सूत्रक्रमस्तु
सूत्रक्रमसमर्थनम्
तात्पर्यचन्द्रिका
सूत्रक्रमस्तु ॥ आद्ये स्वपक्षहेतूक्तिः । तस्य च ‘‘तद्वै त्वं प्राणः’’ इत्यत्र यथा प्राणो विष्णुस्तथाऽत्रापि प्राणो विष्णुः । तच्छ्रुतिलिङ्गानामस्मिन्प्रकरणे बहुस्थले-ष्वनुगमादित्यर्थः । एवं च ‘‘तद्वै त्वं प्राण इति श्रुताविव’’ इति टीकायाः ‘‘तथा-शब्दस्समुच्चयार्थः’’ इति टीकया सह न विरोधः । द्वितीये ‘‘प्राणो वा अहं’’ इतीन्द्रप्रयुक्ताहंशब्दरूपबाधकोद्धारः । तत्राध्यात्मसम्बन्धभूमशब्दस्य यदा ‘‘प्राण-स्त्वम्’’ इत्यादिभाष्यानुसारेणाध्यात्मशब्दस्य देहार्थत्वस्वीकारेण भगवद्देहभूतेन्द्र-विश्वामित्रादिबह्वात्मसम्बन्धोऽर्थः । अस्मिन्नित्यस्य चैतत्प्रकरण इत्यर्थः । तदेन्द्रे भगवतस्सत्त्वात्तदभिप्रायेण ‘‘प्राणो वा अहम्’’ इत्युक्तिः । अन्यथाऽस्मिन्नेव प्रकरणे ‘‘प्राणस्त्वं प्राणः सर्वाणि भूतानि’’ इति न स्यात् । पूर्वपक्षेऽपि विश्वामित्रादेः प्राणत्वाभावादिति परिहारार्थः । अत एव सूत्रे भूमपदम् । भाष्येऽपि प्राण-स्त्वमित्युपादानम् ।
यदा तु ‘‘अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितः । अधिकात्मनः परमात्मनः सम्बन्धोऽध्यात्मसम्बन्धः’’ इत्यैतरेयभाष्यानुसारेण भगवतः सन्निधान-विशेषोऽध्यात्मसम्बन्धभूमशब्दार्थः । अस्मिन्नित्यस्य चेन्द्र इत्यर्थः । तदेन्द्रे तात्कालिकभगवत्सन्निधानविशेषाभिप्रायेण ‘‘प्राणो वा अहं’’ इत्युक्तिरित्यर्थः । एतच्चैतरेयभाष्योदाहृतात् ‘‘आविष्टो विष्णुनाऽथेन्द्रः प्राणेन सह कौशिकम्’’ इत्यादिब्रह्माण्डवाक्यादवगन्तव्यम् । तृतीये तु तर्हि मयीति स्यादितीदं बाधकोद्धारे यद्बाधकं तदुद्धारः । तत्र च शास्त्रपदं ब्रह्मणः सर्वशास्तृत्वात्तत्तच्छब्दवाच्यता युक्तेति दर्शयितुम् । अत एव भाष्ये ‘‘तत्तन्नाम्नोच्यते विष्णुः सर्वशास्तृत्वहेतुतः’’ इति स्मृतिरुदाहृता । चतुर्थे जीवादिलिङ्गं तदन्तर्यामिनिष्ठमित्यस्यार्थस्य तृतीयेनेन्द्र-प्रयुक्ताहंशब्दस्यान्तर्यामिविषयत्वं वदतोक्तप्रायत्वात् तदनुक्त्वाऽन्तर्यामिकथनं कस्मादिति शङ्कायामन्तरादिभेदेनोपासात्रैविध्यादित्येवोक्तम् ।
प्रकाशिका
हेतूक्तिमेव विवृणोति ॥ तस्येति ॥ श्रुतीति ॥ ब्रह्मेमं पुरुषमित्यादि-ब्रह्मश्रुतिर्देवोपास्यत्वादीनि लिङ्गानि । अनुगमाद् अनुवृत्तेर् अभ्यासादिति यावत् ॥ न विरोध इति ॥ एकार्थत्वादिति भावः । न वक्तुरित्यत्र टीकायां परिहारद्वयस्योक्तत्वा-त्तन्मूलं वदन्परिहारद्वयं स्फुटयति ॥ तत्रेति ॥ ‘‘प्राणस्त्वं प्राणस्सर्वाणि भूतानीति बह्वध्यात्मसम्बन्धोऽत्र विद्यते’’ इति सूत्रभाष्यानुसारेणेत्यर्थः । बह्विति भूमशब्दार्थः ॥ तदेति ॥ विष्णोस्सर्वत्र सत्त्वेन प्राणस्त्वमित्यादिसम्भवादिति भावः । अन्यथा स्वगत-विष्ण्वभिप्रायाभावे ॥ यदा त्विति ॥ ‘‘अध्यात्मसम्बन्धशब्देनावेशो विष्णोरिन्द्रे विवक्षितः । भगवतोऽन्यत्रान्तर्यामिरूपेण सम्बन्धोऽस्त्येव । तस्मिन्निन्द्रे तु विशेषावेश-स्तात्कालिकः । अधिकात्मनः परमात्मनः’’ इत्यैतरेयभाष्यानुसारेणेत्यर्थः ॥ एतच्चेति ॥ तात्कालिकसन्निधानविशेषाभिप्रायेणोक्तमित्येतदित्यर्थः ।
आविष्टो विष्णुनाथेन्द्रो वायुना सह कौशिकम् ।
शंसेत्युक्त्वा निषण्णोऽभूदिदमन्नं तवेति सः ॥
ऋक्सहस्रं शशंसाथ यज्ञाङ्गत्वेन भक्तितः ।
तच्छ्रुत्वा तुष्टिमगमत्केशवो वायुसंयुतः ॥
द्वितीयवारं शंसेति प्राह तं च जनार्दनः ।
प्रीतये शक्रमाविष्टो विश्वामित्रश्शशंस तत् ॥
अतिप्रियत्वाद्भगवान् पुनरप्याह कौशिकम् ।
तृतीयं च शशंसाथ विष्णोरन्नं प्रकल्प्य तत् ॥
ततोऽतितुष्टो भगवान्ददामि वरमुत्तमम् ।
ऊचे स प्रथमे त्वेव निजसालोक्यमीश्वरः ॥
प्रादाद्द्वितीये सामीप्यं तृतीये पुनरेव च ।
वरं ददामीत्युक्त(स्स)स्सन्मुनिः प्राह जनार्दनम् ॥
सम्यक्त्वामेव जानीयामिति मोक्षसुखोच्चताम् ।
इच्छंस्तं प्राह भगवानिन्द्रस्थो वायुसंयुतः ॥
सर्वनामाऽहमस्म्येक इति ज्ञानं ममोत्तमम् ।
यस्मात्सर्वगुणत्वं स्यात्सर्वनामत्व एव तु ॥ इत्यादिनेत्यर्थः ॥
तृतीय इति ॥ शास्त्रदृष्ट्येत्यत्रेत्यर्थः । यदि स्वगतविष्ण्वभिप्रायेण प्राणोऽहमित्युक्ति-स्तर्हि रथे देव इतिवन्मयि प्राण इति स्यादिति यद्बाधकमित्यर्थः । तदुद्धारप्रकारं सूत्रपदेन दर्शयति ॥ तत्रेति ॥ चतुर्थे जीवादिलिङ्गात्तत्प्राप्तिशङ्कायां सत्यां तल्लिङ्गस्यान्यथा-सिद्धिमनुक्त्वा प्रयोजनोक्तिरयुक्तेत्यत आह ॥ चतुर्थ इति ॥ उक्तप्रायत्वादिति ॥ ननु कथं तर्हि परिहारे कृतेऽपि पुनरत्र शङ्केति चेन्मैवम् । प्राणसंवादादिलिङ्गानामन्तर्या-मिनिष्ठता न वक्तुं युक्ता । तस्य तदानीमौदासीन्यावगतेः । तथोक्तौ प्रयोजनाभावाच्चेति विशेषशङ्कोपपत्तेः । अत एव टीकायाम् ‘उदासीनवदास्ताम्’ इति वचनमुदाहृतम् । परिहारस्तु बाह्यरूपाभिप्रायेण वचनं नेयम् । प्रयोजनाभावस्तु नास्ति । अन्तर्बहिस्सर्व-गतत्वेन चोपासनात्रैविध्यार्थत्वात्तस्य चास्मिन्प्रकरणे ‘‘स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत’’ इत्यादिनाऽऽश्रितत्वाच्च तद्योगादित्यनुरोधेन त्रैविध्योपपत्तेश्चेत्यर्थः ।
पाण्डुरङ्गि
एवं चेति ॥ श्रुतिलिङ्गानुगमसाध्यविष्णुत्व एव दृष्टान्ततयोपादाना-दित्यर्थः । अन्यथा दृष्टान्तत्वसमुच्चययोर्विरुद्धनिश्चयसन्देहसापेक्षत्वेन विरोधाट्टीकाविरोधा-पत्तेरिति भावः ॥ अन्यथेति ॥ स्वात्मनः परमात्मदेहत्वाभिप्रायेणेन्द्रेण प्राणस्त्वं प्राण इत्युक्तमित्यस्यानङ्गीकार इत्यर्थः ॥ एतच्चेति ॥ ‘वायुना सह देवेशस्तदा वासवमाविशत्’ इति पूर्ववाक्ये वायुसहितस्य विष्णोः प्रवेशमुक्त्वा ‘आविष्टो विष्णुना’ इत्यनेन वायु-सहितपरमात्मावेशतस् तस्येन्द्रस्य विश्वामित्रे प्रवेश उच्यत इति भावः । ‘तत्राविष्टः’ इत्यत्राविश्यत इत्याविष्टः । कर्मणि क्तः ।