नन्वथापि ‘‘प्राचीनोऽप्यन्यः’’ इति प्रयोजनोक्तिरयुक्ता
पूर्वपक्षफलाक्षेपसमाधानम्
तात्पर्यचन्द्रिका
नन्वथापि ‘‘प्राचीनोऽप्यन्यः’’ इति प्रयोजनोक्तिरयुक्ता । आकाशाधिकरणे पूर्वपक्षबीजभूताया भूते प्रसिद्धेर्वाक्यद्वयेऽपि तुल्यतया ‘‘आकाश’’ इति वाक्ये भूतपरत्वे ‘‘यदेषः’’ इति वाक्येऽपि तत्परत्वमिति प्रयोजनसम्भवेऽपि अत्र प्राचीनपूर्वपक्षादत्रत्यपूर्वपक्षे प्राणस्याविष्णुत्वे यो विशेषहेतुस्तदभावादेव प्राचीन-प्राणस्य तत्रत्यसिद्धान्तन्यायेन विष्णुत्वोपपत्तेरिति चेन्मैवम् । यथा प्राभाकरमते कामिनियोज्यान्वयबलाल्लिङादेः स्थायिकार्यार्थत्वे निश्चिते तदन्वयशून्येऽपि नित्याधिकारे तदर्थता । यथा वा मतान्तरे वाक्यशेषेण क्वचिद्यवादिशब्दानां दीर्घ-शूकाद्यर्थत्वे निश्चितेऽन्यत्रापि तदर्थता । तथाऽत्रेन्द्रादिलिङ्गात्प्राणशब्दस्येन्द्राद्यर्थत्वे निर्णीते ‘‘तद्वै त्वं प्राणः’’ इत्यत्रापि तदर्थत्वात् । न चात्रामुख्यवृत्त्येन्द्रादिपरत्वेऽपि तल्लिङ्गोपपत्तिः । ‘तद्वै त्वं प्राणः’ इत्यत्र तु मुख्यवृत्त्या विष्णुपरताऽस्त्विति वाच्यम् । अत्रेन्द्रादौ मुख्यत्वे बाधकाभावात् । न च विष्णौ मुख्यत्वमेव बाधकम् । तस्याद्याप्यसिद्धेः । इन्द्रादौ योगसम्भवात् । मुख्यप्राणे रूढेरपि सत्त्वाच्च । पूर्वपक्षे सर्वत्रापि वैदिकप्रयोगे प्राणशब्दस्येन्द्रादिपरत्वेन विष्णौ विद्वद्रूढेस्तद्व्याप्यमहायोगस्य चाभावाच्च । न चात्र मुख्यवृत्त्येन्द्रादिपरत्वेऽपि पूर्वत्रामुख्यवृत्त्या विष्णुपरता सिद्धान्तिनेष्यते । न चेन्द्रादौ विष्णौ च मुख्यता । सत्यां गतावनेकार्थत्वस्या-न्याय्यत्वात् । न च वाक्यद्वयस्थप्राणशब्दस्य मुख्यवृत्त्यैकार्थत्वे पूर्वपक्षिणं प्रति बाधकमस्ति । येन मासाग्निहोत्रेऽग्निहोत्रशब्दस्येव तत्र विष्णौ प्राणशब्दस्य गौणता स्यात् । अत एवानुव्याख्याने पूर्वपक्षे ‘‘अन्यस्य मुख्यवाच्यत्वं’’ इत्युक्तम् ।
प्रकाशिका
एवं पूर्वपक्षोत्थानं निरवकाशप्रापकोक्त्या समर्थ्येदानीं यद्भाष्यकारोक्तं ‘‘अयं प्राणोऽन्यश्चेत्तद्वै त्वं प्राण इत्युक्तोऽप्यन्यः स्यादिति पूर्वोक्ताक्षेपः पूर्वपक्षे फलं सिद्धान्ते च तत्समाधानं’’ इति तत्र पूर्वपक्षे प्रयोजनोक्तिं समर्थयितुमाक्षिपति ॥ नन्विति ॥ ननु यथा ‘‘आकाश इति होवाच’’ इत्यत्राकाशस्य भूतत्वे ‘‘यदेष आकाशः’’ इति निर्णीतब्रह्मप्रकरणगतस्याप्याकाशस्यान्यत्वं पूर्वपक्षफलं तथाऽत्र किं न स्यादित्यत आह ॥ आकाशेति ॥ य इति ॥ निरवकाशश्रुतिलिङ्गबाहुल्यरूपः ॥ तत्रत्येति ॥ निरवकाशश्रीपतित्वादिलिङ्गेनेत्यर्थः । ‘‘एकत्र निर्णीतश्शास्त्रार्थस्सर्वत्र’’ इति न्यायादत्रत्यस्यान्यत्वेऽन्यत्रापि तथा भवितव्यमित्येतत्सदृष्टान्तमाह ॥ यथेति ॥ ‘‘स्वर्गकामो यजेत’’ इत्यादौ स्वर्गकामं नियोज्यं प्रति क्रिया लिङादिशब्देन कार्यतया बोधयितुमशक्या । कामी हि काम्यादन्यत्काम्याव्यवहितसाधनमेव कार्यतयाऽवैति । न तु व्यवहितसाधनम् । क्रिया च स्थायित्वेन काम्यव्यवहितत्वान्न कामिनियोज्यान्वययोग्या । तृप्तिकामस्य व्यवहितसाधने पाके कार्यताधीस्तु न तृप्तिकामितया किन्तु तृप्तिसाधनौ-दनकामितयैव । अन्यथा सिद्धान्नस्यापि तृप्तिकामस्य व्यवहितसाधने पाके कार्यताधी-स्स्यात् । अतः फलपर्यंतस्थाय्यपूर्वमेव लिङा कार्यत्वेन बोध्यमित्यपूर्वं लिङ्वाच्यमिति कामाधिकारे नियोज्यान्वयसामर्थ्याल्लिङादेस्स्थाय्यपूर्वशब्दितकार्यार्थत्वे निश्चिते ‘‘अहरह-स्सन्ध्यामुपासीत’’ इत्यादौ नित्ये कर्मणि कामाश्रवणेन नियोज्यान्वयशून्येऽप्येकत्र निर्णीतश्शास्त्रार्थः परत्रेति तत्रापि तथैवाङ्गीकृतम् । तद्वदित्यर्थः ॥ यथा वेति ॥ मतान्तरे भट्टादिमते । यववराहाधिकरणमुक्तं जन्माधिकरणे । ‘‘यवमयश्चरुर्भवति’’ इत्यादौ ‘‘यत्रान्या ओषधयो म्लायन्ते एते मोदमाना इवोत्तिष्ठन्ति’’ इति वाक्यशेषाद्दीर्घ-शूकाद्यर्थत्वे निश्चिते ‘‘यवान्पच, यवैर्यजेत’’ इत्यादौ यथा तदर्थत्वं तद्वदित्यर्थः । नन्वेकत्र निर्णीत इत्यस्यानुसरणेऽपि न प्रयोजनोक्तिर्युज्यते ।
ऐतरेयके यथा वाय्वादित्रितयप्रापकसत्त्वेन त्रितयपरत्वमुच्यते तथा विष्णुलिङ्गादेरपि सत्त्वेन तत्परत्वस्यापि सम्भवात् । तत्रान्तर्नयेऽभेदनिरसनेन विष्णोरिन्द्रादिनैक्यायोगेऽपि चतुर्थपादीयोदाहरणेषु ‘‘अव्यक्तात्पुरुषः पर’’ इत्यादिषु मुख्यतो विष्णुपरत्वम-मुख्यतोऽन्यपरत्वमङ्गीकृतम् । अन्यथा तारतम्याद्यसिद्धेः । तद्वदत्रापि मुख्यतो विष्णु-परत्वेऽप्यमुख्यवृत्त्येन्द्रादिपरत्वाङ्गीकारमात्रेणापीन्द्रादिलिङ्गाद्युपपत्तेः प्राक्तनस्यापि मुख्यतो विष्णुपरत्वस्य वा इन्द्रादिलिङ्गानां बलवत्त्वेनात्र मुख्यत इन्द्रादिपरत्वेप्य-मुख्यवृत्त्या विष्णुपरत्वेन पूर्वतनस्याप्यमुख्यतो विष्णुपरत्वस्य वा विष्णुतदन्यप्रापक-सत्त्वाविशेषेण मुख्यवृत्त्योभयपरत्वस्यात्रैतरेयके सम्भवेन प्राचीनस्यापि मुख्यत उभय-परत्वस्य वा ऐतरेयगतस्य प्राणस्य मुख्यवृत्त्येन्द्रादिपरत्वेऽपि तैत्तिरीयगतस्य मासाग्नि-होत्रेऽग्निहोत्रशब्दस्येव गौण्या वृत्त्या विष्णुपरत्वस्य वा पूर्वत्र श्रीपतित्वादिविष्णुलिङ्गेन विष्ण्वर्थत्वस्य निश्चितत्वेनात्रापि तदर्थत्वापत्त्या वैपरीत्यस्यैव वा सम्भवेन पञ्चधा विष्णुपरत्वाक्षेपायोगादित्याशङ्क्याद्यं तावन्निरस्यति ॥ न चात्रेति ॥ ऐतरेयक इत्यर्थः ॥ बाधकाभावादिति ॥ ‘‘अव्यक्तात्पुरुषः परः’’ इत्यादावन्यस्य मुख्यत्वे बाधकं वक्ष्यत इति भावः ।
ननु प्रागुक्तरीत्या प्राणशब्दस्य विष्णौ मुख्यत्वं वा इन्द्रादौ योगरूढ्योरसत्त्वं वा विष्णौ प्रयोगबाहुल्यलब्धविद्वद्रूढिमहायोगसत्त्वं वा बाधकमित्याशङ्क्य क्रमेण निरस्यति ॥ न चेति ॥ अद्यापीति ॥ प्रागुक्तस्यापीहाक्षेपादिति भावः ॥ योगेति ॥ प्रणेतृत्वादेः खण्डितैश्वर्ययुतेऽपि सत्त्वादिति भावः ॥ सर्वत्रेति ॥ ‘‘प्राणस्य प्राणः, प्राण एवाकरणः’’ इत्यादै ॥ तद्व्याप्येति ॥ ‘‘विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते’’ इत्युक्तेरिति भावः । द्वितीयं पक्षं निरस्यति ॥ न चात्रेति ॥ ऐतरेये मुख्यवृत्त्येन्द्रादि-परत्वेऽप्यमुख्यतो विष्णुपरत्वाङ्गीकारेण प्राचीनस्य तथात्वं सिद्धान्तिनोऽनभिमतमित्यर्थः । तृतीयं निरस्यति ॥ न चेन्द्रादाविति ॥ अस्य प्राक्तनस्य चेत्यर्थः ।
ननु ‘‘राजा कुवलयोल्लासी’’ इत्यादाविव किं न स्यादित्यत आह ॥ न चेति ॥ तत्र वक्तृविवक्षादिविरोध इव प्रकृते बाधकाभावादिति भावः । यद्वाऽस्य मुख्यवृत्त्येन्द्रादि-परत्वेऽपि गौण्या वृत्त्या प्राचीनो विष्णुस्स्यादिति चतुर्थपक्षं दृष्टान्तवैषम्योक्त्याऽपाकरोति ॥ न च वाक्येति ॥ ऐतरेयतैत्तिरीयस्थेत्यर्थः । सप्तमे ‘‘उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशस्स्यात्’’ इति तृतीयपादीयाद्याधिकरणे कुण्डपायिनामयने श्रुतं ‘‘मासमग्निहोत्रं जुहोति’’ इति वाक्यमुदाहृत्य किमग्निहोत्रशब्दो नैयमिकाग्निहोत्रधर्माणामतिदेशको नेति संशये उभयत्रापि जुहोतिसामानाधिकरण्येन निर्देशाविशेषान्नामधेयत्वेन मुख्यत्वान्न धर्माणामतिदेशक इति प्राप्ते एकत्र मुख्यत्वेऽन्यत्र गौणत्वेनाप्युपपत्तावुभयत्र शक्ति-कल्पनस्यान्याय्यत्वान् नित्याग्निहोत्रेऽग्नये होत्रमस्मिन्निति प्रवृत्तिनिमित्तसम्भवेन नैयमिके मुख्यत्वादन्यत्र तत्सादृश्यविधित्सया गौण इति तद्धर्मातिदेशक इति सिद्धान्तितम् । तत्र यथा नैयमिकमासाग्निहोत्रयोः प्रकरणभेदेन भेदस्य द्वितीये निश्चितत्वान्मासाग्निहोत्रे प्रवृत्तिनिमित्ताभावेनानेकार्थस्यान्याय्यत्वेन च बाधकेन गौणत्वमुक्तम् । न च तथाऽत्र किञ्चिद्बाधकमस्ति । प्रत्युतैकार्थत्वं मुख्यवृत्तिकत्वं चाश्रितं भवतीत्यर्थः ॥ अत एवेति ॥ वाक्यद्वयस्थप्राणशब्दस्य मुख्यवृत्त्यैकार्थत्वे बाधकाभावादेव ‘‘बाहुल्यात् श्रुतिलिङ्गयोः । अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि’’ इत्युक्तमित्यर्थः । इदमाद्यपक्षेऽपि ज्ञापकतया योज्यम् ।
चन्द्रिकाबिन्दु
एवं गतार्थत्वपरिहारे प्रयोजनोक्तिरयुक्तेत्याक्षिपति ॥ ननु अथापीति ॥ यो विशेषहेतुरिति ॥ इन्द्रादिलिङ्गादीनां निरवकाशलक्षणः ‘तथा हि’ इत्यादिना पूर्वमुपपादितो यः स इत्यर्थः ॥ कामीति ॥ कामी यो नियोज्य इति सामानाधिकरण्यम् । नियोज्यत्वं नियोगविषयत्वमात्रमिति कामित्वाद्भेदः । तदन्वयेति । कामिनियोज्यत्वान्वयशून्ये अहरित्यादिवाक्येऽपीत्यर्थः । मतान्तरे भट्टमते ॥ अत्र एतदधिकरणविषयवाक्ये ॥ न चात्रेति ॥ तथा चामुख्यैतत्प्राणशब्दानुसारेण सर्वप्राण-
शब्दस्य मुख्यार्थस्यान्यथानयनमयुक्तमिति भावः । तथापि मुख्यत्वमेवेत्याह ॥ अत्रापीति ॥
ननु वाक्यान्तरे विष्णुविषयकप्राणशब्दप्रयोगबलाद्विद्वद्रूढ्यादिना विष्णौ प्राणशब्दस्य मुख्यत्वमेव किं न स्यादित्यत आह ॥ सर्वत्रापीति ॥ तद्व्याप्येति ॥ यद्यपि प्रयोगादेव लभ्यत इति वाक्यानुसारेण प्रयोगस्य व्यापकत्वमेव ज्ञायते । तथापि समव्याप्त्यभि-प्रायेणोक्तमिति ध्येयम् । सत्यामपि सर्वत्र प्राणशब्दमुख्यार्थत्वादिन्द्रादीनामेवेत्यादि-गतार्थत्वादित्यर्थः ॥ अन्यस्येति ॥ इन्द्रप्राणादेरित्यर्थः ॥
पाण्डुरङ्गि
कामिनियोज्येति ॥ कामीचासौ नियोज्यश्चेति कर्मधारयः । मतान्तरे भट्टमत इत्यर्थः । विष्णौ मुख्यत्वं बाधकमिति वदन्प्रष्टव्यः । इन्द्रादौ प्राणशब्दस्य लाक्षणिकत्वेन योगरूढ्योरभावाद्ब्रह्मणि च रूढियोगयोः सत्त्वान्न तत्र मुख्यत्वमिति वा किं वेन्द्रादौ रूढियोगयोस्सद्भावेऽपि विष्णौ विद्वद्रूढिमहायोगयोस्सद्भावेन तत्र मुख्यत्व-मिति वा । नाद्य इत्याह ॥ इन्द्रादावित्यादि ॥ न द्वितीय इत्याह ॥ पूर्वपक्ष इति ॥ सिद्धान्तिनेति हेतुगर्भविशेषणम् । तथात्वे तदुक्तगुणालाभेन समन्वयकथनवैयर्थ्यं स्यादिति भावः । यावज्जीवकाग्निहोत्रेऽग्निहोत्रशब्दस्य मुख्यत्वेऽपि मासाग्निहोत्रेऽमुख्यत्ववत् प्राणशब्दस्यापि मुख्यप्राणे मुख्यत्वेऽपि विष्णावमुख्यत्वस्यैव न्याय्यत्वात्कथमनेकार्थत्व-मन्याय्यमित्यतो वैषम्येण परिहरति ॥ न चेति ॥ तत्र ‘तद्वै त्वं प्राणः’ इत्यत्रेत्यर्थः ।