अत्रोभाभ्यामुक्तं चतुस्सूत्र्येकमधिकरणम्
अद्वैतविशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
अत्रोभाभ्यामुक्तं चतुस्सूत्र्येकमधिकरणम् । चरणाभिधानादित्यस्य च पादाभि-धानादित्यर्थः । पादाभिधानं च ‘‘अथ यदतः’’ इति छान्दोग्यगतमेव । तत्र ‘‘तदे-तदृचाऽभ्युक्तम् । पादोऽस्य सर्वाभूतानि त्रिपादस्यामृतं दिवि’’ इति पादाभिधा-नादिति । तत्र लाघवार्थं श्रुत्यनुगमार्थं च पादाभिधानादिति सूत्रं स्यादिति सुधायामेवोक्तम् । किञ्चास्मद्रीत्या ‘‘हृदय आहितं यत्’’ इति गुहानिहितत्वयुक्त-ज्योतिर्वाक्योदाहरणेनानन्दमयाधिकरणाक्षेपेण पूर्वपक्षसम्भवे तदनाक्षेपेण ‘‘अथ यदतः’’ इति वाक्योदाहरणमयुक्तम् । किञ्च
पौनरुक्त्यं परमते ज्योतिर्भूतादिसूत्रयोः ।
पादोपदेशादन्या हि नैवास्ति चरणाभिधा ॥
पादोऽस्य सर्वाभूतानीति पूर्ववाक्यस्थपादाभिधानादन्यस्य ज्योतिर्वाक्ये पादाभिधानस्याभावात्तस्य च भूतादिसूत्रेणैवोक्तत्वाच्चरणाभिधानादित्यस्य पौन-रुक्त्यम् । अथ ‘‘चरणाभिधानात्’’ इत्यनेन ‘‘पादोऽस्य सर्वाभूतानि’’ इति मन्त्र-वाक्यस्थं सर्वभूतानामेकपादत्वममृतस्य त्रिपात्त्वं चोच्यते । ‘‘भूतादिपाद’’ इत्यनेन तु ‘‘सैषा चतुष्पदा’’ इति ब्राह्मणवाक्यस्थं भूतपृथिवीशरीरहृदयानां पादत्वमुच्यते । ब्राह्मणवाक्ये हि ‘‘इदं सर्वं भूतम्’’ इति भूतं ‘‘येयं पृथिवी’’ इति पृथिवीं ‘‘यदि-दमस्मिन्पुरुषे शरीरम्’’ इति शरीरं ‘‘यदिदमस्मिन्नंतःपुरुषे हृदयम्’’ इति हृदयं चोक्त्वा ‘‘सैषा चतुष्पदा षड्विधा गायत्रि’’ इति भूतादीनां चतुर्णां पादत्वं व्यपदिश्यते । ततो न पौनरुक्त्यमिति चेन्न । ‘‘चरणाभिधानात्’’ इत्यनेन ‘‘पादोऽस्य सर्वाभूतानि त्रिपादस्य’’ इति मन्त्रस्थपादाभिधानद्वयस्येव ततोऽधि-कार्थस्य ब्राह्मणस्थपादाभिधानस्यापि वक्तुं शक्यत्वेन भूतादिसूत्रवैयर्थ्यात् । अपि च त्वत्पक्षे हि ब्रह्मणस्तत्तत्पादत्वं तत्तदात्मकत्वम् । तथा च सर्वात्मकत्वं चरणाभिधानादित्यनेनैवोक्तमिति किं तदेकदेशभूतभूताद्यात्मकत्वप्रतिपादकेन भूतादिसूत्रेण । किञ्च चतुष्पदेत्यत्र चतुश्शब्दो न भूतादिपरः । पूर्ववाक्ये भूतादिवत् ‘‘वाग्वै गायत्री वाग्वा इदं सर्वम्’’ इति वाचः ‘‘अस्मिन्हीमे प्राणाः प्रतिष्ठिताः’’ इति प्राणानां चोक्त्या भूतादीनां षट्त्वेन चतुष्ट्वायोगात् । अत एव श्रुतौ षड्विधेत्युक्तम् ।
न च वाच्यं भूतादीनां वाक्प्राणरहितानां चतुर्णां पादत्वं तत्सहितानां तु षण्णां विधात्वमिति । पादशब्देन तदात्मकत्वविवक्षायां वाक्प्राणयोरपि तदात्मकत्वा-द्विधाषट्कान्तर्गतस्य भूतादिचतुष्टयस्य पृथक्कृत्य पादत्वोक्तेर्निष्फलत्वात् । उपासनार्थं ब्रह्मणि भूतादीनां चरणत्वारोपश्चेद्गायत्र्याख्यछन्दस्येव स स्यादिति गायत्री ब्रह्मेति सिद्धान्तासिद्धिः । तस्मात् ‘सैषा’ इत्यत्र न पूर्ववाक्यस्थानां भूतादीनां पादत्व-मुच्यते । किन्तु षाड्विध्यमनूद्य चतुष्पदत्वं विधाय तद्विवरणाय पादोऽस्येत्यादि ऋगुदाहृता । अन्यथा मन्त्रब्राह्मणयोर्भिन्नार्थत्वाद्ब्रह्मणोक्ते ‘‘तदेतदृचाऽभ्युक्तम्’’ इति मन्त्रसम्मतिर्न स्यात् । ‘‘त्रिपादस्यामृतं दिवि पादोऽस्य’’ इति पादशब्दनिर्दिष्टे चतुष्टये सति तदनिर्दिष्टस्य भूतपृथिव्यादेः पादचतुष्टयत्वायोगाच्च । ‘दिवि दिवः’ इति विरुद्धविभक्तिसहितद्युप्रातिपदिकार्थसम्बद्धस्यैक्यं तद्रहितचतुस्सङ्ख्यासम्बद्धानां तु मंत्रब्राह्मणस्थपादानां भेद इत्यस्यात्यंतायुक्तत्वाच्च ।
प्रकाशिका
उभाभ्यामिति ॥ औतिरामानुजाभ्यामित्यर्थः । तत्र सूत्रार्थविषय-वाक्ययोर्दूषणेनैवाधिकरणशरीरं दूषितं मन्वानः प्रथमसूत्रार्थं निरसितुमनुवदति ॥ चरणेति ॥ ननु न पादाभिधानं ‘विमे कर्ण’ इति वाक्येऽस्तीत्यतो नेदमुदाहरणमिति भावेनाह ॥ पादेति ॥ चतुष्पदेति भूतादिसूत्रोक्तपादाभिधानभ्रान्तिं निरसितुम् । तद्विवृणोति ॥ तत्रेति ॥ लाघवार्थमिति ॥ चरणेत्युक्त्यपेक्षया पादेत्यस्य लघुत्वात् । श्रुतौ पादशब्दस्यैव श्रुतत्वादित्यर्थः । उदाहरणं चायुक्तमित्याह ॥ किञ्चास्मद्रीत्येति ॥ ननु तत्रापि ‘‘योऽयमन्तर्हृदये’’ इति गुहानिहितत्वं श्रुतमिति चेन्न । ज्योतिःसन्निधानेऽ-श्रवणादिति वा द्वयोर्गुहानिहितत्वयुक्तत्वेऽपि सूक्तस्थस्य चरणयुक्तत्वेन सूत्रानुगुण्यादिति वा तात्पर्यात् ॥ किञ्चेति ॥ हिशब्दो यस्मादित्यर्थे ।
श्लोकं विवृणोति ॥ पादोऽस्येति ॥ अन्यस्येति ॥ अन्यस्य सत्त्वे हि तत्परत्वेन चरणेत्यस्य न पौनरुक्त्यं न च तदस्तीत्यर्थः ॥ तस्य चेति ॥ पादोऽस्येत्यनेनोक्तस्येत्यर्थः । उक्तदोषपरिहारमाशङ्कते ॥ अथेति ॥ ब्राह्मणेति ॥ उपनिषद्वाक्य एवमुक्तौ चरणाभि-धानादित्यस्य भूतसूत्रेण पौनरुक्त्याभावेऽप्यनेन तद्वैयर्थ्यं दुर्निरासमित्याह ॥ चरणाभि-धानादित्यनेनेति ॥ पररीत्या च भूतादिपादत्वसूत्रवैयर्थ्यं द्रढयति ॥ अपि च त्वत्पक्ष इति ॥ पादशब्दस्य स्वरूपार्थत्वोपगमादिति भावः ॥ ‘‘पादोऽस्य सर्वाभूतानि’’ इत्यसङ्कुचितसर्वपदेन कृत्स्नतादात्म्यलाभेन भूतपृथिवीशरीरहृदयरूपतदेकदेशचतुष्टय-तादात्म्यपरस्य भूतादिसूत्रस्य वैयर्थ्यमेवेत्यर्थः । अभ्युपेत्य मन्त्रब्राह्मणयोः पादाभिधानभेदं दूषणद्वयमभ्यधायि । वस्तुतस्तु तस्य भेद एव नास्ति । तथात्वे संवादित्वेन मन्त्रोदाहरणायोगात् । तथा च सुस्थं पौनरुक्त्यमित्याशयेन ‘‘सैषा चतुष्पदा षड्विधा’’ इति ब्राह्मणगतस्य ‘‘पादोऽस्य’’ इति मन्त्रगतस्य च पादाभिधानस्यैक्यं वक्तुं पीठमारचयति ॥ किञ्चेत्यादिना तस्मादित्यन्तेन ।
भूतादीति ॥ भूतपृथिवीशरीरहृदयपरः । कुत इत्यतो वाक्प्राणयोरपि प्रकृतत्वादित्याह ॥ पूर्वेति ॥ षट्त्वेनेति ॥ वाग्भूतपृथिवीशरीरप्राणहृदयानां क्रमेण प्रकृतत्वादित्यर्थः । ननु न निष्फलत्वं ब्रह्मणि भूतपृथिवीशरीरहृदयरूपचतुष्टयात्मकत्वोपासनाय तदुक्तेरित्यत आह ॥ उपासनार्थमिति ॥ स आरोपः । असदुपासनाया अविशिष्टत्वादिति भावः । कथं तर्हि चतुष्पदेत्यस्य सङ्गतिरित्यत आह ॥ तस्मादिति ॥ अनुवादायोगादित्यर्थः । एतेन ‘‘प्रागुक्तषड्विधत्वमनूद्य चतुष्पदत्वं व्यपदिश्य’’ इत्यादिटीका विवृता ॥ अन्यथेति ॥ भूतपृथिव्यादेरेव चतुष्पदत्वोक्तावित्यर्थः । न युक्तं च भूतादेः पादचतुष्टयत्व-कथनमित्याह ॥ त्रिपादस्येति ॥ तदिति ॥ पादशब्दनिर्दिष्टस्येत्यर्थः ॥ दिवीति ॥ द्युस्थस्य दिवः परस्य च द्युप्रातिपदिकार्थसम्बन्धितयैकत्वेन प्रत्यभिज्ञायमानत्वस्योपदेशसूत्रे सिद्धान्तितत्वादित्यर्थः । ननु भवन्मतेऽपि भूतानां पादत्वेन निर्देशात्कथं षाड्विध्यम् । यदि विधान्तर्गतानामपि भूतानां पृथक्कृत्य पादत्वमुच्यते सममेतन्ममापीत्यत आह ॥ अस्माकमिति ॥
गायत्र्यां संस्थितो विष्णुस्स्त्रीरूपस्सूर्यसप्रभः ।
द्वितीयश्चैव मत्स्यादिर्भूतनामाऽवतारगः ॥
तृतीयो वाचि संस्थस्स स्त्रीरूपो हयशीर्षकः ।
चतुर्थः पृथिवीसंस्थस्स्त्रीरूपः पीतवर्णकः ॥
जीवस्यान्तर्गतो व्याप्यः शरीरमिति नामकः ।
पञ्चमस्तद्धृदिस्थस्तु षष्ठो हृदयनामकः ॥
गायत्रीनामको विष्णुरेवं षड्विध उच्यते ।
इत्यादिभाष्यात्पादोऽस्य सर्वाभूतानीति भूतशब्दितजीवानां चतुष्पादान्तर्भावेऽपि ‘‘भूतं यदिदं किञ्च’’ इति षड्विधान्तर्भूतं मत्स्याद्यवताररूपमेवेति ज्ञेयमित्यर्थः । ‘‘किञ्च चतुष्पदा’’ इत्यादिनोक्तमुपसंहरति ॥ तस्मादिति ॥
चन्द्रिकाबिन्दु
॥ लाघवार्थमिति ॥ पादाभिधानादित्यस्याल्पाक्षरत्वादिति भावः ॥ तदनाक्षेपेणेति ॥ योऽयमन्तर्हृदय आकाश इति वाक्यस्य तु आकाशशेषत्वमेव न ज्योतिश्शेषत्वमिति परमतहृदयमिति भावः । पौनरुक्त्यपरिहारमाशङ्कते ॥ अथेति ॥ ब्राह्मणोदाहरणपूर्वकं पादचतुष्टयं दर्शयति ॥ ब्राह्मणवाक्ये हीति ॥ ब्राह्मणस्थपादग्रहणे आधिक्यं दोष इत्येतत्परिहरति ॥ पादाभिधानद्वयस्येवेति ॥ वाक्प्राणरहितानां चतुर्थ्यन्तसहिता (अत्र त्रुटितमिति भाति) नि षिद्धत्वमित्याकारभेदेनाविरोध इत्याशङ्क्य निराकरोति ॥ न चेति । भूतादीनां भूतपृथिवीशरीरहृदयानाम् । तद्विवरणाय ब्राह्मणोक्तचतुष्पादत्वविवरणाय । तद्रहितचतुस्सङ्ख्येत्यादि हेतुगर्भविशेषणानि ।
पाण्डुरङ्गि
तत्र लाघवार्थमिति ॥ चरणशब्दस्य भक्षणगमनाचारपादाद्यनेकार्थोप-स्थापकत्वेन पादशब्दवज्झडित्यवयवस्वरूपान्यतरार्थोपस्थापकत्वाभावेन प्रतीतिगौरव-परिहारार्थमित्यर्थः । न तु शब्दतो लाघवार्थम् । पर्यायेषु लाघवगौरवचिन्ता न क्रियत इति न्यायात् । ननु ‘अथ यदतः’ इति वाक्योदाहरणेऽपि अस्मिन्नपि वाक्येऽन्तः पुरुषे ज्योतिरिति हृदयनिहितत्वगुहानिहितत्वस्योक्तत्वेनानन्दमयाधिकरणाक्षेपः सम्भवति । अत्र तस्य ज्योतिषोऽब्रह्मत्वेन तन्निष्ठस्य गुहानिहितत्वस्यान्यनिष्ठत्वापत्त्याऽऽनन्दमयोक्तस्य गुहानिहितत्वस्याप्यन्यनिष्ठत्वं स्यादित्यानन्दमयोऽप्यन्य एव स्यादिति । तथा चानुपपन्नमेतदित्यरुचेराह ॥ किञ्चेति ॥ अत्र हि पादशब्देन तदात्मकत्वं विवक्ष्यते किं वोपासनार्थं चरणत्वारोपो वा । नाद्य इत्याह ॥ पादशब्देनेति ॥ द्वितीयं निराकरोति ॥ उपासनार्थमिति ॥ अन्यथेति ॥ षाड्विध्यमनूद्य चतुष्पात्त्वविधान इत्यर्थः ।
अस्माकं मते षाड्विध्यं तु ‘‘गायत्र्यां संस्थितो विष्णुः’’
तात्पर्यचन्द्रिका
अस्माकं मते षाड्विध्यं तु ‘‘गायत्र्यां संस्थितो विष्णुः’’ इत्यादि छान्दोग्य-भाष्याज्ज्ञेयम् । तस्मान्मांत्रवर्णिकादन्यस्य पादाभिधानस्याभावात्तस्य च चरणाभिधानादित्यनेनैवोक्तत्वात्परमते भूतादिसूत्रवैयर्थ्यम् । अस्माकं पक्षे भूतादीत्यत्रादिशब्दस्तु ‘‘अमृतं दिवि’’ इत्युक्तामृताख्यस्वरूपपरः । न चात्र पादमुद्दिश्य विश्वभूतविधिः । येन पादैकत्वमुद्देश्यविशेषणत्वात् ‘‘ग्रहं संमार्ष्टि’’ इत्यत्र ग्रहगतैकत्ववदविवक्षितमिति चतुष्पदत्वं न सिद्ध्येत् । किन्तु विश्वभूतोद्देशेन पादविधिः । पादानामेव जिज्ञासितत्वात् । अत एव टीकायां ‘‘सर्वाणि भूता-न्यस्यैकः पादः’’ इति पादविधानं दर्शितम् । तथा च ‘‘पशुना यजेत’’ इत्यत्र पश्वेकत्ववद्विधेयगतत्वात्पादैकत्वं विवक्षितम् । यथा च ‘‘पौर्णमास्यां पौर्णमास्या यजेत’’ इत्यादौ सप्तम्यन्तः पौर्णमास्यादिशब्दः काले मुख्यस् तृतीयांतस्तु तत्सम्बन्धिनि कर्मण्यमुख्यः । तथा ‘‘त्रिपात्’’ इत्यत्र पादशब्दः स्वरूपांशे मुख्यः ‘‘पादोऽस्य’’ इत्यत्र भिन्नांशे त्वमुख्य इति न कश्चिद्दोषः ।
प्रकाशिका
ननु परमते भूतादीत्यादिपदेन पृथिवीशरीरहृदयानां ग्रहणेन तस्य सार्थक्यम् । भवन्मते तु भूतपादव्यपदेशादित्येतावता पादोऽस्येत्युक्तभूतपादत्वग्रह-सम्भवादादिपदं व्यर्थमित्यत आह ॥ अस्माकमिति ॥ स्यादेवं यदि भूतपादत्वमेवात्र विवक्षितं स्यात् । न चैवम् । किन्तु भूतशब्दितविश्वपादत्वमिवामृतशब्दितनारायण-वासुदेववैकुण्ठाख्यस्वरूपत्रयपादत्वमपि विवक्षित्वा चतुष्पदेत्युक्तचतुष्पदत्वस्य वक्तव्य-त्वाद् भूतं विश्वमादिर्यस्य रूपत्रयस्य तद्भूतादि भूतं स्वरूपत्रयं चेति यावत् । तत्पाद इति व्यपदेशोपपत्तेरित्यर्थसम्भवान्न वैयर्थ्यमित्यर्थः ।
ननु मन्त्रे भूतानां बहुत्वेन पादबहुत्वापत्त्या भूतानामेकपादत्वं रूपत्रयस्य त्रिपादत्व-मित्यस्यासिद्धिरित्यत आह ॥ न चात्रेति ॥ ग्रहं संमार्ष्टीत्यत्रेति ॥ तृतीयेऽध्याये ‘‘एकत्वयुक्तमेकस्य श्रुतिसंयोगात्’’ इत्याद्यपादीयसप्तमाधिकरणे ‘‘ग्रहं संमार्ष्टि’’ इत्युदाहृत्य किमेकस्य संमार्गः किं वा सर्वेषामिति सन्देहे उपादेयगताया इवोद्देश्यगताया अपि सङ्ख्यायाश्श्रुतिबलेन विवक्षितत्वादेकस्यैवेति पूर्वपक्षयित्वा किमेकत्वस्योद्देश्यत्वेन विवक्षोत विधेयत्वेन, आद्ये ग्रहं संमार्ष्टि एकं च संमार्ष्टीति प्रत्युद्देश्यं वाक्यपरिसमाप्ते-र्वाक्यभेदाद् द्वितीयेऽपि संमार्गस्यापि विधेयत्वाद्ग्रहं संमृज्यात् स च एक इति वाक्यभेदात् संमार्गक्रियाकर्मत्वस्यैकत्वस्य च प्रत्ययार्थतया युगपत्सम्बन्धेनोद्देश्यविशेषणत्वात् शेषि-विभक्तिनिर्दिष्टत्वेन विधेयसंमार्गविशेषणत्वाभावेनैकत्वस्य विवक्षायोगाद् ग्रहैर्यजेतेत्युक्तानां सर्वेषां संमार्ग इति सिद्धान्तितम् । अत्र यथा ग्रहैकत्वमविवक्षितं न तथा प्रकृत इत्यर्थः ॥
पादानामिति ॥ सैषा चतुष्पदेत्युक्त्या के चत्वारः पादा इति जिज्ञासो-त्पादात्तन्निवृत्तये मन्त्रोदाहरणात् ‘‘ब्रह्मविदाप्नोति परम्’’ इत्यत्र किं तद्ब्रह्म कीदृशं च तद्वेदनं का च तत्प्राप्तिरिति जिज्ञासानिवृत्त्यर्थं ‘‘तदेषाभ्युक्तम्’’ इति मन्त्रोदाहरणवदिति भावः ॥ पशुनेति ॥ चतुर्थे ‘‘तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्’’ इत्याद्यपादीय-पञ्चमाधिकरणे ‘‘पशुना यजेत’’ इत्युदाहृत्य किमेकत्वमयज्ञाङ्गमविवक्षितं किं वा यज्ञाङ्गं विवक्षितमिति सन्दिह्य समानपदश्रुत्या पश्वङ्गत्वावगमाद्वाक्यलभ्यपदान्तरोपात्तयज्ञाङ्गत्वा-योगादयज्ञाङ्गमेकत्वमविवक्षितमिति पूर्वपक्षयित्वा एकप्रत्ययोपात्तेन प्रातिपदिकार्थादपि सन्निहितेन प्रधानभूतेन कारकेणावरुद्धमेकत्वं प्रातिपदिकार्थं पशुमनादृत्य क्रियाङ्गमव-गम्यमानं वाक्यसमर्पितेन क्रियाविशेषेण सम्बन्धं पश्चादरुणैकहायनीन्यायेन पशुना विशेषणत्वेनार्थात्सम्बध्यते । तादर्थ्यन्तु यज्ञं प्रत्येवेति विवक्षितमेकत्वमिति सिद्धान्तितम् ।
अत्र यथा पशोर्विधेयत्वेन तद्गतमेकत्वं विवक्षितं तथा पादैकत्वमपीत्यर्थः । नन्वथापि भूतभिन्ने विष्णौ भूतशब्दितविश्वात्मकत्वायोगेन भूतपादत्वायोगः । न च वाच्यं ‘‘चैत्रस्य चतुर्भागबलो मैत्रः’’ इतिवद्भिन्नमेव विश्वं तत्पादपरिमितसामर्थ्यातिशयेन पादतयोच्यते । न तु मुख्यस्वरूपाभिप्रायेणेति । सूत्रे सकृत् श्रुतस्य श्रुतौ चैकत्र श्रुतस्य पादशब्दस्य भूतेष्वमुख्यता अमृताख्यस्वरूपत्रये च मुख्यतेत्यस्यादृष्टचरत्वादित्यत आह ॥ यथा चेति ॥ एकादशे ‘‘इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात्’’ इति द्वितीयपादीयद्वितीयाधिकरणे दर्शपूर्णमासयोर्विभज्य पर्वद्वये प्रयुज्यमानयोः किमङ्गानि तन्त्रमुतावर्तेरन्निति सन्दिह्य एकफलत्वात्षण्णामपि यागानामेकोपक्रमावसानत्वावगमा-त्सकृदनुष्ठितान्यङ्गानि सर्वेषामुपकुर्वन्तीति पूर्वपक्षयित्वा षण्णामेकफलत्वेन प्रयोगैक्याव-गमेऽपि वाचनिककालभेदेन प्रयोगभेदो भवति । ‘‘पौर्णमास्यां पौर्णमास्या यजेत । अमावास्यायाममावास्यया यजेत’’ इति वचनाभ्यां हि पौर्णमास्यमावास्याकरणकः फलार्थो व्यापारः प्रत्ययवाच्यः । तदङ्गत्वेन पौर्णमास्यमावास्याकालौ विधीयेते । तेनाङ्गा-नामपि तत्र तत्करणफलक्रियान्तर्गतानां तत्कालता विहिता भवति । अतः प्रतित्रिक-मङ्गान्यावर्तेरन्निति सिद्धान्तितम् । अत्रत्यन्यायेन यथा सप्तम्यन्तः पौर्णमास्यादिशब्दः काले मुख्यस्तृतीयान्तस्तु तत्सम्बन्धिनि गौणस् तथा प्रकृतेऽपीत्यर्थः ।
एवं ‘‘प्रथमयोः’’ इत्यत्र प्रथमाशब्देन प्रथमाद्वितीययोरिव सूत्रे पादशब्देन मुख्या-मुख्ययोर्ग्रह इति ज्ञेयम् । एवमाद्यतृतीयसूत्रार्थौ मतद्वयाभिमतौ दूषितौ । यत्तु ‘चेतोऽर्पण-निगदात्’ इति द्वितीयस्य परकीयं व्याख्यानं गायत्र्यधिष्ठाने ब्रह्मणि छन्दोद्वारा चित्त-समाधानाय ‘‘गायत्री वा इदं सर्वम्’’ इति ब्राह्मणवाक्येन सर्वात्मकत्वं निगद्यत इति तत्तु तत्र तत्र ब्रह्मण आरोपाधिष्ठानत्वादिनिरासन्यायेन निरस्तम् ।
चन्द्रिकाबिन्दु
॥ न चात्रेति ॥ तथात्वे पादः विश्वाभूतानीत्यर्थः स्यात् । तथा चानन्तपादप्रसङ्ग इति भावः । ननु पादशब्दस्य विभिन्नभूतस्वरूपपादलक्षणार्थद्वयपरत्वेऽ-न्यायस्थानेऽर्थत्वमिति विरोध इत्यत आह ॥ यथा चेति ॥ तत्सम्बन्धिनीति ॥ तत्र स्थित इत्यर्थः ।
पाण्डुरङ्गि
भवन्मतेऽपि षाड्विध्यानुपपत्तिरित्यत आह ॥ अस्माकमिति ॥ उद्देश्यविशेषणत्वादिति ॥ ननु नोद्देश्यविशेषणत्वमविवक्षायां निमित्तम् । ‘अग्नीनादधीत’ इत्यादौ बहुत्वस्योद्देश्यविशेषणत्वेऽपि विवक्षादर्शनादिति चेन्न । निर्ज्ञातविशेषणत्वादित्यत्र तात्पर्यात् । तदर्थस्तु निर्ज्ञातस्य विशेषणत्वमिति । तथा च बहुत्वेन निश्चितस्य ग्रहस्य विशेषणमेकत्वं न विवक्षितमिति भावः ॥ पादानामेव जिज्ञासितत्वादिति ॥ विशेषण-जिज्ञासाया एव तद्विवक्षाहेतुत्वात्तस्याश्च तन्निश्चयतद्विपरीतनिश्चयान्यतरेण निरासे विशेषणविवक्षा नास्तीत्याशयः । पररीत्या पादशब्दस्यैकार्थत्वे सम्भवत्यनेकार्थत्व-मन्याय्यमित्याह ॥ यथा चेति ॥ मुख्यार्थानेकत्वं नास्त्येव मुख्यामुख्योभयार्थत्वं दृष्टत्वान्न विरुद्धमिति भावः । न चोक्तस्थले तृतीयासप्तम्युक्तकरणाधिकरणत्वयोरिवार्थ-भेदकल्पकस्य प्रकृतेऽभाव इति वाच्यम् । अमृतत्वोक्तित एव श्रुत्यर्थाभ्यां विनाश-भावाभावयोरर्थभेदकल्पकयोर्लाभादिति भावः ।