सूत्रक्रमस्तु आद्ये सूत्रे विषयवाक्यस्थश्रुतिरूपस्वपक्षसाधकोक्तिः
सूत्रक्रमबीजवर्णनम्
तात्पर्यचन्द्रिका
सूत्रक्रमस्तु आद्ये सूत्रे विषयवाक्यस्थश्रुतिरूपस्वपक्षसाधकोक्तिः । द्वितीये तदुत्तरवाक्यस्थलिङ्गरूपसाधकोक्तिः । तत्र च विवक्षितत्वं टीकोक्तरीत्या वक्तुं योग्यत्वम् । वक्तुं योग्ये हि विवक्षा भवति । यद्वा विवक्षितत्वं वक्ष्यमाणत्वम् । वक्ष्यमाणे हि विवक्षा भवति । ततश्चाश्रुतत्वादीनामुपसंहारस्थत्वाद्बलवत्तेत्यर्थः । अथवाऽपौरुषेये वेदे वक्तुमिच्छाया अभावाद्विवक्षितत्वं तात्पर्यविषयत्वम् । ततश्चाश्रुतत्वादीनामप्राप्तत्वादिना श्रुतेस्तत्र तात्पर्यान्न मिथ्यात्वमित्यर्थः । तृतीये साध्यस्य सर्वगतत्वस्याणौ जीवे स्वरूपेणैवासम्भवरूपपरपक्षबाधकोक्तिः । ‘‘सयश्चायमशरीर’’ इति श्रुतिश्रुतस्याशरीरत्वस्य जीवेऽनुपपत्तिं सूचयितुं च शारीरपदम् । चतुर्थे जीवे सर्वगतत्वस्य स्वरूपेण सम्भवेऽपि वाक्यशेषस्थकर्मकर्तृभावविरोध इत्येवंरूपबाधकोक्तिः । अत एव तृतीयसूत्रस्थानुपपत्तिशब्दस्य प्रकृतेन सर्वगतत्वेनैवान्वयात्कर्मकर्तृभावानुपपत्तिर्न तदर्थ इति चतुर्थसूत्रसार्थक्यम् । यद्यपि विवक्षितगुणा अव्यवधानेन प्रकृतास् तथापि ब्रह्मणि तेषामुपपत्तिं वदता द्वितीयसूत्रेणैव जीवेऽर्थादनुपपत्तेरप्युक्तत्वात्तृतीयं सूत्रं न तत्परम् । पञ्चमे यद्यपि प्रथमसूत्रोक्तब्रह्मशब्दस्य जीवेऽप्युपपत्तिशङ्का निरस्यत इति तस्य द्वितीयत्वं युक्तम् । तथाप्युत्सर्गतो भेदसाधकस्य कर्मकर्तृभावस्योपोद्बलकादेतमेवेत्यवधारणान्नापवादशङ्केत्येतदर्थस्याप्युक्तेः पञ्चमता । स्वतन्त्रहेत्वन्तरानुक्तेश्च न तत्र चशब्दः । षष्ठे पञ्चमेन श्रौतस्वपक्षसाधके समाप्तेऽनन्तरं स्मार्तस्य तत्साधकस्योक्तिः । सप्तमे तर्हि स्मृतिसमाख्यया सर्वगतत्वस्याल्पौकस्त्वरूपत्वादणौ जीवे सर्वगतत्वस्येव सर्वगते ब्रह्मण्यल्पौकस्त्वस्यापि स्वरूपेणैवासम्भव इत्येवंरूपस्य स्वपक्षबाधकस्योद्धारः । अत्र च व्योमवदित्यनेन विरोधपरिहारः । निचाय्यत्वादेवमित्यनेन चाल्पौकस्त्वोक्तेः प्रयोजनोक्तिः । यद्यपि नोपासात्रैविध्यादित्यत्रैवाल्पौकस्त्वोक्तेरपि प्रयोजनमुक्तम् । तथाप्युपासनार्थमन्तस्स्थत्वाद्युक्तौ तच्छ्रुतिरप्रमाणं स्यात् । उपासनाया मानसक्रियात्वेनार्थाभावेपि सम्भवात् । न हि सप्रयोजनत्वं प्रामाण्यम् । मणिप्रभायां मणिभ्रमस्य तत्प्रसङ्गात् । तृणादिज्ञानस्य तदभावप्रसङ्गाच्चेति शङ्कायामुपासनाया ज्ञानात्मकत्वादर्थाभावोऽसिद्ध इति परिहर्तुं ‘‘चायृ दर्शन’’ इत्यस्माद्धातोर्निष्पन्नस्य निचाय्यशब्दस्य प्रयोगः । अष्टमे सर्वगतस्यापि ब्रह्मणो व्योमवद्भूताश्रयत्वरूपाल्पौकस्त्वसम्भवेऽपि तद्वदचेतनत्वाभावाज्जीववद्भोगप्रसङ्ग इत्येवंरूपस्य स्वपक्षबाधकस्योद्धार इति ॥ अत्र–
एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ।
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा ॥
इत्यनुव्याख्याने सर्वत्रेत्यत्र सर्वत्रावस्थितिरूपं भावाख्यं लिङ्गं प्रतिपाद्यम् । अत्तेत्यत्र संहाररूपक्रियात्मकं लिङ्गम् । गुहामित्यत्रापि कर्मफलभोगरूपक्रियात्मकं लिङ्गम् । अन्तर इत्यत्रान्तस्स्थितिरूपभावसहितं रमणरूपक्रियात्मकं लिङ्गम् । अन्तर्यामीत्यत्रापि तत्सहितं नियमनरूपक्रियात्मकं लिङ्गम् । अदृश्यत्वादीत्यत्राभावात्मकं लिङ्गम् । वैश्वानर इत्यत्र पाचकत्वाद्यनेकलिङ्गसहितं वैश्वानरनामेत्यापादपरिसमाप्त्यधिकरणोपाधयो दर्शिताः । तन्न केवलं सुधोक्तरीत्या तत्तदधिकरणप्रतिपाद्यगुणासांकर्यार्थम् । किन्तु सङ्गत्यर्थं च । तथा हि । विद्यमानस्यैव क्रियान्वयात्क्रियातो भावस्य प्राथम्यम् । न हि क्रियासामान्यस्य स्थितिसामान्यापेक्षत्वमिव स्थितिसामान्यस्य क्रियासामान्यापेक्षत्वमस्ति । तत्रापि कर्मफलभोगवदत्तृत्वरूपसंहर्तृत्वस्य ब्रह्मण्यसम्भावितत्वाभावात् तथा कर्मफलात्तृत्वरूपविशेषं प्रति सामान्यरूपत्वात् तथा स्थित्यनन्तरं संहारस्य धीस्थत्वात् प्रातिपदिकश्रुतिसाहित्येनान्यत्र प्रसिद्धतया सर्वगतत्वसाधर्म्याच्च सर्वगतत्वानन्तर्यमत्तृत्वस्य । तदानन्तर्यं कर्मफलभोक्तृत्वस्य । एकैकरूपलिङ्गोक्त्यनन्तरमेव तन्निरूप्यविशिष्टरूपलिङ्गोक्तिर्युक्तेति भोक्तृत्वानन्तरमन्तराद्यधिकरणद्वयम् । तत्राप्यन्तरत्वस्य श्रुतिसाहित्येनान्यत्र प्रसिद्धतया लिङ्गसाहित्येनान्यत्र प्रसिद्धान्तर्यामित्वाज्ज्यायस्त्वात् तथा आदित्यादिनियामकत्वेनावस्थानविशिष्टरमणरूपमन्तरत्वमयुक्तम् । बहुव्यापारवतस्तद्धेतुकविक्षेपेण दुःखप्रसङ्गादित्यन्तरत्व आक्षिप्ते यद्यदनधीनसत्ताप्रवृत्तिप्रतीतिकं तन्नियमने तस्य दुःखादि । ईश्वरस्तु सत्तादिप्रद इति सत्तादिप्रदत्वरूपान्तर्यामित्वप्रतिपादनादन्तर इत्येतदानन्तर्यमन्तर्यामीत्यस्य । एवं भावरूपलिङ्गसमन्वये समाप्ते तन्निरूप्याभावरूपत्वाददृश्यत्वादेस्तदानन्तर्यम् । एवं केवललिङ्गसमन्वये समाप्ते लिङ्गाधिकनामसमन्वयस्योभयात्मकत्वादंत्यता । अन्यापि सङ्गतिस्तत्तदधिकरणे वक्ष्यते । एवं चादृश्यत्वाधिकरणात्प्राचीनानि पञ्चाधिकरणानि भावलिङ्गविषयतयैका महापेटिका । तत्राप्याद्यं विना चत्वारि क्रियाविषयत्वेन तत्राप्याद्यद्वयं क्रियामात्रविषयत्वेन । उत्तरद्वयं तु भावसहितक्रियाविषयत्वेन । पादांत्योपांत्ये तु बहुविषयत्वेनैकावान्तरपेटिकेत्याद्यूह्यम् ।
प्रकाशिका
पूर्वं सिद्धान्तोक्तरीत्या सूत्राणामन्यथाविन्यासप्रतीतेर्यथाक्रमे बीजमाह ॥ आद्य इति ॥ ‘सर्वत्र प्रसिद्धोपदेशा’दित्यत्र ‘‘एतमेव ब्रह्मेत्याचक्षत’’ इति विषयवाक्यगतहेतूक्तिपरत्वात् श्रुतिरूपहेतूक्तिपरत्वाच्च द्वेधा तस्य प्राथम्यम् ।‘‘विवक्षितगुणोपपत्तेश्चे’’त्यत्र ‘‘सयोतोऽश्रुतोऽगतोऽमतोऽनादिष्ट इत्युत्तरवाक्यस्थत्वाल्लिङ्गत्वाच्च तदुक्तिपरत्वेन तदानन्तर्यम् । तत्र विवक्षितपदस्य टीकोक्तार्थसमर्थनपूर्वं परोक्तं कैश्चिदुक्तं चाविरुद्धमर्थद्वयं स्वयमाह ॥ तत्र चेति ॥ ‘‘ये तु श्रुतीनां ब्रह्मगुणेषु तात्पर्याभावं वदन्ति तन्निरासाय विवक्षितपदमुप बबन्धे’’त्यादितत्वप्रदीपवाक्यं हृदि कृत्वाह ॥ ततश्चेति ॥ श्रुतिलिङ्गरूपस्वपक्षसाधकोक्त्यनन्तरं परपक्षे बाधकोक्तेरवसरप्राप्तत्वाद्द्वाभ्यां तदुक्तिः । तत्र ‘‘अनुपपत्तेस्तु न शारीर’’ इति तृतीयेंऽतरङ्गबाधकोक्तिः । चतुर्थे ‘‘कर्मकर्तृव्यपदेशाच्चे’’त्यत्र बहिरङ्गबाधकोक्तिरिति तदानन्तर्यम् । नन्वनुपपत्तेरित्यत्र प्रतियोगिविशेषाभावात्कर्मकर्तृभावानुपपत्तेरपि तत्रैव विवक्षितुं शक्यत्वाद्व्यर्थमित्यत आह ॥ अत एवेति ॥ वाक्यशेषस्थबहिरङ्गबाधकोक्तिपरत्वादेवेत्यर्थः ॥ प्रकृतेनेति ॥ एतस्याप्रकृतत्वेनान्वयायोगादित्यर्थः । तर्ह्यश्रुतत्वादीनामेव प्रतियोगितयान्वयोऽस्तु । ततोऽपि सन्निहितत्वादित्याशङ्क्य निराह ॥ यद्यपीति ॥ ‘‘शब्दविशेषा’’ दित्यस्याद्यानन्तर्यमाशङ्क्याह ॥ पञ्चम इति ॥ जीवेऽपीति ॥ अमुख्यवृत्त्येत्यर्थः ॥ एतदर्थस्यापीति ॥ अत एव टीकायां कर्मकर्तृसूत्रमप्येतत्सूत्रावतारिकायामाक्षिप्तमिति भावः ॥ स्वतन्त्रेति ॥ ब्रह्मशब्दस्यान्यथासिद्धिनिरासार्थत्वात् ‘‘स्वाप्यया’’दित्यादाविवेति भावः । षष्ठे‘‘स्मृतेश्चे’’त्यत्र । सप्तमे ‘‘अर्भकौकस्त्वा’’दित्यत्र । इत्यनेन विरोधपरिहार इति ॥ स प्रकारः प्रागुक्त इति भावः । एतेन ‘‘किमपरिच्छिन्नादिरूपस्ये’’त्यादि टीकासूत्रांशविवरणपरेति दर्शितम् । व्यावर्त्यशङ्कापूर्वं निचाय्यपदकृत्यमाह ॥ यद्यपीति ॥ चायृ दर्शन इतीति ॥ दर्शनस्यार्थाव्यभिचारादिति भावः । अष्टमे ‘‘सम्भोगप्राप्तिरिति चेन्न वैशेष्या’’दित्यत्र सामर्थ्यवैशेष्येण तदुद्धार इत्यर्थः । अत्र प्रत्यधिकरणं टीकायां पूर्वत्रेव विषयोपाध्यनुक्तेस्तत्प्रदर्शनार्थमधिकरणानां बद्धक्रमत्वमनुव्याख्यानारूढतया प्रदर्शनार्थं च ‘‘सूत्रे भाष्येऽनुभाष्ये चे’’ति स्वप्रतिज्ञामनुरुंधंस्तदनूद्य व्याचष्टे ॥ अत्रेति ॥ तत्सहितं भावसहितम् ॥ न केवलमिति ॥ ‘‘ग्रन्थोऽयमपि बह्वर्थ’’ इत्युक्तेरिति भावः । स्थितिरूपभावस्य प्राथम्यं व्यनक्ति ॥ न हीति ॥ अवान्तरक्रमे भाष्यादिसूचितौ हेतू आह ॥ तत्रापीति ॥ अधिकरणद्वयेऽपीत्यर्थः ॥ सामान्यरूपत्वादिति ॥ सामान्योक्त्यनन्तरमेव विशेषजिज्ञासा भविष्यतीति भावः । अत्तेत्यस्य पूर्वानन्तर्ये ‘‘संहर्तृत्वापरपर्यायवाच्यमत्तृत्व’’मित्यादिटीका सूचितं हेतुद्वयमाह ॥ स्थितीति ॥ संहारस्येति ॥ अत्तृत्वस्य संहाररूपत्वेन वक्ष्यमाणत्वादिति भावः ॥ प्रातिपदिकेति ॥ सर्वत्रेति नये आदित्यप्रातिपदिकश्रुतिसाहित्येन सर्वगतत्वस्यान्यत्र प्रसिद्धिवददितिश्रुतिसाहित्ये नात्तृत्वस्यान्यत्र प्रसिद्धिरुच्यते । गुहां प्रविष्टावित्यत्र तु नैवमिति पौर्वापर्यमित्यर्थः ॥ तन्निरूप्येति ॥ प्रागुक्तभावक्रियारूपोभयनिरूप्येत्यर्थः । टीकासूचितं हेतुमाह ॥ अन्तरत्वस्येति ॥ अग्निश्रुतीत्यर्थः ॥ लिङ्गेति ॥ पृथिव्यादिशरीरत्वलिङ्गेत्यर्थः ।
रमणं नातियत्नस्य विक्षेपादेव युज्यते ।
इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ।
स्वात्मनाऽनियतं वस्तुप्रतीपं ह्यात्मनो भवेत् ॥
इत्यनुव्याख्यानोक्तमेवावान्तरक्रमे हेत्वन्तरमाह ॥ तथाऽऽदित्यादीति ॥ उभयात्मकत्वादिति ॥ साक्षादसाक्षात्त्वभेदेनेति भावः । नन्वेतास्सङ्गतयो न स्पष्टश्रुतिसङ्गत्याक्षेपिका अतस्तदाक्षेपिकाऽन्यान्यैव वाच्येत्यत आह ॥ अन्यापीति ॥ एवमनुव्याख्यानस्यानन्तर्य सङ्गतिपरत्वं व्याख्याय पेटिकासङ्गतिपरत्वं चाह ॥ एवं चेति ॥ यद्वान्तिमं विना षडधिकरणी साक्षाल्लिङ्गसमन्वयपरत्वेनैका पेटिका । तत्राप्याद्यचतुष्टयं श्रुतिसाहित्येनान्यत्र प्रसिद्धलिङ्गसमन्वयपरत्वादवान्तरपेटिका । गुहामित्यत्रापि प्रत्ययश्रुतिसाहित्येनान्यत्र प्रसिद्धेर्वक्ष्यमाणत्वात् । षष्ठस्य तथात्वेऽप्यभावविषयत्वात्तस्य पृथक्त्वम् । पञ्चमस्य तु लिङ्गसाहित्येनान्यत्र प्रसिद्धसमन्वयपरत्वात्तदेकमवान्तरं सप्तमं त्वर्थाल्लिङ्गसमन्वयपरत्वात्तदेकं पृथगिति ज्ञेयमिति भावेनाह ॥ इत्याद्यूह्यमिति ॥ यद्वा ‘‘सर्वगोत्ता नियन्ता चे’’त्यणुभाष्यदिशाऽत्तृत्वरूपलिङ्गसमन्वयपरत्वादत्ताधिकरणं गुहाधिकरणं चैका पेटिका । नियमनरूपैकलिङ्गसमन्वयपरत्वादन्तराद्यधिकरणद्वयमेका पेटिकेति ध्येयमित्याह ॥ इत्याद्यूह्यमिति ॥ यद्वा न केवलं सङ्गत्यादिपरमनुव्याख्यानम् । किन्तु एतान्येवात्र समन्वीयन्ते । न तु परोक्तानि । सप्तैव चाधिकरणानि । न रामानुजमतरीत्या षडेवेत्यादिपरमतखण्डनपरं च ध्येयमिति भावेनाह ॥ इत्यादीति ॥ खण्डनप्रकारश्चाग्रे व्यक्त इति ।
चन्द्रिकाबिन्दुः
वक्तुं योग्ये हीति ॥ अस्मिंश्च पक्षे कर्मेत्यत्र जीवादावदृष्टत्वाश्रुतत्वादयो गुणाः परमात्मनि भवेयुरिति शङ्कानिरासार्थं सूत्रे विवक्षितपदं वक्तुं योग्या हि ते परमात्मनि अतो न शङ्केति निरासप्रकारः । अथवा मोक्षसाधनापरोक्षज्ञानादिश्रवणादिविषयत्वाद् ब्रह्मणः कथमदृष्टत्वादीति शङ्कानिरासार्थं विवक्षितेति ॥ वक्तुं योग्ये हि तेऽदृष्टत्वादयः ॥ साकल्यादिविवक्षयेति ॥ प्रयोजनं दर्शयति ॥ ततश्चेति ॥ एवमुत्तरत्र चेत्युत्तरवाक्यस्यावतारिका द्रष्टव्या । सम्भवेऽपीत्यपिशब्देन अभ्युपगममानं सूचयति ॥ नन्वनुपपत्तेरिति ॥ पूर्वसूत्रस्यैव कर्तृकर्मभावानुपपत्तेरित्येवार्थः विमतिनोक्त इत्यत आह ॥ अत एवेति ॥ कर्मकर्तृभाववद् वाक्यदोषत्वाभावेनाव्यवहितपूर्ववाक्यत्वादेवेत्यर्थः ॥ अव्यवधानेनेति ॥ विवक्षितगुणोपपत्तेरिति सूत्रेणेति शेषः । तत्र पञ्चमसूत्रे षष्ठानन्तर्यं सप्तमस्य दर्शयितुमाह ॥ तर्हि स्मृतीति ॥ ननूपासनावाक्यस्य सप्रयोजनत्वादेव नाप्रामाण्यमित्यत आह ॥ न हीति ॥ भावशब्दस्य सत्तावाचित्वमभिप्रेत्याह ॥ सर्वत्रावस्थितिरूपमिति ॥ क्रियालिङ्गेन तत्परमित्यादीनां क्रमेणार्थमाह ॥ अन्तस्थितीति ॥ तत्सहितम् अन्तस्थितिरूपभावसहितम् ।
ननु शरीरादिस्थितिविशेषः भोजनादिक्रियासापेक्ष एवेति क्रियाधिकरणस्य पूर्वनिपात इत्यत आह ॥ न हि क्रियेति ॥ तत्रापि क्रियाधिकरणद्वयमध्येऽपि । कर्मफलभोक्तृत्वाधिकरणपूर्वत्वमुपपाद्यादित्याधिकरणस्य सर्वत्र प्रसिद्धोपदेशादित्येतधिकरणानन्तर्यमुपपादयते तथा स्थित्यनन्तरं संहारस्येति ॥ प्रातिपदिकेति ॥ सर्वाधिकरणे आदित्यप्रातिपदिकश्रुतिर् अदितिप्रातिपदिकश्रुतिः । कर्मफलाधिकरणे तद्द्विवचनरूपा प्रत्ययश्रुतिरन्यत्रप्रसिद्धत्वसम्पादिकेति ध्येयम् ॥ एकैकेति ॥ भावरूपलिङ्गोक्तया क्रियारूपलिङ्गोक्तया चेत्यर्थः ॥ विशिष्टेति ॥ भावविशिष्टक्रियारूपेत्यर्थः । आदित्याधिकरणानन्तर्यमन्तराधिकरणस्य दर्शयति ॥ तथा आदित्यादीति ॥ भावशब्दस्य भावपदार्थार्थकत्वमभिप्रेत्याह ॥ एवं भावरूपेति ॥ ततःपरमित्याद्यनुव्याख्यानस्थपदसूचितां सङ्गतिं दर्शयित्वा क्रियाभावेत्यादिपदसूचितां पेटिकासङ्गतिमपि दर्शयति ॥ एवं चेत्यादिना ॥ इत्यादिपदेन प्रातिपदिकश्रुतिसाहित्येनान्यत्रप्रसिद्धनामसमन्वयात्मकमधिकरणद्वयमेका पेटिकेत्यादिप्रकारेणोह्यमिति दर्शयति ॥
पाण्डुरङ्गि
सूचयितुं च शारीरपदमिति ॥ न केवलं जीवत्वरूपधर्मनिर्देशार्थमिति चार्थः । तत्सहितम् अन्तस्स्थितिं रूपभावसहितम् ॥ प्रातिपदिकश्रुतिसाहित्येनेति ॥ आदित्यशब्दप्रातिपदिकश्रुतिसाहित्येनेत्यर्थः ॥ पादांत्येति ॥ वैश्वानराधिकरणपादान्त्यम् । उपांत्यम् अदृश्यत्वाधिकरणमिति ध्येयम् ।