०१ पूर्वपक्षपञ्चकप्रदर्शनम्

अत्राधिवेदगता गायत्र्यादिशब्दा उदाहरणम्

पूर्वपक्षपञ्चकप्रदर्शनम्

तात्पर्यचन्द्रिका

॥ ओं छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनम् ओम् ॥

अत्राधिवेदगता गायत्र्यादिशब्दा उदाहरणम् । अत्र विषयवाक्यं ‘‘अथ यदतः परो दिवो ज्योतिः’’ इति छान्दोग्यस्थं ज्योतिर्वाक्यमित्येकं मतम् । मतान्तरन्तु ‘‘गायत्री वा इदं सर्वं’’ इति तत्स्थं गायत्रीवाक्यमिति । अत्राद्यं मतं ‘‘अथ यदतः परो दिव’’ इति वाक्योक्ते ज्योतिषि सन्देहः । किं ब्रह्मोतान्यत्’’ इति सुधोक्तम् । द्वितीयं त्वत्र टीकायां सुधायां चोक्तम् । अत्राद्ये मते ज्योतिरधिकरणेऽग्निसूक्तस्थस्य ज्योतिषोऽग्नित्वनिरासः । अत्र तु छान्दोग्यस्थस्य ज्योतिषश्छन्दस्त्वनिरासः । द्वितीये तु ज्योतिरधिकरणेऽग्निसूक्तस्थस्य ज्योतिषोऽग्नित्वनिरासः । अत्र तु छान्दोग्यस्थाया गायत्र्याश्छन्दस्त्वनिरास इति भेदः ।

आद्ये भाष्ये गायत्रीवाक्योपादानं गायत्री शब्दरूपपूर्वपक्षबीजप्रदर्शनार्थम् । द्वितीये भाष्ये ज्योतिर्वाक्योपादानं पूर्वपक्षे ज्योतिरधिकरणाक्षेपप्रदर्शनार्थम् । आद्येऽपि छान्दोग्यस्थज्योतिषो गायत्रीवेत्युपक्रमेण गायत्रीत्वादग्निसूक्तस्थमपि गायत्रीत्येकः पूर्वः पक्षः । अपरस्तु अस्त्वग्निसूक्तस्थं ज्योतिः कर्णादिविदूरत्वाद्विष्णुः । छान्दोग्यस्थं तु ‘‘तदेतद्दृष्टं च श्रुतं च’’ इति तद्विरुद्धदृष्टश्रुतत्वादिश्रवणान्न विष्णु-रिति । न चैवं सति पूर्वपक्षे पूर्वसिद्धान्तानाक्षेपादफलेयं चिन्ता । ज्योतिषो गायत्रीत्वे ‘‘इयं वाव सा येयं पृथिवी’’ इति गायत्र्यभिन्नत्वेनोक्तायां पृथिव्यां ‘‘अस्यां हीदं सर्वं प्रतिष्ठितम्’’ इत्युक्तस्य स्थितिहेतुत्वादेरपि तद्धर्मत्वापत्त्या जन्मादिसूत्राक्षेपात् । ‘‘योऽयमन्तर्हृदय’’ इति छान्दोग्यस्थे ज्योतिष्यानन्दमयधर्मभूतहृदयनिहितत्वश्रवणेन ज्योतिरधिकरणमनाक्षिप्यैवानन्दमयाधिकरणाक्षेपाच्च ।

द्वितीयेऽपि गायत्र्याश्छन्दस्त्वेतामुपक्रम्य छान्दोग्य उक्तस्य ज्योतिषोऽपि छन्दस्त्वादग्निसूक्तस्थमपि छन्द इत्येकः पूर्वः पक्षः । अन्यस्तूक्तरीत्याऽग्निसूक्तस्थस्य विष्णुत्वेऽपि छान्दोग्यस्थं छन्द एवेति । अपरस्तु छान्दोग्यस्थस्यापि ज्योतिषो ज्योतिरधिकरणे विष्णौ निर्णीतज्योतिश्श्रुत्या विष्णुत्वेऽपि गायत्री न विष्णुस् तत्र तच्छ्रुतेरभावादिति । अत्रापि द्वितीये प्रथमोऽत्र टीकायामुक्तः । आद्ये प्रथमद्वितीयौ (प्रथमद्वितीययोराद्योऽत्र टीकायामुक्तः । प्रथमे द्वितीयः ।) द्वितीये द्वितीयतृतीयौ च सुधायाम् । अ(त)त्र मतद्वयेऽप्याद्ये पूर्वपक्षे पूर्वसिद्धान्ताक्षेपादाक्षेपिक्य-वान्तरसङ्गतिः स्फुटा । आद्ये द्वितीये, द्वितीये द्वितीयतृतीययोस्तु पूर्वपक्षयोः पूर्वाधिकरणवैषम्यप्रदर्शनाय तदुपजीवित्वादवान्तरसङ्गतिः ।

प्रकाशिका

टीकायामनुक्तेः ‘‘अधिवेदगतानां’’ इति न्यायविवरणं हृदि कृत्वै-तदधिकरणोपाधिमाह ॥ अत्रेति ॥ गायत्र्युष्णिग्बृहतीत्यादिशब्दा इत्यर्थः । नन्वेवं सूत्रे गायत्रीशब्दमात्रासाधारणभूतादिपादव्यपदेशाद्युक्त्यनुपपत्तेस्स एवोदाहरणमिति ज्ञायत इति चेन्न । वेदमातुस्त्रैवर्णिकद्वितीयजन्मजनन्या गायत्र्याः प्राधान्येन तन्नाम्न एवेतरोपलक्षणतया सूचनात् । अतः सर्वसाधारण्याय छन्द इत्यसूत्रयत् । अन्यथा गायत्र्यभिधानादित्येव ब्रूयात् । यद्यप्यत्र वक्ष्यमाणदिशाऽऽकाशादिशब्दा अप्युदाहरणं तथापि तेषामधि-करणान्तरविषयाणां सतामाकारान्तरेणात्र विषयत्वम् । गायत्र्यादिशब्दानां तु सर्वाकारेणापीति विशेषादेवमुक्तमिति ध्येयम् । अत्र पूर्वसङ्गतिं वक्तुं प्रस्थानद्वये सङ्कलय्य टीकाकृदुक्तान्पक्षान् भाष्यानुगुणोपपत्तीः प्रदर्शयन्विवेचयति ॥ अत्रेति ॥ तत्स्थं छान्दोग्यस्थम् । अत्रेत्यस्य विवरणं टीकायामिति । ‘‘गायत्री वा इदसर्वं भूतं यदिदं किञ्च’’ इत्युदाहृतत्वादिति भावः ॥ सुधायामिति ॥ छन्दोगाः पठन्ति ‘‘गायत्री वा इदं सर्वं भूतं’’ इत्यादि । तत्र संशयः । ‘‘किं गायत्री ब्रह्म किं वा वर्णसमावेशलक्षणो मन्त्रः’’ इत्यादिनेत्यर्थः ।

नन्विदं वा तद्वा फलविशेषाभावाद्व्यर्थो विकल्प इत्यत आह ॥ अत्रेति ॥ मतद्वय-मध्ये आद्ये ज्योतिर्वाक्यपक्ष इत्यर्थः ॥ द्वितीय इति ॥ गायत्रीवाक्यपक्षे । अत्रोक्तपक्षद्वये ‘‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’’ इत्युक्तस्य ज्योतिषो गायत्री वा इदं सर्वमिति गायत्र्या समारम्भः कृतः’’ इति भाष्यमनुगुणयति ॥ आद्य इति ॥ स्पष्टयिष्यते चैतदग्र इति भावः । एवं वैकल्पिकोदाहरणमुक्त्वेदानीं ज्योतिर्वाक्योदाहरणपक्षे सुधाभिमत-पूर्वपक्षद्वयमाह ॥ आद्येऽपीति ॥ उदाहरणभेदसमुच्चयार्थोऽपिशब्दः ।

॥ अग्निसूक्तस्थमपीति ॥ ज्योतिश्श्रुत्या हृदयस्थत्वलिङ्गेन ज्योतिर्द्वयस्यैक्यप्रत्यभि-ज्ञानाद्दृष्टत्वादिविरुद्धधर्मस्याकारभेदादिनोपपत्तेरिति भावः । द्वितीयपूर्वपक्षेऽनुपपत्तिं प्रकाश्य समाधत्ते ॥ न चैवमिति ॥ अग्निसूक्तस्थज्योतिषो विष्णुत्वमुपेत्य पूर्वपक्षकरणे सतीत्यर्थः ॥ तद्धर्मत्वेति ॥ गायत्रीधर्मत्वापत्त्येत्यर्थः । पूर्वाधिकरणाक्षेपस्यापि व्यवहित-जिज्ञासासूत्राक्षेपपर्यन्तत्वादिति भावः । ननु पूर्वोत्तराधिकरणानामानन्दमयाक्षेपपूर्वं जिज्ञासासूत्राक्षेपकत्वेन प्रवृत्तत्वात्कथमस्य ततो विलक्षणस्य तन्मध्ये निवेश इत्यतः पक्षान्तरमाह ॥ योऽयमिति ॥ यद्यपि ‘‘यो वेद निहितं गुहायां’’ इति मन्त्रवर्ण एवायं धर्मश्श्रुतो न त्वानन्दमये तथाऽपि मन्त्रवर्णोक्तस्यैवानन्दमयशब्देनोच्यमानत्वादिति भावः ।

ज्योतिर्वाक्यपक्षे पूर्वपक्षद्वयमुक्त्वा गायत्रीवाक्यपक्षे पूर्वपक्षत्रयमाह ॥ द्वितीयेऽपीति ॥ उक्तरीत्येति ॥ कर्णादिविदूरत्वात्तस्य विष्णुत्वेऽपि ‘दृष्टं च श्रुतं च’ इति तद्विरुद्ध-दृष्टत्वादिश्रवणाच्छान्दोग्यस्थं न विष्णुरित्युक्तदिशेत्यर्थः । अस्मिन्पक्षे वक्ष्यमाणपक्षे च सप्रयोजनत्वं पूर्ववदनुसन्धेयम् ॥ तच्छ्रुतेरिति ॥ ज्योतिःश्रुतिश्चोपदेशभेदेन भिन्नप्रकरण-त्वान्न गायत्र्यां श्रुतेति भावः । उक्तपञ्चपक्षान्संवादयति ॥ अत्रापीति ॥ पञ्चपक्षमध्येऽ-पीत्यर्थः । आद्ये प्रथमद्वितीयाविति ॥ यद्यपि ‘‘अथवाऽत्रापि अथ यदतः परो दिवः’’ इति वाक्योक्तज्योतिषि सन्देहः । किं ब्रह्मोतान्यदिति । उपक्रमे गायत्रीशब्दश्रवणा-दन्यदिति प्राप्तम्’’ इत्येव सुधावाक्यम् । न तु द्वेधा तत्र पूर्वपक्षोपपादनमस्ति । तथापि पूर्वाक्षेपेण पूर्ववैषम्येण च योजयितुं शक्यत्वादेवमुक्तम् । तथा च तद्वाक्यं द्वेधा योजनीयमित्युक्तं भवति ॥ द्वितीय इति ॥ एतौ च सुधायां कण्ठोक्ताविति ध्येयम् । एवं पक्षान्विविच्येदानीं सङ्गतिमाह ॥ अत्रेति ॥ ज्योतिर्वाक्यपक्षे गायत्रीवाक्यपक्षे चेत्यर्थः । तदुपजीवित्वादिति ॥ उपजीव्योपजीवकभाव इत्युक्तं भवति ।

चन्द्रिकाबिन्दु

अत्राधिवेदेति । तत्सवितृत्वादिवेदैकदेशमन्त्रनामकत्वाद्गायत्री-शब्दस्येति भावः ॥ छान्दोग्यस्थमिति ॥ ननु ‘ज्योतिर्वाक्यं विषयः’ इति आद्ये भाष्ये गायत्रीवाक्योपादानं व्यर्थमित्यत आह ॥ आद्ये भाष्य इति ॥ एवं द्वितीये भाष्य इत्यादौ अवतारिका द्रष्टव्या । आद्येऽपि ज्योतिर्वाक्यस्य विषयत्वपक्षेऽपि । अपरस्त्वित्यादिनोक्ते आद्यद्वितीयपूर्वपक्षप्रकारेऽफलत्वं विचारस्याशङ्क्य निराकरोति ॥ न चैवं सतीति ॥ आनन्दमयाक्षेपेणापि फलं दर्शयति ॥ योऽयमिति ॥ द्वितीयेऽपीति ॥ छान्दोग्य-स्थगायत्रीवाक्यस्योदाहरणत्वपक्षेऽपीत्यर्थः । तत्र प्रकारत्रयेण पूर्वपक्षप्रकारमाह ॥ गायत्र्या इत्यादिना ॥ द्वितीये प्रथम इति सुधायां न कण्ठोक्तिः । ज्योतिषि सन्देहो विष्णुरन्यद्वेत्येतावन्मात्रस्योक्तत्वात् । तथापि तत्रापि सूक्तद्वाराक्षेपतात्पर्यकल्पनेन सुधोक्तत्वमस्यापि नेयमिति भावः । द्वितीये ‘द्वितीयतृतीयौ चेति’ छान्दोग्यवाक्यस्य विषयत्वपक्षे यौ द्वितीयतृतीयपूर्वपक्षौ तावित्यर्थः । द्वितीये प्रथमोऽत्र टीकायामुक्तः । आद्ये प्रथमद्वितीयौ द्वितीये द्वितीयतृतीयौ च सुधायामिति पाठानुसारेणेदं व्याख्यानं, तत्र पुस्तके पाठान्तरम् । तत्रापि प्रकारान्तरेण व्याख्यानं कुर्वन्ति स्वामिनः । सोऽपि पाठोऽतिस्वरस इत्यप्याहुः । एवं विषयवाक्यपूर्वपक्षविवेकस्य फलं दर्शयति ॥ अत्र मतद्वयेऽपीत्यादिना ॥ वैषम्येति ॥ वैषम्यमस्य अग्निसूक्तस्य ज्योतिरित्यादिना प्रदर्शित-मिति भावः ।

पाण्डुरङ्गि

सङ्गतिकथनसौकर्याय मतभेदमाह ॥ अत्रेति ॥ मतद्वयेऽपि फलभेदमाह ॥ अत्राद्य इति ॥ नन्वाद्ये मते भाष्ये गायत्रीपदोपादानमनर्थकमित्यत आह ॥ आद्य इति ॥ द्वितीये मते ज्योतिर्वाक्योपादानस्य प्रयोजनमाह ॥ द्वितीय इति ॥ अत्राद्यमतानुसारेण पूर्वपक्षमाह ॥ आद्येऽपीति ॥ द्वितीय इति ॥ गायत्रीवाक्यं विषय-वाक्यमिति मत इत्यर्थः । ‘अन्यस्तु’ इत्यादिपक्षद्वये ज्योतिर्वाक्योपादानं तु पूर्वाधि-करणवैषम्यं प्रदर्शयितुमिति ज्ञातव्यम् ॥ अत्रापीति ॥ ‘अथ यदतः परो दिवो ज्योतिः’ इति छान्दोग्यस्थं विषयवाक्यमिति प्रथमपक्षस्य य आद्यश् छान्दोग्यस्थज्योतिषो गायत्री वेत्युपक्रमेण गायत्रीत्वादग्निसूक्तस्थमपि गायत्रीति पूर्वःपक्षः । इयं च गायत्री यदि विष्णोरनन्या स्यात्तदेदं ज्योतिश्च सा स्यादिति गायत्रीनिर्णयोऽवश्यापेक्षित इति सङ्गतिटीकायामुक्तः ‘गायत्री वा इदं सर्वम्’ति विषयवाक्यमिति द्वितीयमतस्य योऽयमाद्यः गायत्र्याश् छन्दस्त्वात्तामुपक्रम्य छान्दोग्य उक्तस्य ज्योतिषोऽपि छन्दस्त्वादग्निसूक्तस्थमपि छन्द इति पूर्वः पक्षस् तस्माद्गायत्री न विष्णुर् अपि तु छन्दोविशेष एव । तथा चेदं ज्योतिरानन्दमयश्च नासाविति पूर्वपक्षोपसंहारटीकायामुक्त इति भावः ॥

प्रथमे द्वितीय इति ॥ ‘अथ यदतः’ इत्येतद्विषयवाक्यमिति मते अस्त्वग्निसूक्तस्थं ज्योतिः कर्णादि-विदूरत्वाद्विष्णुरित्यादिनोक्तो यो द्वितीयः पक्षः स इत्यर्थः ॥ द्वितीय इति ॥ गायत्री वेत्येतद्विषयवाक्यमिति द्वितीय इत्यर्थः । द्वितीयतृतीयौ कर्णादि-विदूरत्वादिरूपविष्णुलिङ्गसद्भावादग्निसूक्तस्थज्योतिषोऽग्नित्वेऽपि छान्दोग्ये कर्णादि-विदूरत्वादिरूपलिङ्गाश्रवणाच्छान्दोग्यस्थं छन्द एवेति द्वितीयः, छान्दोग्यस्थस्यापि ज्योतिषो ज्योतिरधिकरणे विष्णौ निर्णीतज्योतिश्श्रुत्या विष्णौ निर्णीतत्वेऽपि गायत्री न विष्णुस्तत्र तच्छ्रुतेरभावादिति तृतीयश्चेत्यर्थः । यदर्थं मतभेद उपपादितस्तदिदानीमाह ॥ तत्र मतद्वयेऽपीत्यादिना ॥