष्टचैतन्यरूपस्य जीवस्य ब्रह्मण्यध्यस्तत्वात् । अध्यस्तसर्पासाधारणधर्मैश्च भीषणत्वादिभीरज्जूरूपवती । न तु रज्जुरूपेणाभिगम्यत्वादिना सर्पो रूपवान् । तदा सर्पस्यैवाभावात् । सर्पदशायां त्वस्ति वास्तवी रज्जुरिति सिद्धान्तः । तदुक्तं भामत्यां
समारोप्यस्य रूपेण विषयो रूपवान्भवेत् ।
विषयस्य तु रूपेण समारोप्यं न रूपवत् ॥
इति आद्यसूत्रस्य च सर्वत्र वेदान्तेषु परमात्मपरतया प्रसिद्धस्य ब्रह्मशब्दस्योपदेशादित्यर्थ इत्याहुः ॥ अत्र ब्रूमः ॥
तत्वतो भात्यधिष्ठानेनारोप्यगतधर्मधीः ।
ब्रह्मणश्च तथा भानं त्वयाप्यत्राभ्युपेयते ॥ १ ॥
प्रकाशिका
अन्ये त्विति ॥ ‘‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषो यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति । सक्रतुं कुर्वीत मनोमयः प्राणशरीरो भारूपस्सत्यकामस्सत्यसङ्कल्प आकाश आत्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः । एष म आत्मान्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतंडुलाद्वा एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्याः । एतद्ब्रह्मैतमितः प्रेत्याभिसम्भवितास्मी’’ति छान्दोग्ये तृतीये श्रूयते । तत्र ‘‘सक्रतुं कुर्वीते’’ति क्रतुशब्दितसङ्कल्पध्यानापरपर्यायोपासनाविधौ मनोमयत्वादिधर्मैर्जीव उपास्यत्वेनोपदिश्यतेऽथ ब्रह्मेति संशये मनोमय इत्यादिवाक्योक्तो मनोमयत्वादिविशिष्टो जीव एव । कार्यकारण सङ्घातात्मनो जीवस्यैव मनआदिसम्बन्धस्य प्रसिद्धत्वात् । ब्रह्मणस्तु ‘‘अप्राणो ह्यमना’’ इत्यादिना तद्राहित्यात् । ‘‘सर्वं खल्विदं ब्रह्मे’’ति वाक्यं ब्रह्मबोधकमपि क्रतुं कुर्वीतेत्युक्तोपासनायां न कर्मतया ब्रह्मार्पकम् । तस्य क्रतुं कुर्वीतेति वाक्यविहितोपासनानुवादेन शान्तत्वरूपगुणविधिहेतुसमर्पकत्वात् । इदं सर्वं जगत् तज्जत्वात्तल्लत्वात्तदनत्वाद्ब्रह्मात्मकमेव यस्मात्तस्माद्रागद्वेषौ हित्वा शान्तस्सन्नुपासीतेत्येवंपरत्वात् । क्रतुं कुर्वीतेत्युक्तोपासनायां स्ववाक्यगतमनोमयत्वादि-विशिष्टजीवस्यैव कर्मत्वेनान्वयसम्भवेऽन्यपराद्वाक्याद् ब्रह्मणः कर्मत्वेन स्वीकारायोगात् । सत्यसङ्कल्पत्वादिब्रह्मधर्माणां तदभिन्नजीवे नेयत्वात् । उक्तं च भामत्यां–
क्रतुमित्यादिवाक्येन विहितां क्रतुभावनाम् ।
अनूद्य सर्वमित्यादिवाक्यं शमगुणेविधिम् ॥ इति ।
एवं प्राप्ते प्राणशरीर इत्यत्र प्राणः शरीरमस्येति बहुव्रीहित्वात्समासस्थसर्वनाम्नः सन्निहितपरस्य सर्वं खल्विदं ब्रह्मेति पूर्ववाक्ये सर्ववेदान्तेषु प्रसिद्धस्य ब्रह्मशब्दस्योपदेशेन ब्रह्मण एव सन्निहितत्वात्तत्परामर्शकतया प्राणशरीरपदेन ब्रह्मण एवोपस्थित्या जीवप्रतीत्यभावात् । मनोमयशब्दस्य च विकारप्राचुर्याद्यनेकार्थमयडन्तस्य साधारणतया जीवविशेषोपस्थापकत्वायोगात् । सत्यकामत्वादिविवक्षितगुणानां ब्रह्मण्येवोपपत्तेर् अन्यपरादपि वाक्यादुपासनकर्माकाङ्क्षानिवर्तकत्वेन ब्रह्मैवोपास्यत्वेनोच्यते । न च जीवधर्मविरोधः । तेषां जीवाभिन्ने ब्रह्मण्यपि युक्तत्वात् । वैपरीत्यस्य चा सम्भवात् । तदुक्तं भामत्यां–
समासस्सर्वनामार्थस्सन्निकृष्टमपेक्षते ।
तद्धितार्थोऽपि सामान्यान्नापेक्षाया निवर्तकः ॥
तस्मादपेक्षितं ब्रह्म ग्राह्यमन्यपरादपि ।
तथाच सत्यसङ्कल्पप्रभृतीनां यथार्थता ॥ इति ।
क्रतुं कुर्वीतेत्यस्य ध्यानं कुर्वीत उपासीतेति यावदित्यर्थः । मनोमय इत्यंशोक्तिः पूर्वपक्षयुक्तिसूचनाय । सत्यसङ्कल्प इत्यंशोक्तिस्सिद्धान्तयुक्तिसूचनायेति ज्ञेयम् । ननु मनोमयवाक्योक्तो जीवः कुतः । ब्रह्मैव किं नेत्यत आह ॥ तस्यैवेति ॥ ननु जीवस्य मनोमयत्वादयस्स्वतः । ब्रह्मणस्तु तद्द्वारा । प्रथमं द्वारस्य बुद्धिस्थत्वात्तदेवोपास्यमस्तु । न पुनर्जघन्यं ब्रह्म । तल्लिङ्गानि च तदभेदाज्जीवेप्युपपद्यन्त इति भावेनाशङ्क्य निराह ॥ न च वैपरीत्यमिति ॥ रूपवती धर्मवती । विषयोऽधिष्ठानम् । रूपशब्दो धर्मपरः । अत्रेदं दूषणं ध्येयम् । अस्मद्रीत्या पूर्वसङ्गतस्य संशयपूर्वपक्षबीजयुक्तस्य स्ववाक्यस्थशब्दविशेषोपेतस्य वाक्यस्योदाहरणत्वसम्भवेऽनेवंविधवाक्योक्त्ययोगात् । न हि त्वद्वाक्ये सत्यकामत्वादिब्रह्मधर्माणां सत्त्वात् संदेहो युज्यते । मनोमयत्वादेरानन्दमयाधिकरणन्यायेन सावकाशत्वाद् अपच्छेदन्यायेन परप्राबल्येन सत्यकामत्वादिना पूर्वस्य मनोमयत्वादेर्बाधसम्भवाच्च । पूर्वप्राबल्येऽपि सत्यकामत्वादेर्बहुत्वेन निरवकाशत्वेन च बलवत्त्वात्पूर्वस्याप्यल्पस्य सावकाशस्य बाधोपपत्तेः । किञ्च यथा त्वन्मते पूर्वाधिकरणे उपक्रमोपसंहाराभ्यां प्रतीतैकवाक्यतानु-रोधेन जीवमुख्यप्राणलिङ्गे तदनुगुणतया ब्रह्मणि नीते तथेहापि ‘‘सर्वं खल्विदं ब्रह्मे’’त्युपक्रमात् ‘‘एतद्वै ब्रह्मे’’त्युपसंहारादेकवाक्यत्वावगमेन ब्रह्मविषयत्व-प्रतीतिस्वारस्येन मनोमयत्वादेर्नेयत्वाद्भिन्नविषयत्वप्रतीतिपूर्वकपूर्वपक्षायोगाच्चेति । यदुक्तं सिद्धान्ते जीवधर्माणां ब्रह्मण्यारोप इति तन्न युक्तम् । रज्जुत्वासाधारणधर्मेण प्रतीतायां रज्जौ भीषणत्वाद्यनारोपस्येव सत्यकामत्वाद्यसाधारणधर्मेण प्रतीते ब्रह्मणि जीवधर्मा-रोपस्यायोगात् । सिद्धान्तानुदय इत्याह ॥ तत्वत इति ॥ अत्र तथाभानमसिद्धमित्यत आह ॥ ब्रह्मणश्चेति ॥ सत्यकामत्वादिधर्मैस्सिद्धान्तितत्वादिति भावः ।
चन्द्रिकाबिन्दुः
अभिगम्यत्वादिना प्राप्यत्वादिना । तदा रज्जोरसाधारणरज्जुत्वादिना ज्ञाने । सर्पदशायां रूपत्वम् । भ्रमदशायां विषयो ऽधिष्ठानम् । विषयस्य अधिष्ठानस्य । अस्मिंश्च पक्षे सूत्रं योजयति ॥ आद्यसूत्रस्य चेति ॥
पाण्डुरङ्गि
समारोप्यस्यरूपेणेति ॥ ज्ञायमानेन समारोप्यरूपेणाधिष्ठानं विषयो रूपवान् भवेत् । तस्याज्ञायमानत्वेन समारोपकालेपि सत्वात् । विषयस्य तु रूपेणासाधारणाकारेण ज्ञायमानेन समारोप्यं न रूपवत् । अधिष्ठानासाधारणरूपज्ञाने सति समारोप्याभावादित्यर्थः ।
यद्यप्यारोप्यस्यासाधारणरूपेण ज्ञानदशायामधिष्ठानमस्ति
तात्पर्यचन्द्रिका
यद्यप्यारोप्यस्यासाधारणरूपेण ज्ञानदशायामधिष्ठानमस्ति । अधिष्ठानस्य तु तथाज्ञानदशायामारोप्यं नास्ति । तथाप्यधिष्ठानं तथाज्ञानदशायां नारोप्यधर्मेण धर्मवत् । न हि रज्जू रज्जुत्वाभिगम्यत्वादिना ज्ञानदशायां भीषणत्वादिमती । प्रकृते चाधिष्ठानं ब्रह्मत्वसाधकसत्यकामत्वाद्यसाधारणरूपेण भासते । न हि सिद्धान्तः सत्यकाम इत्यादिवाक्यशेषाज्ञानमूलः । यद्यपि सत्यकाम इत्यादिवाक्यजन्यमधिष्ठानतत्वज्ञानं परोक्षं तथापि तत्परोक्षभ्रमविरोध्येव । इह चाणीयस्त्वादिविभ्रमः श्रौतत्वात्परोक्षः । अत एवायं न सोपाधिकः । येन तत्वज्ञानेऽप्यनुवर्तेत । किंच त्वन्मतेऽप्यस्य वाक्यस्य सत्यसङ्कल्पादियुक्तसगुणब्रह्मविषयत्वात् । जीवसगुणब्रह्मणोश्च निर्गुणेऽध्यस्तत्वात् । कथं परस्परमधिष्ठानाध्यस्तभावः । यथोक्तं सङ्क्षेपशारीरके–
स्वाज्ञानकल्पितजगत्परमेश्वरत्व
जीवत्वभेदकलुषीकृतभूरिभावा ।
स्वाभाविकस्वमहिमस्थितिरस्तमोहा
प्रत्यक्चितिर्विजयते भुवनैकयोनिः ॥
इति । किं च रज्जुमुद्दिश्य भीषणमिति व्यपदेश इव ब्रह्मणि मनोमयत्वादिश्रौतव्यपदेशोऽप्रमाणं स्यात् । अपि च त्वयाऽस्य वाक्यस्योपासनापरतताया असत्योपासनायाश्च स्वीकृतत्वात् सत्यसङ्कल्पत्वज्यायस्त्वादीनां जीवे स्वरूपेणासत्त्वेऽपि तथोपासनं किं न स्यात् । न च सहश्रुतेषु मनोमयत्वादिकमेवोपास्यं न तु सत्यसङ्कल्पत्वादिकमित्यत्र हेतुरस्ति ।
प्रकाशिका
प्रागुक्तानुवादपूर्वं श्लोकं व्यनक्ति ॥ यद्यपीति ॥ ननु तत्वतो ब्रह्मभानस्य शाब्दत्वेन परोक्षत्वात्कथमारोपविरोधित्वम् । न हि श्वैत्यानुमितिश्शंखे पैत्यारोपविरोधिनीत्याशङ्क्याह ॥ यद्यपीति ॥ अत एवेति ॥ परोक्षत्वादेवेत्यर्थः । पैत्यारोपस्त्वपरोक्षः सोपाधिकश्चेति भावः । ननु सत्यकामत्वादिना ब्रह्मणोऽत्र भानेऽपि नाधिष्ठानस्य तत्वतो भानम् । न हि सत्यकामत्वादिकमधिष्ठानस्य तत्वम् । किन्तु शुद्धस्वभावत्वम् । न हि तथाऽत्र ब्रह्मणो भानमस्ति । सविशेषस्यैव भानांगीकारादित्यनुशयेनाह ॥ किं चेति ॥ जगत्त्वेन परमेश्वरत्वेन जीवत्वेन त्रयाणां प्रतीत्याऽऽरोपितत्वप्रतीतेरिति भावः ।
ननु यस्सत्यकामस्सोऽणीयानिति सत्यकामत्वादियुक्तमुद्दिश्याणीयस्त्वादिविधौ यत् सत्यकामत्वाद्यारोपाधिष्ठानं भविष्यति तदेवाणीयस्त्वाद्यारोपाधिष्ठानं भविष्यति । वल्मीके यस्स्थाणुः स पुरुष इतिवदित्यत आह ॥ किंचेति ॥ ननु तत्वावेदकप्रामाण्याभावोऽभ्युपेयत एवेत्यत आह ॥ अपि चेति ॥ हेतुरस्तीति ॥ ननु मनोमयत्वादिकं ब्रह्मणि व्यावहारिकम् । सत्यसङ्कल्पादिकं जीवे प्रातीतिकम् । न च श्रुतेर्व्यावहारिकपरत्वसम्भवेऽत्यन्ताप्रामाण्यापादकप्रतीतिकपरत्वं युक्तमिति चेन्न । ‘‘अप्राणो ह्यमनाश्शुभ्र’’ इति श्रुत्या तदभावावेदनेन तस्यापि ब्रह्मणि प्रातीतिकत्वात् । जीवेपि त्वन्मते व्यावहारिकतया ब्रह्मणि प्रातिभासिकत्वावश्यंभावाच्चेति भावः । उपलक्षणमेतत् । यदप्यणीयस्त्वादिर्जीवधर्मो ज्यायस्त्वादिर्ब्रह्मधर्म इति तन्न । ‘‘अणोरणीयान् महतो महीया’’नित्यणीयस्त्वस्यापि ब्रह्मणि श्रुतत्वात् । न चोभयं विरुद्धम् । तर्हि प्रथमोपस्थिताणीयस्त्वाङ्गीकारेण ज्यायस्त्वस्यैव चरमस्य परित्याज्यत्वात् । श्रुत्यन्तरविरोधस्योभयत्र तुल्यत्वात् । विरोधशान्तिप्रकारस्य व्योमवदित्यनेन सूत्रकृतैवोक्तत्वाच्च । तदुक्तमनुव्याख्याने ‘‘महतोल्पत्वमपि हि व्योमवत्प्राहवेदवि’’दितीत्यपि ध्येयम् ।
चन्द्रिकाबिन्दुः
तथा असाधारणरूपेण ॥ उत्तरार्धं व्याचष्टे ॥ प्रकृते चाधिष्ठानमिति ॥ अणीयस्त्वादित्वमस्यापरोक्षाधिष्ठानसाधारणधर्मज्ञानेन न निवृत्तिरित्याशङ्क्य निराकरोति ॥ यद्यपीत्यादिना ॥ अत एव परोक्षत्वादेव । सोपाधिकभ्रमस्त्वपरोक्ष एवेति नियम इति भावः ।
कारिकां व्याख्यायेदानीं दूषणान्तरमाह ॥ किञ्चेति ॥ जीवत्वस्य सगुणब्रह्मत्वाख्येश्वरस्य गुणाध्यस्तत्वेन संमतिमाह ॥ यथोक्तमिति ॥ स्वेति ॥ स्वस्याः प्रत्यक्चितेर् यदज्ञानं तत्कल्पितानि यानि जगत्परमेश्वरत्वजीवत्वाख्यभेदकानि तैः परिच्छेदकैः कलुषीकृतो भूरिभावत्रिविधापरिच्छेदो यस्यास्सा तथोक्ता । स्वाभाविकस्वमहिमास्थितिः स्वाभाविकेन त्रिविधापरिच्छेदलक्षणेन स्वमहिम्नैव स्थितिर्यस्यास्सा तथोक्ता ॥
पाण्डुरङ्गि
ननु सत्यकाम इत्यादिवाक्यशेषजन्यज्ञानस्य परोक्षत्वात्कथं तस्य मनोमयत्वाद्यारोपविरोधित्वम् । साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनस्यैव विरोधित्वेन परोक्षस्य तस्याविरोधित्वात् । अन्यथा पीतः शङ्ख इति भ्रमो न स्यादित्यत आह ॥ यद्यपीति ॥ ननु मनोमयत्वाद्यारोपस्य सोपाधिकत्वात्सत्यकामत्वादिनिर्णयेऽप्यनुवृत्तिस्स्यादित्यत आह ॥ अत एवेति ॥ परोक्षत्वादेवेत्यर्थः ॥ स्वाज्ञानकल्पितेति ॥ अस्यायमर्थः । स्वस्मिन्नखण्डचैतन्ये यदध्यस्तमज्ञानं तटस्थमज्ञानमुपाधिरिष्यत इति वक्ष्यति । तेन कल्पितं यदुपाधित्रयं जगत्वेश्वरत्वजीवत्वानि । तैर्भेदैर्भेदहेतुभिरिदं जगद् अयमीश्वरो ऽहं जीव इति भिद्यमानैः कलुषीकृतः परित्याजितस्त्रिविधपरिच्छेदशून्यतापि यत्र सा तथा । स्वाभाविको यस्स्वमहिमा देशकालवस्तुपरिच्छेदराहित्यं तत्रैव स्थितिरचलमर्यादा यस्यास्सा तथा । स आत्मा कस्मिन्प्रतिष्ठितः स्वेमहिम्नीति श्रुतेः । तत्कुतः वस्तुतोऽस्तो निरस्तो मोहोऽविद्यालक्षणो यत्र । असङ्गो न हि सज्जते तमसः परस्तादिति श्रुतेः । तादृशोऽपि मायावशाद्भुवनैकयोनिः सृष्टिस्थितिप्रलयहेतुः प्रत्यक्चितिश् चित्स्वरूपा देहादिजडवर्गान्तःपातिनी सती कर्तृभोक्तृतया विजयते प्रथयते । तत्सृष्ट्वा तदेवानुप्राविशत् । स इह प्रविष्ट आनखाग्रेभ्य इत्यादिश्रुतेरिति । तथाच स्तुतिव्याजेन पूर्वं तत्त्वमसीति वाक्यार्थोपयोगि तत्पदलक्ष्यं सत्यादिरूपं ब्रह्मोक्त्वाऽनेन त्वंपदलक्ष्यस्योक्तत्वात्तस्य च शुद्धत्वेन तस्यैवाधिष्ठानत्वोक्तेर्जीवसगुणब्रह्मणोश्च न परस्पराधिष्ठानाध्यस्तभाव इति भावः ।