०१ पूर्वपक्षकथनम्

यैर्लिंगैः साधितः पूर्वं नाम्नां विष्णौ समन्वयः

॥ श्री वेदव्यासाय नमः ॥

**श्रीब्रह्मण्यतीर्थश्रीपादशिष्यश्रीव्यासतीर्थविरचिता **

सर्वगतत्वाधिकरणम्

तात्पर्यचन्द्रिका

प्रथमाध्यायस्य द्वितीयः पादः

पूर्वपक्षकथनं

यैर्लिंगैः साधितः पूर्वं नाम्नां विष्णौ समन्वयः ।

तेषामिहोच्यते लिङ्गजातीयानां समन्वयः ॥ १ ॥

तदुक्तमनुव्याख्याने ।

इत्यन्यत्र प्रसिद्धोरुशब्दराशेरशेषतः ।

ज्ञाते समन्वये विष्णौ लिंगैर्ह्येष समन्वयः ॥

तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वयः ।

इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥ इति ॥

॥ ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥

यद्यपि पूर्वपादांत्यस्योत्तरपादाद्यस्य चाधिकरणस्य नावान्तरसङ्गत्यपेक्षा । तथापीह तस्याः सम्भवात्फलस्यावश्यवक्तव्यत्वाच्चैतत्पूर्वपक्षे पूर्वाधिकरणसिद्धान्ताक्षेपो दर्शितो भाष्यादौ ।

श्रीराघवेन्द्रतीर्थविरचिता प्रकाशिका

प्रकाशिका

टीकायां पादसङ्गत्यनुक्तेस्तामन्यत्रोक्तां दर्शयन् पूर्वपादार्थानुवादपूर्वमेतत्पादार्थमाह ॥ यैरिति ॥ तेषां लिङ्गानामिह द्वितीयपादे समन्वय उच्यत इत्ययुक्तम् । समुद्र शायित्वादिलिङ्गानामिह समन्वयानुक्तेरित्यत आह ॥ लिङ्गेति ॥ प्रागुक्तलिङ्गजातीयानामित्यर्थः । जातीयत्वं च तल्लिङ्गोपेतवाक्यगततयैकवाक्यगतत्वेनेति ध्येयम् । यद्वा नामसमन्वयहेतुतयाऽभिमतत्वादिना तल्लिङ्गजातीयत्वम् । एतदुक्तं भवति । सर्वश्रुतिगतान्यन्यत्र प्रसिद्धनामानि सर्वाण्यपि तत्र तत्र स्थितैस्सर्वैर्लिङ्गैर्भगवन्निष्ठानीति प्राक्साधिते सति तत्रासन्दिग्धलिङ्गप्रहाणेनेतरेषां समन्वयोऽत्रोच्यत इति । एतेनैतन्निरस्तम् । कथं लिङ्गसमन्वयः । किं लिङ्गान्तरेणोत नाम्ना । नाद्यः । समन्वीयमानत्वेन सन्दिग्धत्वात् । न द्वितीयः । अन्योन्याश्रयापत्तेः । सिद्धे नामसमन्वये तेन लिङ्गसमन्वयः लिङ्गसमन्वये च सिद्धे तेन नामसमन्वयसिद्धिरिति । असन्दिग्धभगवन्नामलिङ्गादिभिस्सन्दिग्धलिङ्गसमन्वयोक्तेः । एतेन लिङ्गसमन्वयस्य प्रागुक्तनामसमन्वयहेतुत्वेन वा तस्मिन्सत्येवास्योत्थानेन तत्कार्यत्वेन वा हेतुहेतुमद्भावरूपसङ्गतिरित्युक्तं भवति ॥ तदुक्तमिति ॥ तृतीयाध्यायस्य तृतीयपाद इत्यर्थः । ज्ञाते प्रथमपादेनेत्यर्थः । लिङ्गैरिति प्रायिकत्वाभिप्रायेण । ब्रह्मश्रुत्यादिनाप्यानन्दमयादेस्समन्वयोक्तेः । एष समन्वयो नामसमन्वयः । अन्यत्र प्रसिद्धाशेषलिङ्गानां समन्वयम् । आहोभयगतत्वं चेत्युत्तरवाक्यगतेनाहेत्यनेन द्वितीयान्तस्यान्वयः ॥ ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥

नन्वत्र टीकायामादित्यश्रुत्या सर्वगतत्वलिङ्गस्यान्यत्रप्रसिद्धिरुक्ता । सा न युक्तैव । तथाहि । अत्र सर्वगतत्वं नाम सर्वहृदयगुहास्थत्वम् । यद्वक्ष्यति ‘‘सर्वभूताशयस्थित’’ इति । तथाच तादृशं ‘‘योवेद निहितं गुहायां निहितं गुहासु ब्रह्मपुरे ह्येष व्योम्नयात्मा सम्प्रतिष्ठित’’ इत्यादौ विष्णावपि सिद्धमिति प्रक्रमस्थादित्यश्रुतिसमाख्याभ्यामुभयत्र प्रसिद्धिरेव लिङ्गस्य स्यात् । नान्यत्र प्रसिद्धिः । यथा भूमाधिकरणे ‘‘प्राणोवा आशाया भूया’’ नित्युपक्रमस्थप्राणश्रुत्या ‘‘विष्णुर्वाव देवेभ्यो भूया’’निति समाख्ययाच भूमत्वस्य प्राणविष्णूभयसाधारण्यं तद्वदिति चेन्न । वैषम्यात् । तत्र प्रक्रमसमाख्ययोः प्राणविष्णुपरत्वं पूर्वपक्षिणस्संप्रतिपन्नमिति तत्र तथात्वं युज्यते । न त्विह । अत्राभिप्रेतलिङ्गस्य सर्वगतत्वस्य विष्णुनिष्ठतायाः पूर्वपक्षिणः क्वाप्यसम्मतेः । तथाच वक्ष्यत्यध्यायान्ते ‘‘अन्यत्र प्रसिद्धेषु क्वापि ब्रह्मपरत्वं नेति प्राप्ते तन्निरास’’ इति । वक्ष्यति चैतद्भूमाधिकरण एव सर्वभूतगतत्वरूपार्भकौकस्त्वस्य पूर्वपक्षिणा क्वाप्यनङ्गीकारेणे’’त्यादि । एवं तर्ह्यंतर्हृदये ज्योतिरित्यादिना गायत्र्यधिकरणविषयवाक्यस्थार्भकौकस्त्वस्याप्याक्षेपस्सम्भवतीति चेत्सत्यम् । अव्यवहिताक्षेपसम्भवे तस्यैव वाच्यत्वादिति ध्येयम् । अत्र भाष्यादौ पूर्वाधिकरणेनाक्षेपसङ्गत्युक्त्या तदावश्यकत्वं भाति । तन्न युक्तम् । तथात्वे तृतीयादिस्थानामपि तथा वक्तव्यत्वापत्त्याऽनुक्तेर्न्यूनतापत्तेः । भिन्नपादस्थत्वेन पूर्वसङ्गत्यभावे बाधकाभावाच्चेत्याशङ्क्य समाधत्ते ॥ यद्यपीति ॥ तस्याः पूर्वसङ्गतेः । यदत्रोक्तं तन्त्रचूडामणौ ‘‘पूर्वान्त्योत्तराद्ययोर्नसङ्गतिरस्ति । तथात्वे पादविभागभङ्गप्रसङ्गा’’दिति । तन्न । प्रमेयभेदेनैव पादभेदसम्भवादिति भावः । एतेन टीकायां ‘‘श्रुत्यादिसङ्गति’’मित्युक्तं समर्थितं बोध्यम् । ‘‘ब्रह्म ततममिति सर्वगतत्वमुक्त’’मिति भाष्यं न सङ्गतिमात्रपरम् । किन्तु फलपरमपीति भावेनाह ॥ फलस्येति ॥ टीकापि तथा योज्येति भावः । एतच्चाग्रे स्पष्टयिष्यते ।

पाण्डुरङ्गि केशवाचार्यविरचिता भावदीपिका

पाण्डुरङ्गि

पूर्वपादसङ्गतत्वेनैतत्पादप्रतिपाद्यं दर्शयति ॥ यैरिति ॥ लिङ्गपादस्य नामपादानन्तर्ये हेतुमाह ॥ यैर्लिङ्गैरिति ॥ प्रायेणेति शेषः । नाम्नाम् अन्यत्र प्रसिद्धाशेषवैदिकनाम्नामित्यर्थः । स्पष्टं चैतत्सुधायाम् । तेषामेव लिङ्गानां समन्वयानुक्तेराह ॥ लिङ्गजातीयानामिति ॥ तदुक्तमिति ॥ उपासनापाद इत्यर्थः । ‘‘ब्रह्म ततम’’मिति भाष्ये एतत्पादाद्याधिकरणस्य पूर्वपादान्त्याधिकरणेन सङ्गतिदर्शनात्सर्वत्रापि पादान्त्याधिकरणस्योत्तरपादाद्याधिकरणस्य चावान्तरसङ्गत्यपेक्षानियमः प्रतीयते । सा चायुक्ता अनावश्यकत्वादित्याह ॥ यद्यपीति ॥ भाष्यादावित्यत्रादिपदेन ‘‘इत्यन्यत्र प्रसिद्धोर्वि’’त्याद्यनुव्याख्यापरिग्रहः ॥