अन्ये तु प्रतर्दनं प्रतीन्द्रेण प्रयुक्तं ..
अद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अन्ये तु प्रतर्दनं प्रतीन्द्रेण प्रयुक्तं ‘‘प्राणोऽस्मि प्रज्ञात्मा’’ इति वाक्यमुदाहृत्य ‘‘मामेव विजानीहि’’ इतीन्द्रलिङ्गात् ‘‘इदं शरीरं परिगृह्योत्थापयति’’ इति वायु-लिङ्गात् ‘‘वक्तारं विद्यात्’’ इति जीवलिङ्गाच्चेन्द्रादिरेव प्राण इति प्राप्ते ‘‘यं त्वं मनुष्याय हिततमम्’’ इति हिततमत्वादिब्रह्मलिङ्गाद्ब्रह्मैव प्राण इति सिद्धान्त इत्याहुः । तत्र न तावत्परमपुरुषार्थसाधनत्वं हिततमत्वम् । त्वन्मते ज्ञानादेवाज्ञान-निवृत्त्या ब्रह्मणि तस्याभावात् । परमपुरुषार्थत्वं हिततमत्वं चेत्सर्वोपप्लवरहितं मोक्षदशानुगतं शुद्धचैतन्यं हिततमं वाच्यम् । तस्य हिततमत्वं च न विशिष्टं प्रति । तस्य मोक्षदशायामभावात् । नापि शुद्धं प्रति । तस्याखण्डत्वेनास्येदं हितमिति विभागायोगात् । किञ्च हितत्वं विना न हिततमत्वम् । न चाखण्डे हितत्वसामान्यं हिततमत्वविशेषश्च युक्तः । तस्मान्न हिततमत्वं ब्रह्मलिङ्गम् । नापि ‘‘तं मामायु-रमृतमित्युपास्स्व’’ इत्युक्तममृतत्वोपासनकर्मत्वं च ब्रह्मलिङ्गम् । अविद्यमान-तदुपासनकर्मत्वस्येन्द्रादावपि सम्भवात् । नापि ‘‘स यो मां वेद नस्तेयेन न भ्रूण-हत्यया’’ इत्युक्तः स्वज्ञानेन सर्वकर्मालेपो ब्रह्मलिङ्गम् । शुद्धे ‘‘एष ह्येव साधुकर्म कारयति एष लोकाधिपतिः’’ इत्यादेरयोगात् । विशिष्टज्ञानेन च त्वन्मते सर्वकर्मा-लेपाभावात् । एवं लिङ्गान्तरं दूष्यम् । इदं चाधिकरणं जीवत्वनिषेधेन ब्रह्मत्व-विधानात्तदभेदप्रतिकूलम् ।
प्रकाशिका
अन्ये त्विति ॥ कौषीतकिब्राह्मणे तृतीयेऽध्याये इन्द्रप्रतर्दनाख्यायि-कायां प्रतर्दनं प्रति ‘‘इन्द्र उवाच मामेव विजानीहि’’ इत्युपक्रम्य श्रुतमिन्द्रवाक्यं ‘‘प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व’’ इति । तत्र प्राणः किं वायुः किं वेन्द्र उत जीवोऽथ ब्रह्मेति संशये प्राणशब्दस्यान्यत्र प्रसिद्धेः प्राणो वायुरेवेति प्राप्ते ‘‘यं त्वं मनुष्याय हिततमं मन्यसे यो मां वेद न स्तेयेन न भ्रूणहत्यया स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः’’ इति हिततमत्वनिखिलस्तेयभ्रूणहत्यादिपापालेपप्रज्ञात्मत्वा- नन्दत्वादेर्ब्रह्मण्येवानुगमाद वायौ च तदयोगाद्ब्रह्मैवायं प्राण इत्याद्येनोक्त्वा वक्तुरुप-देष्टुरिन्द्रस्य प्राणोऽस्मीति प्राणत्वेन स्वात्मोपदेशादिंद्र एव प्राणो न ब्रह्मेति पुनराक्षिप्य अस्मिन्प्रकरणे ‘‘यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः’’ इत्यायुरवधित्वस्य ‘‘प्रज्ञानन्दोऽजरः’’ इति प्रज्ञात्वादेश्चोक्ताऽध्यात्मशब्दितप्रत्यगात्मसम्बन्धबाहुल्यसत्त्वात् तस्य च पराग्भूतेन्द्रेऽयोगात् ‘‘मामेव विजानीहि प्राणोऽस्मि’’ इति स्वात्मोपदेशस्य च ‘‘अहं ब्रह्मास्मि’’ इत्यादिशास्त्राधीनदृष्ट्या ‘‘अहं मनुरभवम्’’ इति वामदेवस्य मनुत्वादिना स्वात्मोपदेशवदुपपत्तेर् ब्रह्मैव प्राण इति द्वितीयतृतीयाभ्यामुक्त्वा चतुर्थेन सूत्रेण पुनः ‘‘न वाचं विजिज्ञासीत वक्तारं विद्यात्’’ इति वक्तृत्वरूपजीवलिङ्गात् ‘‘अथ प्राण एव प्रज्ञात्मा इदं शरीरं परिगृह्योत्थापयति’’ इति प्राणलिङ्गात् हिततमत्वादि-ब्रह्मलिङ्गाच्च त्रयाणामप्युपास्यत्वं न तु ब्रह्मण एवेत्याक्षिप्य तथात्व उपासात्रैविध्यप्रसङ्गाद् अन्यत्र प्राणस्य प्राणमित्यादौ वाक्यान्तरे ब्रह्मलिङ्गैः प्राणशब्दे ब्रह्मत्वस्याश्रितत्वाद् इहापि हिततमत्वादिलिङ्गयोगात् ‘‘मामेव विजानीहि’’ इत्युपक्रम्य ‘‘प्राणोस्मि प्रज्ञात्मा’’ इत्युक्त्वा अन्ते ‘‘स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः’’ इत्युप-संहारेण ब्रह्मण्येकवाक्यत्वावगतौ तन्मध्यगतान्यलिङ्गानि ब्रह्मण्येव नेयानीति सिद्धान्त इत्याहुरित्यर्थः ।
॥ इतीन्द्रलिङ्गादित्यादि ॥ यथाश्रुतभाष्यानुरोधेनैवमुक्तिः । भामत्यां तु शरीर-धारणरूपलिङ्गस्य वायुगतत्वेऽपि वायुव्यापारस्य परमात्मायत्तत्वाद् वक्तृत्वस्य च वाक्करणकव्यापारवत्त्वरूपस्य ‘‘येन वागभ्युद्यते’’ इति श्रुतेर्जीवरूपेणोपपत्तेरनेक-ब्रह्मलिङ्गानुरोधेनेन्द्रलिङ्गानामन्यथासिद्धेर्न पूर्वपक्षोदय इत्याक्षिप्य ‘‘यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतावस्मिञ्छरीरे वसतः सहोत्क्रामतः’’ इति यस्यैव प्राणस्य प्रज्ञात्मनोपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहोत्क्रमणकथनान् निर्भेदे ब्रह्मणि द्विवचनसहभावोत्क्रमणानामयोगाद्यथायोगं वाय्वादयस्त्रय एवात्रोपास्याः । वाक्यभेदस्य सह्यत्वादिति पूर्वपक्षयित्वा प्रागुक्तैकवाक्यतामाश्रित्य सिद्धान्तितम् । उक्तं च–
तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारतः ।
एकवाक्यबलात्प्राणजीवलिङ्गोपपादनम् ॥
इतीति ध्येयम् । सूत्रार्थान् क्रमेण दूषयिष्यन्नाद्यसूत्रोक्तसिद्धान्तहेतुं तावद्दूषयति ॥ तत्रेति ॥ यदुक्तं हिततमत्वलिङ्गमिति तत्किं भामत्याद्युक्तरीत्या पुमर्थहेतुत्वमुत पुरुषार्थरूपत्वमिति विकल्प्याद्येऽसिद्धं ब्रह्मणीत्याह ॥ न तावदिति ॥ अज्ञानोच्छेदस्यैव परमपुरुषार्थत्वात्तस्य च ज्ञानादेव सिद्धेः । उक्तं च ‘‘परमपुरुषार्थस्यापवर्गस्य परमात्म-ज्ञानादन्यतोऽनवाप्तेः’’ इति । परम्परया तद्धेतुत्वस्य जीवेऽपि सम्भवात् । न च मुक्तिहेतुज्ञानविषयत्वं तत् । अशब्दार्थत्वात् । किञ्चात्र प्राणः किं विशिष्टं ब्रह्मेति सिद्धान्त्यते शुद्धमिति वा । आद्येऽसिद्धेः । द्वितीये ‘‘एष ह्येव साधु कर्म’’ इत्युक्त-पुण्यपापकर्तृत्वाद्ययोग इति भावः । द्वितीयं निरस्यति ॥ परमेति ॥ तत्किं विशिष्टस्य शुद्धस्य वा लिङ्गम् । नाद्यः । तस्याज्ञानाद्युपप्लववतस्तदयोगात् । द्वितीये विशिष्टं संसारिणं प्रति शुद्धं हिततममित्युच्यते मुक्तं शुद्धं प्रत्येव वा । आद्यं निरस्यति ॥ तस्येति ॥ द्वितीयं निराह ॥ नापीति ॥ अस्येति षष्ठ्यर्थस्य भेदघटितत्वात्कल्पित-भेदस्यापि तदाऽभावादिति भावः ॥
अविद्यमानेति ॥ त्वन्मत उपासनाविषयस्यासत्त्वस्वीकारात् । तथा च न पूर्वपक्ष-निरास इति भावः । सर्वकर्मालेपहेतुज्ञानविषयत्वं शुद्धस्याङ्गीकृत्य शुद्धं ब्रह्मैव प्रकरणे गीयत इत्युच्यते उत विशिष्टस्यैव तदुपेत्य तदेवात्रोच्यत इति विकल्प्याद्यं दूषयति ॥ शुद्ध इति ॥ शुद्धस्य निष्कलं निष्क्रियमित्यादिनौदासीन्यश्रवणादिति भावः । द्वितीयं निरस्यति ॥ विशिष्टेति ॥ एवमिति ॥ नापि ज्ञानात्मत्वम् । जीवेऽपि सम्भवात् । नाप्यजरत्वामृतत्वलोकपालत्वादीनि । इन्द्रादिदेवे तदुपपत्तेः । किञ्चैतानि प्रज्ञात्मत्वादीनि शुद्धे चेदेष ह्येव साधुकर्मेत्याद्ययोगः । विशिष्टे चेदसिद्धिरित्यादिरूपेण दूष्यमित्यर्थः । इदं परेषामनारभ्यमेवेत्याह ॥ इदं चेति ॥ तथा चाभेदवादिभिः कथमिदमारम्भणीयम् । स्वव्याहतत्वादिति भावः ।
पाण्डुरङ्गि
इन्द्रलिङ्गादिति ॥ इन्द्रस्य वचनरूपलिङ्गादित्यर्थः ॥ वायुलिङ्गा-दिति ॥ शरीरधारणरूपवायुलिङ्गादित्यर्थः ॥ जीवलिङ्गादिति ॥ वागादिभिः करणैर् व्यापृतस्य कार्यकारणाध्यक्षस्य जीवस्य विज्ञेयत्वरूपलिङ्गादित्यर्थः । वक्तृत्वं च वाक्करणकव्यापारवत्त्वम् ॥ लिङ्गान्तरं दूष्यमिति ॥ ‘‘स एष प्राण एष प्रज्ञात्माऽऽ-नन्दोऽजरोऽमृतः’’ इत्यादिलिङ्गान्तरमपि दूष्यमित्यर्थः ।