केचित्तु ‘‘मामुपास्स्व’’ इतीन्द्रलिङ्गात् ..
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु ‘‘मामुपास्स्व’’ इतीन्द्रलिङ्गाज् जीवलिङ्गानां च जीवविशेषेन्द्रे पर्यव-सानात् प्राणलिङ्गे सत्यपि ‘‘प्राणोऽस्मि’’ इति प्राणस्य जीवविशेषेन्द्रविशेषणत्व-प्रतीतेर्जीववायुपक्षयोरनुत्थानादिन्द्रः प्राण इति प्राप्ते ‘‘आनन्दोऽजरोऽमृतः’’ इत्यादिब्रह्मलिङ्गाद्ब्रह्मैव प्राण इति सिद्धान्त इत्याहुः । तन्न । इन्द्र इत्येव पूर्वपक्षे सति सूत्रे ‘‘जीवमुख्यप्राणलिङ्गात्’’ इति शङ्कायोगात् । तत्र जीवशब्दस्य तद्विशेषेन्द्रपरत्वे वक्तुरात्मोपदेशस्यापीन्द्रलिङ्गस्यानेनैव सङ्ग्रहसम्भवात् ‘‘न वक्तु-रात्मोपदेशात्’’ इति पृथक्सौत्रशङ्कायोगात् । अस्मदीयोदाहरणे तु जीवलिङ्गं शतायुष्ट्वं नेन्द्रे युक्तम् । मनोवाक्प्राण इत्यादौ प्राणोऽपि नान्यविशेषणम् ।
प्रकाशिका
रामानुजमतमनूद्य पराचष्टे ॥ केचित्त्विति ॥ प्रतर्दनविद्यायां ‘‘स होवाच प्राणोऽस्मि प्रज्ञात्मा मामायुरमृतमित्युपास्स्व’’ इत्युपासनाकर्मतयेन्द्रप्राणशब्द-निर्दिष्टः किं प्रसिद्ध इन्द्र उत परमात्मेति संशये ‘‘मामेव विजानीहि’’ इति ‘‘प्राणोऽस्मि प्रज्ञात्मा मामायुरमृतमित्युपास्स्व’’ इतीन्द्रलिङ्गाद् अस्य च ‘‘इन्द्रस्त्रिशीर्षाणं त्वाष्ट्र-महन्’’ इत्युपक्रमे श्रुतत्वाष्ट्रवधादिभिः प्रसिद्धत्वात् ‘‘आनन्दोऽजरोऽमृतः’’ इत्यानन्दादि- लिङ्गानामुपक्रमावगतत्वाष्ट्रहननादिलिङ्गानुरोधेन नेयत्वादिन्द्र एव । यद्यपि ‘‘वक्तारं विद्यात्’’ इति जीवमात्रलिङ्गं ‘‘इदं शरीरं परिगृह्योत्थापयति’’ इति पञ्चवृत्तिरूपमुख्य-प्राणलिङ्गं चास्ति तथाऽपि विशेषाकाङ्क्षायां जीवधर्मस्येन्द्रशब्दवाच्यप्रकृतजीवविशेष-निष्ठत्वप्रतीतेः प्राणोऽस्मीति सामानाधिकरण्येन प्राणस्य जीवविशेषेन्द्रविशेषणत्वप्रतीतेः प्राधान्येन प्रतिपाद्यत्वशङ्कानुदयान्न तयोरिह प्राप्तिरिति प्राप्ते ‘‘स एष प्रज्ञानन्दोऽजरोऽमृतं मनुष्याय हिततमम् एष ह्येव साधु कर्म कारयति तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिता एष लोकाधि-पतिरेष सर्वेश्वरः’’ इत्यादिनाऽऽनन्दाजरामृतत्वहिततमत्वसाध्वसाधुकर्मकारयितृत्वचेतना-चेतनात्मककृत्स्नव स्त्वाधारत्वसर्वलोकाधिपतित्वादिपरमात्मधर्मबाहुल्यात् स्वावस्थित-परमात्मोपासनाभिप्रायेण मामुपास्स्वेत्युपदेशोपपत्तेरानन्दादिबहुतरगुणानुरोधेन त्वाष्ट्रवधा-देर्वर्णनीयत्वादिन्द्रप्राणादिनिर्दिष्टो जीवादर्थान्तरभूतः परमात्मेति सिद्धान्त इत्याहुरित्यर्थः । उक्तं च–
विद्या प्रातर्दनी सा वदति हिततमोपास्तिकर्मेन्द्रमेव
ख्यातप्राणेन्द्रचिह्नान्वितमपि तदसौ विश्वकर्तेति चेन्न ।
ब्रह्म त्रेधा ह्युपास्यं बहुविधचिदचित्कंचुकं स्वात्मना च
प्राणेन्द्रप्रक्रमोऽपि प्रबलतरमहावाक्यवैघट्यभग्नः ॥
इत्यादि । यद्यपि भाष्ये प्राणशब्दनिर्दिष्टो जीव एवोत परमात्मेत्येव संशयो दर्शितः । न त्विन्द्र एवेति । तथापि ‘‘प्रसिद्धजीवभाव इन्द्र एव’’ इति पूर्वपक्षान्ते कथनात् श्रुत-प्रकाशे तथैव व्याख्यातत्वाच्चेन्द्रः प्राण इति प्राप्त इत्युक्तमिति ध्येयम् । सूत्रानानुगुण्येन पूर्वपक्षं निरस्यति ॥ तन्नेति ॥ ननु जीवशब्दस्य जीवविशेषेन्द्रपरत्वमुच्यत इति चेत्तथापि मुख्यप्राणपदायोगात् । तस्य त्वन्मते जडत्वेन तद्विशेषेन्द्रपरत्वायोगात् । सामान्यशब्दस्य विशेषपरत्वे लक्षणापत्तेश्च । दोषान्तरञ्चाह ॥ तत्रेति ॥ ‘‘मामुपास्स्वेति वक्तुरिन्द्रस्य स्वात्मन एवोपदेशात्’’ इति त्वया व्याख्यातत्वाज्जीवलिङ्गपदेन वक्तृत्वादेर्ग्रहण-मिवात्मोपदेशोऽपि ग्रहीतुं शक्यत इति तत्सूत्रं व्यर्थमित्यर्थः । उपलक्षणमेतत् । प्राण-स्येन्द्रविशेषणत्वेनाप्राधान्ये धर्मिनिर्देशाय सूत्रे ‘प्राणस्तथा’ इति प्राणपदप्रयोगो न स्यात् । किं तु ‘इन्द्रस्तथानुगमात्’ इत्येव स्यात् ।
यदत्रोक्तं श्रुतप्रकाशे प्राणशब्दस्य परमात्मलिङ्गप्रतिपादकवाक्यस्थत्वेन सिद्धान्तहेतु-द्योतकत्वात्सूत्रे प्राणपदेन धर्मी निर्दिष्ट इति तन्न । सिद्धान्तहेतोस्तथानुगमादित्यादिनैव स्फुटं प्रतिभासात् पूर्वपक्षहेतोः केनाप्यप्रतीतेस्तत्सूचनार्थत्वात्प्राधान्याच्चेन्द्र इत्येव निर्देष्टव्यत्वात् । अत एव तद्भाष्ये ‘‘इन्द्रशब्दस्य जीवविशेष एव प्रसिद्धेः’’ इति पूर्वपक्ष-हेतुर्बहिरेवोक्त इति ध्येयम् । ननूक्तरीत्या जीवमुख्यप्राणकोटिकपूर्वपक्षासम्भवादगत्या सर्वसमाधेयमेतत् । अन्यथाऽयं दोषो भवतामपि सम इत्याशंक्य स्यादयं दोषोऽद्वैति-नामिदमेवोदाहृत्य त्रितयपरत्वेन पूर्वपक्षयतां न त्वस्माकं प्रागुक्तदोषास्पृष्टोदाहरणान्तरं कुर्वतामित्याह ॥ अस्मदीयेति ॥ नेन्द्र इति ॥ तस्यामरत्वेन बहुकालस्थायिनश्शता-युष्ट्वायोगात् । त्वन्मते वक्तृत्वादिजीवलिङ्गस्य तद्विशेषेन्द्रनिष्ठत्वे तत्र पर्यवसानमिव नास्मन्मते जीवलिङ्गमिन्द्रे पर्यवसाययितुं शक्यत इति स्वातन्त्र्येण जीवकोटिकपूर्वपक्षो युक्तः । प्राणोऽपि नान्यविशेषणतया प्रतीयत इति तत्कोटिकपूर्वपक्षोऽपि युक्त इति सर्वमनवद्यमिति भावः ।
पाण्डुरङ्गि
नन्वेवं भवत्पक्षेऽपि जीवलिङ्गानां तद्विशेषेन्द्रपरत्वेन प्राणोऽस्मीति प्राणस्य जीवविशेषेन्द्रविशेषणत्वप्रतीतेः प्राणलिङ्गस्यापि तत्परत्वेनेन्द्र एव प्राण इत्येक एव पूर्वपक्षो वाच्यः । तथाच जीवप्राणलिङ्गायोगादिति शङ्कायोगः, तत्र जीवशब्दस्य तद्विशेषपरत्वे च वक्तुरात्मोपदेशेऽपि इन्द्रलिङ्गस्यानेनैव सङ्ग्रहसम्भवाद् वक्तुरात्मोपदेशा-
दिति पृथक् सौत्रशङ्कायोगादिति दोषतादवस्थ्यमेवेत्यत आह ॥ अस्मदीयोदाहरणे त्विति ॥