अत्र ज्योतिः किमग्निः किं वा विष्णुरिति चिन्ता
टीकासुधाभिमतपूर्वपक्षद्वयकथनम्
तात्पर्यचन्द्रिका
अत्र ज्योतिः किमग्निः किं वा विष्णुरिति चिन्ता । तदर्थं किं ज्योतिश्श्रुति-प्रसिद्ध्यनुसारेण कर्णादिविदूरत्वलिङ्गं बाध्यमुत विपरीतमिति । तदर्थं किं श्रुत्यनुग्राहकं सूक्तं निरवकाशमुत सावकाशमिति । पूर्वपक्षस्तु । युक्तः पूर्वत्र वायुसूक्तस्थस्य प्राणश्रुतिमात्रस्य निरवकाशविष्णुलिङ्गैर्बाधः । अत्र तु ज्योतिश्श्रुतेर्न बाधः । प्रकरणरूपेण सूक्तेनानुगृहीतत्वात् । यद्यपि ज्योतिश्शब्दस्तमोविरोधिमात्रे प्रसिद्धस् तथापि हृदयाहितत्वलिङ्गात्, ‘‘त्वामग्ने तमसि’’ इत्यग्निशब्दसन्निधाना-च्चाग्निपरः । न त्वग्निसूक्तस्थत्वाज्ज्योतिश्शब्दोऽग्निपरः । तथात्वे सूक्तस्याग्निश्रुति-सम्पादकत्वेन श्रुत्यनुग्राहकत्वायोगात् । एतेन ज्योतिश्शब्दाग्निशब्दौ देवतापरौ चेदन्तरधिकरणन्यायेन ब्रह्मपरौ । भूतपरौ चेदाकाशाधिकरणन्यायेन ब्रह्मपरौ । सावकाशाग्निश्रुतेर्निरवकाशविष्णुलिङ्गैर्बाधात् । न चाग्निश्रुतिः प्रकरणानुगृहीतेति वाच्यम् । तत्तत्सूक्तस्थाग्न्यादिश्रुतीनां विष्णौ सावकाशत्वे सूक्तानामपि तथात्वात् । सर्वसूक्तानां वैष्णवत्वेऽपीदमग्निसूक्तमिदं त्वन्यदिति व्यवस्था तु ‘‘अभिव्यक्ते-रित्याश्मरथ्यः’’ इति वक्ष्यमाणन्यायेन युक्ता । एवं च सावकाशसूक्तस्य निरवकाश-विष्णुलिङ्गैः सुतरां बाधेन पूर्वपक्षानुदय इति परास्तम् । सावकाशाग्निश्रुत्या सावकाशविष्णुलिङ्गबाधात् ।
प्रकाशिका
अत्रेति ॥ ‘‘विमे कर्णापतयतो विचक्षुर्वी३दं ज्योतिर्हृदय आहितं यत् । विमे मनश्चरति दूर आधीः किं स्विद्वक्ष्यामि किमुनू मनिष्ये’’ इत्यग्निसूक्तादि-गतज्योतिरादिशब्दो विषय इत्यर्थः ॥ अग्निरिति ॥ कोट्यंतरप्राप्त्यभावस्य वक्ष्यमाण-त्वादिति भावः ॥ विपरीतमिति ॥ लिङ्गाच्छ्रुतिर्बाध्येत्यर्थः । यदि सूक्तं निरवकाशं तदा तदनुगृहीतया बलीयस्या श्रुत्या लिङ्गस्य बाधादग्निरिति पूर्वपक्षे फलम् । यदि सावकाशं तदा दुर्बलया श्रुत्या निरवकाशलिङ्गबाधायोगाद्विष्णुरिति सिद्धान्ते फलमिति स्पष्टत्वा-त्फलफलिभावो नोक्तः । द्वावत्र पूर्वपक्षौ । एकस्तावदभ्यधिकाशङ्कां विनैव ज्योतिश्श्रुति-विष्णुलिङ्गयोः पूर्वोत्तरपक्षप्रापकयोस्सावकाशत्वमुपेत्य जात्या बलवत्या श्रुत्यैव लिङ्गबाधः सूक्तस्थत्वं त्वभ्युच्चययुक्तित्वेनोच्यत इति । अन्यस्तु विष्णुलिङ्गस्य निरवकाशत्वमुपेत्य श्रुतिमात्रेण पूर्वपक्षोदयायोगादभ्यधिकाशङ्केति । आद्यस्तु टीकानुसारी । अंत्यस्तु सुधानु-सारी ।
तत्रेयं चिन्तापरम्परा द्वितीयपूर्वपक्षानुरोधेन । आद्यपूर्वपक्षे तु ‘‘उत विपरीतम्’’ इति द्वितीयचिन्तानन्तरं ‘‘तदर्थं श्रुत्यनुग्राहकम्’’ इत्यत्र तदर्थं लिङ्गं सावकाशमुत निरवकाशमिति चिन्ता द्रष्टव्या । यदि सावकाशं तदा श्रुत्या लिङ्गबाधादग्निरिति पूर्वपक्षे फलम् । यदि निरवकाशं तेन सावकाशश्रुतिबाधाद्विष्णुरिति सिद्धान्ते फलं ध्येयम् । अत्र ज्योतिरग्निर्विष्णुर्वा । तदर्थं श्रुत्या लिङ्गं बाध्यमुत लिङ्गात् श्रुतिः । तदर्थं श्रुतिबाधे मुख्यार्थहानिरुत नेति तदर्थं ज्योतिश्श्रुतिप्रवृत्तिनिमित्तं विष्णौ न युक्तमुत युक्तमिति । तदर्थं तमोविरोधित्वं प्रवृत्तिनिमित्तमुत प्रकाशत्वादिरूपमिति प्रमेयाश्रिताभ्यधिकाशङ्कोप-युक्ता चिन्तापरम्परा स्पष्टैवेति प्रमाणाश्रिताशङ्कोपयुक्तैव सा प्रदर्शितेति ध्येयम् ।
पूर्वन्यायाविषयत्वप्रदर्शनपूर्वं द्विविधं पूर्वपक्षं सङ्ग्रहेण निर्दिशति ॥ युक्त इति ॥ अत्रैवं योजना । इदं ज्योतिरग्निरेव न विष्णुः । अग्नौ निरूढज्योतिश्श्रुतेः । न च पूर्ववन्निरवकाशलिङ्गेन ज्योतिश्श्रुतिबाध इति । युक्तः पूर्वत्र वायुसूक्तस्थस्येत्यादि ॥ प्रकरणेति ॥ उपलक्षणमेतत् । पूर्ववन्निरवकाशलिङ्गाभावादित्यपि ध्येयम् । सूक्तेनानु-गृहीतत्वादिति युक्तिर् आद्ये पूर्वपक्षेऽभ्युच्चयत्वेन द्वितीये तु पूर्वपक्षोत्थानार्थमुक्तेति ध्येयम् । ननु पक्षद्वयेऽपि न सूक्तस्य श्रुत्यनुग्राहकत्वम् । यावता श्रुतेः सवित्रादिपरत्वत्या-जनेनाग्न्यादिपरत्वसम्पादन एवोपक्षयादित्याशङ्क्यानुग्राहकत्वं साधयति ॥ यद्यपीति ॥ हृदयेति ॥ तच्च जाठरजातवेदसि प्रसिद्धमिति भावः ॥ त्वामग्न इति ॥ ‘‘विश्वेदेवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम्’’ इति श्रवणेन तत्सन्निधानात् । छाग-पशुन्यायेन विशेषश्रुत्या सामान्यश्रुतेरर्थोपपत्तेरिति भावः ।
एवं सूक्तस्य श्रुत्यनुग्राहकत्वं समर्थ्येदानीं पूर्वेण गतार्थतया पूर्वपक्षानुदयशङ्का-प्रकारमनूद्य सुधोक्तदिशाऽधिकाशङ्कयोत्थानं वक्ष्यन् लिङ्गस्य निरवकाशत्वाभावादधिका-शङ्कां विनैव पूर्वपक्षोदय इति भावेन टीकाभिमतं पक्षं तावद्विशदयति ॥ एतेनेत्यादिना ॥ सूक्तस्य श्रुत्यनुग्राहकत्वकथनेन निरवकाशलिङ्गाभावेन चेत्यर्थः ॥ अन्तरिति ॥ निरवकाशलिङ्गेन सावकाशदेवतावाचिश्रुतीनां प्रवृत्तिनिमित्तस्यैश्वर्यादेर्भगवद्गतत्वोक्त्या विष्णुवाचित्वसाधनरूपन्यायेनेत्यर्थः ॥ आकाशेति ॥ अचेतनगतस्यापि प्रवृत्तिनिमित्तस्य भगवदधीनत्वादिसमर्थनन्यायेनेत्यर्थः । तमेव न्यायमाह ॥ सावकाशेति ॥ ज्योतिः-पदप्रवृत्तिनिमित्तस्य भगवद्गतत्वेन तदधीनत्वेन चेति भावः । श्रुतेरुज्जीवकमाशङ्क्य तदपि सावकाशमित्याह ॥ न चेति ॥ सूक्तरूपप्रकरणेत्यर्थः ।
ननु सूक्तानां वैष्णवत्वे इदमग्निसूक्तमिदं विष्णुसूक्तमिति व्यवस्थानुपपत्तेर्न निरव-काशतेत्यत आह ॥ सर्वेति ॥ वक्ष्यमाणेति ॥ वैश्वानराधिकरणे अग्न्यादिशब्दानां विष्णौ मुख्यत्वे तत्तत्सूक्तानां तत्तद्विद्यानां च वैदिकसिद्धव्यवस्थानुपपत्तेरन्यवाचित्वमेवेति प्राप्ते अग्न्यादिसूक्तादिभिर्विष्णूपासनायामग्न्यादावेव विष्णोरभिव्यक्तत्वाद्वा अग्न्यादिसूक्ता-द्युपासकैरग्न्यादावेव विष्णोरनुस्मरणीयत्वाद्वा तत्तदुपासकानामग्न्यादिस्थविष्णुप्राप्तिरूपाद्वा निमित्तात्सूक्तादिव्यवस्थोपपत्तेरग्न्यादिशब्दानां विष्णौ मुख्यत्वं सूक्तादीनां तत्परत्वे व्यवस्था च युज्यत इति सिद्धान्त इति वक्ष्यमाणन्यायेनेत्यर्थः ॥ सुतरामिति ॥ यदि जात्या प्रबलायाश्श्रुतेर्बाधस्तदा स्वभावतोऽपि दुर्बलस्य प्रकरणस्य किमु वाच्यं बाध इतीत्यर्थः ।
चन्द्रिकाबिन्दु
पूर्वाधिकरणन्यायागोचरत्वप्रतिपादनपूर्वकं पूर्वपक्षमाह ॥ पूर्वपक्ष-स्त्विति ॥ अग्निरेवेत्यादिपूर्वपक्षानुपपत्तिमाशङ्क्य परिहरति ॥ यद्यपि ज्योतिश्शब्द इति ॥ तथात्व इति । ज्योतिश्श्रुतेरग्निश्रुतित्वसम्पादकत्वेनापेक्षणीयतया स्वातन्त्र्येण प्रकरणाख्यसूक्तस्य श्रुत्यनुग्राहकत्वं न स्यादिति भावः । ‘‘श्रुतिस्सावकाशेति चेत्’’ इति टीकाभिप्रायं तत्र प्राप्तानुपपत्तिपूर्वकं परिहारं दर्शयति ॥ एतेनेति ॥ अन्तराधि-करणन्यायसाम्यं दर्शयति ॥ सावकाशाग्नीति ॥ तत्तत्सूक्तस्थेति ॥ तथा च सावकाशाग्निश्रुतिद्वारा प्रकरणस्थसूक्तस्यापि सावकाशत्वेन न तदनुग्रहेण श्रुतेः प्राबल्य-मिति भावः ॥ वक्ष्यमाणेति ॥ तथा च व्यवस्थान्यथानुपपत्त्याऽत्र लिङ्गस्य निरवकाशत्वं वक्तव्यमिति भावः । ‘‘गुहानिहितत्वलिङ्गस्यापि सावकाशत्वात्’’ इति परिहारटीकाभि-प्रायमाह ॥ सावकाशाग्निश्रुत्येति ॥
पाण्डुरङ्गि
न त्वग्निसूक्तस्थत्वादिति ॥ सूक्तं प्रकरणमित्यर्थः । प्रथमोपस्थित-शब्दलिङ्गाभ्यामेवाग्निपरत्वे सम्भवति जघन्यप्रकरणप्रतीक्षणायोगादिति भावः । श्रुत्यनु-ग्राहकत्वायोगात् ॥ तथाच न निरवकाशलिङ्गबाधकत्वं तस्येति शेषः । यावता श्रुतित एव लिङ्गं दुर्बलमित्यादिटीकामवतारयति ॥ एतेनेत्यादिना ॥ विष्णुलिङ्गैर्बाधादिति ॥ हृद्याहितत्वं ‘विश्वेदेवा अनमस्यन् भियानाः’ इति सर्वदेवोपास्यत्वमित्यादिलिङ्गसाहित्येन सिद्धान्तलिङ्गानां बाहुल्यं ज्ञेयम् ॥ सुतरां बाधेनेति ॥ बाध्यदौर्बल्यातिशयस्य बाध उपचारोऽयमिति हृदयम् ।