०५ पादसङ्गत्यनुपपत्तिशङ्कापरिहारः

एवं च ‘‘अत एव प्राणः’’ इत्यत्र..

पादसङ्गत्यनुपपत्तिशङ्कापरिहारः

तात्पर्यचन्द्रिका

एवं च ‘‘अत एव प्राणः’’ इत्यत्र तैत्तिरीयस्थप्राणशब्दसमन्वये उक्तेऽपि अत्र पूर्वपक्षे ऐतरेयवाक्यस्थप्राणस्याविष्णुत्वेन तैत्तिरीयस्थस्यापि विष्णुत्वाक्षेपादुभयत्र प्रसिद्धत्वाभावः प्राणशब्दस्य । ‘‘आकाशोऽर्थान्तरत्वादिव्यपदेशात्’’ इत्यत्र तु ‘‘आकाशस्तल्लिङ्गात्’’ इत्यत्रोक्तस्य ‘‘आकाश इति होवाच’’ इति वाक्यस्थाकाश-शब्दो ब्रह्मपर इत्यस्यानाक्षेपादुभयत्र प्रसिद्धत्वम् । अत एव तत्र टीकायां पादान्तरस्थं ‘‘तल्लिङ्गात्’’ इत्यधिकरणमनाक्षिप्यैकपादस्थं द्युभ्वाद्यधिकरणमेवाक्षिप्तम् । नन्वेवं सति ‘‘ज्योतिर्दर्शनात्’’ इत्यत्र टीकायां तच्च ज्योतिर्यदि विष्णोरन्यत्तदा ज्योति-श्चरणाभिधानादिति पूर्वोक्तमप्यन्यत्स्यादित्युक्तत्वादग्निसूक्तेऽपि ज्योतिश्शब्दस्य पूर्वपक्षे विष्णुपरत्वाभावादुभयत्र प्रसिद्धत्वाभावात्तस्य तृतीयपादसङ्गतिर्न स्यादिति चेन्मैवम् । न हि ज्योतिर्दर्शनादित्यत्र ज्योतिर्वह्निरिति पूर्वः पक्षः । येन वह्नौ प्रसिद्धेः स्वतस्सिद्धत्वेनान्यत्र प्रसिद्धता । उभयत्रप्रसिद्धता तु क्वचिद्विष्णुपरत्वेन साध्या स्यात् । किन्तु जीव इति पूर्वः पक्षः । न च जीवे स्वतः प्रसिद्धिरस्ति । ज्ञानात्म-कत्वात्तु जीवे प्रवृत्तिः । तच्च जीववदीश्वरेऽप्यस्तीत्युभयत्र प्रसिद्धता ज्योतिर्दर्शनादित्यत्र ।

‘‘ज्योतिश्चरण’’ इत्यत्र तु वह्निरिति पूर्वपक्षितत्वादन्यत्र प्रसिद्धता । ‘‘कारण-त्वेन’’ इत्यत्र ‘‘ज्योतिरुपक्रमात्’’ इत्यत्र च पूर्वपक्षे पूर्वोक्ताया आकाशज्योति-श्शब्दयोर्विष्णुपरताया अनाक्षेपेऽपि तत्र प्रागनुक्तसमन्वयस्यावान्तरकारणत्वरूपस्य लिङ्गस्यौषध्यादिनाम्नो ज्योतिष्टोमवसन्तादिशब्दस्य च समन्वयोक्तेर्न तयोरुभयत्र प्रसिद्धपादान्तर्भावप्रसङ्गः ।

यद्वा प्राणादिशब्दानां प्राक्समन्वयोक्तावपि लोकसिद्ध्याऽन्यत्र प्रसिद्ध्याऽन्यत्र प्रसिद्धता । आकाशोऽर्थान्तरेत्यत्र त्वाकाशशब्दस्य न पूर्वं समन्वयोक्त्योभयत्र प्रसिद्धता । किन्तु वैनामेति निपातद्योतितप्रसिद्धिव्यावर्त्यत्वेन पूर्वपक्षिणाऽप्य-प्रसिद्धस्य ब्रह्मरूपस्याकाशशब्दवाच्यस्याङ्गीकृतत्वेनेति ज्ञेयम् । तस्मात्पादसङ्गतिः पूर्वपक्षोदयश्च ।

प्रकाशिका

नन्वन्यदेव किञ्चित्प्रयोजनमुच्यतां किं पूर्वोक्तप्राणाक्षेपोपपादन-क्लेशेनेत्यतोऽवश्यं चैतद् अन्यथा तृतीयपादे समन्वीयमानाकाशशब्दस्येव पूर्वोक्तन्याया-न्यत्रप्रसिद्धिभ्यां प्राणशब्दस्योभयत्र प्रसिद्धत्वापत्त्याऽस्याधिकरणस्यैतत्पादासङ्गत्यापत्ते-रित्याह ॥ एवं चेति ॥ यद्वा प्रयोजनोक्तिं समर्थ्येदानीं पूर्वोक्त्यन्यत्रप्रसिद्धिभ्यामाकाश- शब्द इवात्राप्युभयत्रप्रसिद्धत्वापत्त्याऽत्रासङ्गतिमाशङ्क्य पादसङ्गतिं साधयति ॥ एवं चेति ॥ एवमाक्षेपे उभयत्रसिद्धता नेत्येतद्व्यतिरेकमुखेनाह ॥ आकाश इति ॥ अत एवेति ॥ उभयत्रप्रसिद्धार्थत्वलाभादेवेत्यर्थः । अन्यथाऽयमाकाशोऽन्यश्चेत्प्रागुक्तोऽन्य-स्स्यादित्येवोच्येत । ‘‘स च विष्णोरितरश्चेत्सर्वाधारत्वमप्यन्यस्य प्रसज्यते’’ इति नोच्येतेति भावः । पादान्तरेति एकेति च हेत्वन्तरम् । यद्येवं प्राणशब्दस्योभयत्र-प्रसिद्धत्वाभावस्तर्हि ज्योतिश्शब्दस्याप्युक्तन्यायेन तदभावापत्त्या तृतीये निवेशो न स्यादित्याशङ्कते ॥ नन्वेवमिति ॥ तृतीयेति ॥ आद्य एव स्यादित्यर्थः । तत्र पूर्वोक्त्यन्यत्रप्रसिद्धिभ्यां नोभयसाधारण्यं किन्तु प्रवृत्तिहेतुसाधारण्याश्रयेण । अतः पूर्वोक्ताक्षेपेऽपि न क्षतिरिति समाधत्ते ॥ मैवमिति ॥ एवं तर्हि कथमाद्ये ज्योतिश्शब्द-समन्वय इत्यत आह ॥ ज्योतिश्चरणेति ॥ तत्र लोकत एव प्रसिद्धिसत्वादिति भावः ।

ननु यदि प्रागुक्तानाक्षेपेणाकाशोऽर्थान्तरेत्यत्रोभयत्रप्रसिद्धता तर्हि चतुर्थपादे समन्वीयमानयोः ‘‘कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेर् ज्योतिरुपक्रमात्’’ इत्याकाशज्योतिश्शब्दयोरुभयत्रप्रसिद्धता स्यादित्यत आह ॥ कारणत्वेनेति ॥ लिङ्ग-स्येति ॥ ‘अवान्तरं कारणं च’ इत्यणुभाष्योक्तेरिति भावः ॥ ओषधीति ॥ ‘‘पृथिव्या ओषधयः’’ इत्यपि श्रवणादिति भावः ॥ ज्योतिष्टोमेति ॥ यागकालादिवाचिन इत्यर्थः । ननु पूर्वोक्त्यन्यत्रप्रसिद्धिभ्यामुभयत्र प्रसिद्धत्वम् । तच्चात्र प्राणशब्दे नास्ति । पूर्वोक्ते-राक्षेपादित्युक्तमयुक्तम् । अयं प्राणोऽन्यश्चेत्प्राचीनोऽप्यन्य एव न विष्णुरित्याक्षेपायोगेन प्राचीनोऽन्यो वा विष्णुर्वेति शङ्कामात्रत्वात् तस्य चोभयत्र प्रसिद्ध्यविरोधात्स्यादेव तथात्वं प्राणशब्दस्येत्याशङ्क्य पक्षान्तरमाह ॥ यद्वेति ॥ ज्योतिश्शब्देऽपि प्रवृत्तिहेतुसाधारण्यस्य पूर्वपक्षिणोऽभिमतत्वादिति भावः ॥ वैनामेति ॥ नामरूपनिर्वहिता प्रसिद्धाकाश इत्युक्तौ न त्वन्योऽप्रसिद्धाकाश इति गम्यते । न च तदनङ्गीकारे प्रसिद्धाकाश एव तन्निर्वहिते-त्युक्तिर्युज्यत इत्यर्थः । चशब्दात्प्रयोजनं च । युज्यत इति शेषः ।

चन्द्रिकाबिन्दु

प्रयोजनोक्तिसमर्थनेन लब्धां पादसङ्गतिं दर्शयति ॥ एवं चेति ॥ तत्र टीकायाम् उभयत्रप्रसिद्धाकाशाधिकरणटीकायाम् ॥ उभयत्रप्रसिद्धतेति ॥ ज्योतिश्शब्दस्य प्रवृत्तिनिमित्तसाधारण्येनोभयत्रप्रसिद्धता । प्रवृत्तिनिमित्तत्वं तु चिन्त्यमिति भावः । तद्धि चतुर्थपादीयाकाशज्योतिश्शब्दयोरुभयत्र प्रसिद्धता स्यात् । पूर्वाधिकरणेषु विष्णुपरत्वानङ्गीकारादित्यरुच्या आह ॥ कारणत्वेनेत्यत्रेति ॥ ॥ ओषध्यादिनाम्न इति ॥ आकाशाधिकरणे आकाशादिभूतनाम्नां समन्वयस्य साधितत्वात् । पृथिव्या ओषधय इत्यादिनाम्नः समन्वयो व्युत्पाद्य इत्यर्थः ॥ व्यावर्त्यत्वेनेति ॥ प्रसिद्धाकाश-भिन्नाप्रसिद्धाकाशपदवाच्यं किं नेति अङ्गीकर्तव्यमिति श्रुत्या सूचितमिति भावः । लिङ्गानां विष्णौ निरवकाशत्वान् निरवकाशलिङ्गसाहित्यं श्रुतेरभिप्रेतमिति भावः।

॥ इति श्रीसत्यप्रियतीर्थविरचित तात्पर्यचन्द्रिकाबिन्दौ प्रथमाध्यायस्य प्रथमः पादः ॥

पाण्डुरङ्गि

ननु ‘‘तद्वै त्वं प्राणः’’ इत्यत्र प्राणस्य विष्णुत्वमङ्गीकृत्यैतरेयेऽन्य-लिङ्गेनान्यपरत्वमित्येवं पूर्वपक्षसम्भवे किमर्थं तदाक्षेपो वर्ण्यत इत्यत आह ॥ एवं चेत्यादि ॥ अन्यथोभयत्र प्रसिद्ध्यापत्त्या पादासङ्गत्यापातादिति भावः । नन्वेवं कारण-त्वेनेत्यादावधिकसमन्वयेऽपि साक्षात्सूत्रोपात्तज्योतिश्शब्दांश उभयत्रप्रसिद्धता स्यादित्यत आह ॥ यद्वेति ॥ नन्वाकाशशब्दसमन्वयस्यापि ‘‘विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधि-नाम्’’ इत्याद्युक्तरीत्या कारणत्वेनेत्यत्राङ्गीकारात्कथमेतत् । किञ्च ‘ज्योतिर्दर्शनात्’’ इत्यत्रेवात्रापि पूर्वोक्तन्यायेन प्राणशब्दप्रवृत्तिनिमित्तसाधारण्येनास्तूभयत्र प्रसिद्धता । प्रसङ्गादित्यतो वाऽऽह ॥ यद्वेति ॥ पादसङ्गतिरिति ॥ उपलक्षणं चैतत् । प्रयोजनोक्ति-श्चेत्यपि द्रष्टव्यम् ।