अत्र श्रुतिलिङ्गबाहुल्येन ..
सङ्गतिचिन्तानिरूपणम्
तात्पर्यचन्द्रिका
॥ ओं प्राणस्तथानुगमाद् ओम् ॥
अत्र श्रुतिलिङ्गबाहुल्येन गायत्र्यधिकरणसिद्धान्तन्यायेन पूर्वपक्षप्रवृत्तेरनन्तर-सङ्गतिः । अत्र प्राणः किं मुख्यवाय्वादिः किं वा विष्णुरिति चिन्ता । तदर्थं किं वाय्वादिश्रुत्याद्यनुसारेण विष्णुश्रुत्यादि नेयमुत विपरीतमिति । तदर्थं किं वाय्वादिश्रुत्यादिकं निरवकाशं विष्णुश्रुत्यादिकं तु सावकाशमुत विपरीतमिति । ननु ‘‘अत एव प्राणः’’ इत्यनेन गतार्थमिदम् । न च पूर्वत्र प्राणशब्दो वायुपरो नेत्युक्तम् । इह त्विन्द्रजीवपरो नेत्युच्यत इति भेदः । इह सूत्रे मुख्यप्राणपदायोगात् । न च पूर्वत्र वायुपरत्वस्यैव निरासः । इह त्विन्द्रजीववायुपरत्वानामिति भेदः । अस्य बहुविषयस्य तेनागतार्थत्वेऽप्यनेन तस्याल्पविषयस्य गतार्थत्वात् । निरासकन्यायभेदं विना निरसनीयभेदमात्रेणाधिकरणभेदासिद्धेश्च ।
प्रकाशिका
नन्विदमेतदधिकरणभाष्यदिशा पूर्वप्राणाधिकरणसङ्गतं भाति । तदयुक्तमेव । तथात्वे तदानन्तर्यस्यैव प्राप्तेरित्यतस्सुधोक्तदिशा गायत्र्यधिकरणेन सङ्गतिलाभादत्र निवेश इति भावेनाह ॥ अत्रेति ॥ सङ्गतिरिति ॥ आपवादिकीत्यर्थः । ‘‘पूर्वसिद्धान्ततो यत्र पूर्वपक्षः प्रवर्तते । तत्रापवादिकी’’ इत्यादेः । यद्वा पूर्वसिद्धान्तोप-जीवनादुपजीव्योपजीवकत्वरूपेत्यर्थः । एतेनान्यप्रापकश्रुतिलिङ्गबाहुल्योपेताश्शब्दा उदाहरणमिति सूचितं, सूत्रस्योपलक्षणार्थत्वादिति ध्येयम् । एतच्चाग्रे स्पष्टीभविष्यति । भाष्यं तु ‘‘मनोवाक्प्राणः’’ इत्यत्र प्राणो विष्णोरन्यश्चेत्तदा प्राक्तनोऽप्यन्य इति शङ्का स्यादिति तस्य विष्णुत्वावधारणार्थत्वात् सफलेयं चिन्तेति प्रयोजनपरं व्याख्येयमिति भावः । यद्यपि ‘‘सर्वे वेदाः’’ इति सर्ववेदप्रतिपाद्यत्वस्याप्यन्यनिष्ठत्वेन शास्त्रयोनित्व-मप्यन्यस्येति शङ्कासमाधानमपि प्रयोजनं शक्यं वक्तुं भाति तथापि तस्यानन्दमयाधि-करणानाक्षेपकत्वात्तदाक्षेपायैवमुक्तम् । समन्वीयमानप्राणशब्दमुखाक्षेपस्य ततोऽप्यन्त-रङ्गत्वाच्चेति ध्येयम् । समर्थयिष्यते चैतत्प्रयोजनम् ॥ अत्रेति ॥ ऐतरेयके ‘‘ता एताश्शीर्षंच्छ्रियश्श्रिताश्चक्षुश्श्रोत्रं मनोवाक् प्राणः’’ इत्यारभ्य बहुस्थलेषु श्रुतः प्राणो विषय इत्यर्थः । आदिपदेनेन्द्रो जीवश्च ग्राह्यः ॥ वाय्वादीति ॥ वक्ष्यमाणवाय्विन्द्रजीव-प्रापकश्रुतिलिङ्गानुसारेणेत्यर्थः ॥ विष्णुश्रुतीति ॥ ‘‘ब्रह्मेमं पुरुषम्’’ इति ब्रह्मशब्दा-दीत्यर्थः । अत्र फलफलिभावः स्फुटः ।
‘‘ननु गतार्थमिदमधिकरणम् । सर्वासां प्राणविद्यानां ‘‘अत एव प्राणः’’ इत्यनेनैव भगवद्विषयतायास्समर्थितत्वात्’’ इति न्यायविवरणटीकां विवरितुमाक्षिपति ॥ नन्विति ॥ प्राणशब्दस्य विष्णौ तत्रैव मुख्यत्वसाधनादिति भावः । न च वाच्यं तत्र ‘‘तद्वै त्वं प्राणः’’ इत्येतदुदाहरणमत्र तु‘‘ता वा एताः’’ इत्यादीति । उदाहरणभेदेनाधिकरण-भेदेऽतिप्रसङ्गादित्युक्तत्वात् । अथापि निरसनीयभेदाद्वा पूर्वपक्षप्रापकन्यायभेदाद्वा भेदो भविष्यतीत्यतो निरसनीयभेदं तावदाशङ्क्य निरस्यति ॥ न चेति ॥ इहाधिकरणे ‘‘जीवमुख्यप्राणलिङ्गात्’’ इति सूत्र इत्यर्थः ॥ निरासकन्यायेति ॥ अन्यथाऽऽनन्द-मयाधिकरणादावनेकत्वप्रसङ्ग इति भावः । अस्तु तर्हि प्रापकभेदाद्भेद इति चेन्न । तच्छ्रुतिमात्रं लिङ्गमात्रं वा ब्रह्मश्रुतिलिङ्गयोर(रभावात्)पि भावात् ।
चन्द्रिकाबिन्दु
जीवपर इति । इदं च द्वितीयतृतीयसूत्राभिप्रायेणेति ज्ञातव्यम् । सूत्रे जीवमुख्यप्राणलिङ्गादिसूत्रे ।