न च पूर्वत्र प्रसिद्ध्यवलम्बेन श्रुत्या पूर्वपक्षे लिङ्गैः सिद्धान्तः
अतीतप्राणाधिकरणेनागतार्थतावर्णनम्
तात्पर्यचन्द्रिका
न च पूर्वत्र प्रसिद्ध्यवलम्बेन श्रुत्या पूर्वपक्षे लिङ्गैः सिद्धान्तः । अत्र तु लिङ्गैः पूर्वपक्षे श्रुतिलिङ्गाभ्यां सिद्धान्तः । अत एव तत्र पूर्वपक्षे भाष्ये ‘प्रसिद्धेः’ इत्युक्तम् । अत्र तु सूत्रे ‘लिङ्गात्’ इत्युक्तमिति वाच्यम् । श्रुत्या प्राप्तस्य पूर्वपक्षस्य लिङ्गमात्रेण बाधितस्य पुनर्विरोधिश्रुतिलिङ्गबाधेन लिङ्गैरुज्जीवनासम्भवात् । न च श्रुतिबाहुल्या-दुज्जीवनम् । तद्बाहुल्यप्राप्तस्यापि पूर्वपक्षस्य १(द्विधा) गायत्र्यधिकरणे निरासात् । न च तत्र गायत्रीवाक्पृथिव्यादिश्रुतयो भिन्नविषयाः । अत्र तु ‘‘चक्षुः श्रोत्रं मनो-वाक्प्राणः । तत्प्राणे प्रपन्न उदतिष्ठत् स एष प्राणः’’ इत्यादावेकैव प्राणश्रुतिरावृत्तेति वाच्यम् । तत्रापि ‘‘गायत्री वा इदं सर्वं वाग्वै गायत्री सैषा षड्विधा गायत्री’’ इति श्रवणात् । आकाशाधिकरणविषयवाक्य आकाशश्रुतेरेवावृत्तेश्च ।
न च श्रुतिलिङ्गबाहुल्यादुज्जीवनम् । अत एवानुव्याख्याने ‘‘बाहुल्यात् श्रुतिलिङ्गयोः’’ इत्युक्तम् । इह भाष्ये टीकायां च लिङ्गमात्रोक्तिः पूर्वपक्षोपक्रममात्रमिति वाच्यम् । इन्द्रे ‘‘इन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच प्राणो वा अहमस्मि’’ इत्यादिश्रुतीनां, महाव्रतयाजित्वादिलिङ्गानां, मुख्यप्राणे प्राणादिश्रुतीनां, ‘‘ता अहिंसन्त’’ इति प्राणसंवादादिलिङ्गानाम् । जीवे ‘‘पुरुष-रूपेण य एष तपति स एष पुरुषः समुद्रः’’ इत्यादिश्रुतीनां ‘‘तावन्ति शतसंवत्सर-स्याह्नां सहस्राणि भवन्ति’’ इति शतसंवत्सरत्वादिलिङ्गानां च बाहुल्येऽपि इन्द्रादिश्रुतेः ‘अन्तः’ इत्यत्र प्राणश्रुतेश्च ‘अत एव प्राणः’ इत्यत्र पुरुषश्रुतेश्च गायत्र्यधिकरणे सावकाशितत्वेन लिङ्गानां च विष्णौ प्रवृत्तप्रबल श्रुत्यनुसारेणान्त-रधिकरणपूर्वपक्षोक्तानामपां नेतृत्वादिलिङ्गानामिव विष्णौ प्रवर्तनीयत्वेन सम्भावितावकाशतया बहुविष्णुश्रुतिबाधकत्वायोगात् ।
प्रकाशिका
अथ तद्बहुत्वमिति चेत्तत्किं लिङ्गबाहुल्यमुत श्रुतिबाहुल्यमिति विकल्प्याद्यमाशङ्क्य निरस्यति ॥ न चेति ॥ लिङ्गैः श्रीपतित्वादिलिङ्गैः ॥ लिङ्गैरिति ॥ प्राणसंवादादिभिः । सौत्रैकवचनं समुदायाशयमिति भावः ॥ श्रुतीति ॥ ब्रह्मश्रुत्या सर्वदेवोपदेश्यत्वादिलिङ्गेन च बाधेनेत्यर्थः । द्वितीयमाशङ्क्य निरस्यति ॥ न चेति ॥ तद्बाहुल्यप्राप्तस्येति ॥ ‘‘कथं प्रसिद्धबहुलशब्दानामन्यथार्थता’’ इत्युक्तेरिति भावः । ननु तत्र श्रुतिबाहुल्यप्राप्तस्य विष्णुश्रुतिलिङ्गबाहुल्येन निरासः । ‘‘बाहुल्यात् श्रुतिलिङ्गयोः’’ इत्यनुव्याख्यानोक्तेरिति चेदिहापि सिद्धान्ते श्रुतिलिङ्गबाहुल्यसत्त्वादिति तात्पर्यात् । पूर्ववैषम्यमाशङ्क्य तौल्यमाह ॥ न चेति ॥ स एष इति ॥ ‘‘स एषोऽसुस्स एष प्राणः स एष भूः’’ इति वाक्यमुपादत्ते । ननु न गायत्र्यधिकरणे श्रुत्या वृत्तिप्रयुक्तपूर्वपक्षस्य निरासः । आकाशाधिकरण एव तस्य निरासात् । अन्यथा पौनरुक्त्यापत्तेः । अत एव प्राग्गायत्रीवाक्पृथिव्यादिश्रुतय एव दर्शिताः । सुधायां च ‘‘गायत्री वा इदं सर्वं वाग्वै गायत्रीत्यादयः प्रसिद्धा बहवश्शब्दाश्श्रूयंते’’ इत्युक्तम् । टीकायां च ‘‘वाक्त्व-विधानाच्च’’ इत्युक्तमिति न गायत्र्यधिकरणेन पौनरुक्त्यमित्यतस्तर्ह्याकाशाधिकरणेन तत्स्यादित्याह ॥ आकाशेति ॥ श्रुत्यभ्यासप्राप्तस्यापि तत्रैव निरासान्न तेनेह पूर्वपक्षोदय इति भावः । ननु तत्र निरवकाशत्वपरत्वबहुत्वप्रयुक्तप्राबल्यैर्लिङ्गैर्निरासः । उक्तं च–
द्वाभ्यामावृत्तिजातिभ्यामेव हि प्रबला श्रुतिः ।
अगतित्वपरत्वानेकत्वैर्लिङ्गं न तु त्रिभिः ॥ इति ।
न चेह लिङ्गानि तादृशानि । वक्ष्यमाणदिशा बाहुल्यादौ सत्यपि परत्वायोगादिति चेद् बहुत्वेन प्रबलानां लिङ्गानां जात्या बहुत्वेन च प्रबलवैष्णवश्रुतियुक्तत्वेन सुतरां तद्विरोधित्वात् । यद्वा तत्रापि निरवकाशत्वादिप्रयुक्तप्राबल्यमाश्रित्यैव श्रुत्यावृत्तिप्राप्तस्य निरासः । परत्वं तु वास्तवमभिप्रेत्य वाऽनुपसंजातविरोधित्वेन वाऽऽकाशश्रुतेः प्राबल्य-शङ्कायां तन्निरासाय ‘‘प्रथमे श्रवणात्’’ इति वक्ष्यमाणन्यायेन परत्वस्य प्राबल्यहेतुत्व-मभिप्रेत्य वेति तात्पर्यात् । अत्रापि केषाञ्चित्परत्वसम्भवाच्चेति । तृतीयमाशङ्क्य निरस्यति ॥ न चेति ॥ उज्जीवनं पूर्वपक्षस्येत्यनुषङ्गः । ‘‘इन्द्रियैस्सहाभिधानात्’’ इति भाष्येण ‘‘एतत्प्राणस्येन्द्रियगणे गणितत्वात्’’ इति टीकया चैतद्विरुद्धमित्यत आह ॥ इहेति ॥ त्वदभिमतश्रुत्यादीनां विष्णौ सावकाशत्वान्न तद्बाहुल्यमपि पूर्वपक्षप्रापकमिति भावेनेन्द्र-मुख्यजीवश्रुत्यादिबाहुल्यं स्फुटयन्नाह ॥ इन्द्र इत्यादि ॥ विषयसप्तम्य इमाः ॥ याजित्वादीति ॥ ‘‘इन्द्रो वै वृत्रं हत्वा महानभवत्’’ इत्यादि वाक्योक्तमहाव्रतयाजित्वा-दीनां ग्रहः ॥ प्राणसंवादादीति ॥ चक्षुरादिसहपाठोत्क्रमणप्रवेशतन्निमित्तदेह-पातोत्थानादिरादिपदार्थः ॥ इत्यादीति ॥ ‘‘स एष पुनः पञ्चविधः’’ इत्यादिरादिपदार्थः ॥ शतसंवत्सरत्वादीति ॥ ‘‘प्राणो वंश इति विद्यात्’’ इत्युक्तप्राणवंशत्वादिरादिपदार्थः ॥ विष्णौ प्रवृत्तेति ॥ विष्णौ प्रसिद्धब्रह्मशब्दादिश्रुत्यनुसारेणेत्यर्थः । यद्यप्यम्नेतृत्वमिति वक्तव्यं तथापि श्रुत्यनुवादायैवमुक्तम् ॥ बहुविष्णुश्रुतीति ॥ ब्रह्मादिश्रुतेरत्र बहुधाऽऽ-वृत्तत्वादिति भावः ।
चन्द्रिकाबिन्दु
पूर्वपक्षप्राप्तिनिरासप्रकारभेदेनाधिकरणभेदमाशङ्क्य निराकरोति ॥ न चेति ॥ लिङ्गैर् मुख्यप्राणजीवादिलिङ्गैः ॥ विरोधीति ॥ सिद्धान्तीयश्रुति-लिङ्गोभयबाधेनेत्यर्थः । समानाकारश्रुतिबाहुल्यमेव श्रुतिबाहुल्यपदेन विवक्षितमित्याशङ्क्य निराकरोति ॥ न च तत्रेति ॥ तथा च गायत्र्यधिकरणेन गतार्थत्वमित्याशयः ॥ न च श्रुतिलिङ्गबाहुल्यादिति ॥ तथा च पूर्वाधिकरणद्वयेनापि गतार्थतेति भावः ॥ श्रुतिलिङ्ग-बाहुल्यावलम्बनेऽपि गतार्थत्वं तदवस्थमेवेत्याह ॥ इन्द्रादिश्रुतेरिति ॥
पाण्डुरङ्गि
द्विधा गायत्र्यधिकरणे निरासादिति । एकस्या वह्निश्रुतेरन्यत्र प्रसिद्धिबाधेऽपि गायत्रीवाक्पृथिव्याद्यनेकशब्दानामन्यत्र प्रसिद्धिबाधोऽयुक्त इति श्रुति-बाहुल्यप्राप्तस्य पूर्वपक्षस्य तत्तच्छब्दवाच्यत्वेनोपासनार्थमित्येकः प्रकारः । द्वितीयस्तु ‘‘ततो ज्यायांश्च पुरुषः, यद्वै तद्ब्रह्म एतामेव ब्रह्मोपनिषदं वेद’’ इत्यादिश्रुतीनां गानत्राणकर्तृत्वं भूतादिपादत्वं, ‘एतामेव नातिशीयन्ते’ इति सर्वोत्तमत्वमित्यादिलिङ्गानां बाहुल्यादनेकेषा-मपि शब्दानां प्रसिद्धार्थत्याग इत्येवं प्रकारद्वयेन गायत्र्यधिकरणे निरासादित्यर्थः ।