०१ सन्न्यायरत्नावल्याद्युक्ताभिप्रायत्रयसमर्थनम्

अत्र त्रीणि दर्शनानि

सन्न्यायरत्नावल्याद्युक्ताभिप्रायत्रयसमर्थनम्

तात्पर्यचन्द्रिका

॥ ओं ज्योतिश्चरणाभिधानाद् ओम् ॥

अत्र त्रीणि दर्शनानि । ज्योतिरित्यादिचतुस्सूत्र्येकमधिकरणम् । विषयवाक्यं त्वग्निसूक्तस्थं ‘‘ज्योतिर्हृदय आहितं यत्’’ इति वाक्यमेवेत्येकं मतम् । इदं च ज्योतिरित्यस्य सूत्रस्याग्निसूक्तस्थं वाक्यमेवोदाहृत्य ‘‘इदं चैकमधिकरणम्’’ इति वदतस्तत्वप्रदीपकृतोऽभिप्रेतम् । मतान्तरं तु चतुस्सूत्र्या एकाधिकरणत्वेऽपि विषय-वाक्यं ज्योतिरित्यस्यापि ‘‘अथ यदतः परो दिवो ज्योतिः’’ इति छान्दोग्य-वाक्यमेवेति । इदं च ‘‘छन्दोभिधानात्’’ इति सूत्रव्याख्यानरूपं ‘‘नित्यत्वादेव शब्दानां’’ इत्यनुव्याख्यानं ‘ज्योतिश्चरणाभिधानादित्यधिकरणं तात्पर्यतो विवृणोति’’ इत्यवतार्य ज्योतिरिति सूत्रस्य छान्दोग्यवाक्यमेवोदाहरतस्सन्याय-रत्नावलीकारस्याभिप्रेतम् । मतान्तरं तु ज्योतिस्सूत्रमेकमधिकरणम् । छन्दइत्यादि त्रिसूत्री त्वधिकरणान्तरमिति । इदं च टीकाकारस्याभिप्रेतम् ।

न चात्राद्यपक्षेऽग्निसूक्ते गायत्रीरूपछन्दोभिधानभूतादिपादव्यपदेशोपदेशभेदा-नामभावेन छन्दोभिधानादित्यादेरयोग इति वाच्यम् । ज्योतिर्हृदय आहितं यदित्यग्निसूक्तस्थस्यैव ज्योतिषश् छान्दोग्येऽपि ज्योतिश्श्रुत्या ‘‘योऽयमन्तर्हृदये’’ इति हृदयनिहितत्वधर्मेण च शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञायमानत्वेनैकत्वात् । अन्यथाऽनेकाधिकरणपक्षेऽपि छान्दोग्योक्तस्य ज्योतिषो ‘‘गायत्री वा इदं सर्वम्’’ इति श्रवणाच्छन्दस्त्वेऽप्यग्निसूक्तस्थस्य छन्दस्त्वानापत्त्या पूर्वाधिकरणसिद्धान्ता-क्षेपेणोत्तराधिकरणपूर्वपक्षो न स्यात् । तथाच छन्दोभिधानादित्यस्यायमर्थः । अग्निसूक्तस्थं ज्योतिर्न विष्णुः । अस्यैव ज्योतिषश् छान्दोग्ये गायत्रीत्वाभिधा-नादिति । एवं भूतादिपादव्यपदेशादावपि द्रष्टव्यम् ।

प्रकाशिका

‘‘टीकासु च यदस्पष्टम्’’ इति प्रतिज्ञानुरोधेन टीकाकृतां योजनाभेदेषू-पपत्तीर्विवक्षुर्विरोधं च परिजिहीर्षुस्तदुक्तयोजनाभेदान् दर्शयति ॥ अत्रेति ॥ त्रीणि दर्शनानीत्युक्त्या त्रयमप्युपादेयमिति सूचयति ॥ चतुस्सूत्रीति ॥ ज्योतिरित्येकं, छन्दोभि-धानान्नेति चेन्न तथाचेतोर्पणनिगदात्तथाहि दर्शनं, भूतादिपादव्यपदेशोपपत्तेश्चैवं, उपदेश-भेदान्नेति चेन्नोभयस्मिन्नप्यविरोधादिति चतुस्सूत्री ॥ तत्वप्रदीपेति ॥ प्राचीनभाष्य-व्याकर्तुः । इति सूत्रव्याख्यानरूपमिति सुधारीत्योक्तम् । एतन्मते ज्योतिस्सूत्रस्यापि तात्पर्यतो व्याख्यानरूपत्वात् । यद्वा साक्षाच्छन्दस्सूत्रस्यैव व्याख्यानरूपत्वाभिप्रायेणैव-मुक्तम् । इत्यनुव्याख्यानमित्यवतार्येत्यन्वयः ॥ सन्न्यायेति ॥ प्राचीनानुव्याख्यान-व्याख्यातुः ॥ टीकाकारस्येति ॥ तत्वप्रकाशिकाकृतः । एवं मतभेदमुपन्यस्य तत्वप्रदीप-पक्षे ‘‘विमे कर्णा पतयतः’’ इत्यग्निसूक्तगतस्यैव सर्वत्र विषयवाक्यत्वेऽनुपपत्तिमाशङ्क्य समाधत्ते ॥ न चेति ॥ अभावेनेति ॥ ‘‘गायत्री वा इदं सर्वं भूतं यदिदं किञ्च’’ इत्यादि छान्दोग्यवाक्य एव सत्त्वेन तस्य छन्दःप्रभृतिसूत्रेष्वविषयत्वे तेषामयोग इत्यर्थः । ज्योतिश्रुत्या ‘‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’’ इति ज्योतिश्श्रुत्या ।

॥ शाखान्तरेति ॥ अधिकरणशरीरं प्रागुक्तं शास्त्रयोनिसूत्रे । ‘‘एकं वा संयोग-रूपचोदनाख्याविशेषात्’’ इति सिद्धान्तसूत्रोपन्यस्तेन फलसंयोगादिसाधारणधर्मकृत-प्रत्यभिज्ञारूपेण न्यायेन यथा शाखाभेदेऽप्यग्निहोत्रज्योतिष्टोमादिकर्माभेदस्तथा वेदभेदेऽपि शब्दैक्याद्धर्मैक्याज्ज्योतिरभेद इत्यर्थः । अग्निसूक्तगतस्य छान्दोग्यगतस्य च ज्योतिष एकत्वमवश्यमभ्युपेयम् । अन्यथा टीकाकृत्पक्षेऽप्ययुक्तिरित्याह ॥ अन्यथेति ॥ उक्तदिशा एकत्वानभ्युपगतौ ॥ पूर्वेति ॥ ज्योतिरधिकरणेत्यर्थः । अस्त्वेकत्वं ज्योतिषः किं तत इत्यतः प्रागुक्तानुपपत्तिनिरासप्रकारमाह ॥ तथाचेति ॥

नन्वेवं पूर्वपक्षे अग्निसूक्तस्थं ज्योतिर्न विष्णुर् अन्यत्र निरूढज्योतिश्श्रुतेरिति स्वप्रकरणगतज्योतिश्श्रुतिरूपपूर्वपक्षयुक्त्यभिधानसम्भवेन प्रकरणान्तरगतज्योतिषैक्यं प्रसाध्य तत्रत्यछन्दस्त्वादित्युक्त्यभिधानमसङ्गतम् । न च ज्योतिश्श्रुतेरधिदैवशब्दत्वेऽधि-भूतशब्दत्वे वा पूर्वन्यायेन विष्णुपरतया सावकाशत्वेन न निरवकाशविष्णुलिङ्गात्प्राबल्य-मिति न सैव पूर्वपक्षप्रापिकेति वाच्यम् । भाष्याद्युक्तदिशा सूक्तरूपनिरवकाशप्रकरणानु-गृहीततया प्राबल्यादिति चेन्न । वक्ष्यमाणरीत्या प्रकरणान्तरगतज्योतिषोऽपि विष्णुत्वं निर्णेतुमेतत्प्रकरणगतप्रापकापरित्यागेन प्रकरणान्तरगततत्तत्प्रापकाभिधानमुखेनैवञ्जातीयक- सर्वगतज्योतिषो विष्णुत्वाक्षेपाभिप्रायेणान्यगतप्रापकाभिधानात् । न चैवं छान्दोग्यवाक्यमेव सर्वत्रोदाहृत्य तत्रत्यज्योतिषो विष्णुत्वनिर्णये कृते तदैक्यादग्निसूक्तगतज्योतिषोऽपि तन्निर्णयस्सेत्स्यतीति वाच्यम् । अस्मिन्पक्षेऽपि सिद्धान्ते छान्दोग्यस्थं ज्योतिर्विष्णुर् अस्यैव ज्योतिषोऽग्निसूक्ते चरणाभिधानादिति वक्राश्रयणस्य तुल्यत्वात् ।

नन्वस्मिन्पक्षे केवलं सिद्धान्ते चरणरूपैकयुक्त्यभिधानाय प्रकरणान्तरानुसरणे तदर्थं सूत्रं चैकं, तत्वप्रदीपपक्षे च पूर्वोत्तरपक्षयोरनेकयुक्त्यभिधानायान्यप्रकरणानुसरणं तदर्थ-सूत्राणि त्रीणिति गौरवमिति चेन्न । प्रकरणान्तरानुसरणे समाने युक्त्यादिगतैका-नेकत्वादेरप्रयोजकत्वात् । प्रधानसूत्रे प्रकरणान्तरानुसरणापेक्षया गुणसूत्रेष्वेव तदनुसरणस्य न्याय्यत्वाच्च । चरणेन ज्योतिषो विष्णुत्वे पूर्वमभिहितेऽन्यप्रकरणगतप्रापकान्तरावष्टंभेन पूर्वोक्ताक्षेपरूपशङ्काया अनन्तरमेवोदयाच्चेति तात्पर्यात् । उक्तं च तत्वप्रदीपे ‘‘अग्निसूक्त-मुदाहृत्य मन्त्रगोचरं विचारमाचरता परमवैदिकेनाचार्येण निखिलोऽपि वेदसमन्वयो विचारितो भवतीति भूयानयं लाभः’’ इति ॥ एवमिति ॥ अग्निसूक्तस्थं ज्योतिर्विष्णुरेव । अस्यैव ज्योतिषश् छान्दोग्ये भूतादिपादव्यपदेशाद् उपदेशभेदेऽप्यविरोधादिति द्रष्टव्यमित्यर्थः ।

चन्द्रिकाबिन्दु

॥ अथ यदत इति ॥ छन्दोभिधानादित्यत्रोदाहृतं पूर्वसूत्रस्यापि विषयवाक्यमिति भावः ॥ एकत्वादिति ॥ तथा च छान्दोग्योक्तज्योतिषि ये छन्दोभि-धानादयस् तेऽग्निसूक्ते ज्योतिष्यपि योज्यन्त इति भावः । सूक्तच्छान्दोग्यज्योतिषोरैक्य-मधिकरणभेदवादिनाप्यङ्गीकर्तव्यम् । अन्यथा बाधकमस्तीत्याह ॥ अन्यथेति ॥

पाण्डुरङ्गि

ननु ज्योतिरधिकरणटीका न व्याख्येया । अनुपपन्नत्वान्मानान्तर-विरुद्धत्वाच्चेत्यतो मानान्तराविरोधं दर्शयितुं तत्रान्तरानुपपत्तीश्च परिहरन् मतान्तरमुपन्य-स्यति ॥ अत्रेति ॥ यद्वा ‘‘टीकासुच यदस्पष्टं तच्च स्पष्टीकरिष्यते’’ इति प्रतिज्ञामवन्ध्यां कर्तुमाह ॥ अत्रेति ॥ सिद्धान्तिनामिति शेषः । नन्वत्राद्यं मतमनुपपन्नम् । तथाहि । तद्विषयत्वेनाभिमते हृदय आहितमिति वाक्ये छन्दोभिधानभूतादिपादव्यपदेशोपदेश-भेदानामभावात् । किञ्च पूर्वत्राग्निसूक्तमग्निपरमित्येव पूर्वपक्षाच् छन्दस्सूत्रे छान्दोग्यवाक्यं छन्दःपरमित्येव पूर्वपक्षात् पूर्वपक्षयुक्तिभेदस्य विद्यमानत्वेनाधिकरणभेदस्यैव वक्तव्यत्वेन चतुस्सूत्र्या एकाधिकरणत्वासम्भवात् । किञ्चाग्निसूक्तोक्तकर्णादिविदूरत्वविरुद्धस्य दृष्टत्वादेश्छान्दोग्ये प्रतिपादितत्वात्तस्यैकार्थप्रतिपादकत्वानुपपत्तेरित्याशङ्क्य निराकरोति ॥ न चेत्यादिना तस्मादाद्यं मतं युक्तमित्यन्तेन ॥


न च पूर्वपक्षेऽग्निसूक्तस्याग्निपरत्वाच्छान्दोग्यस्य

तात्पर्यचन्द्रिका

न च पूर्वपक्षेऽग्निसूक्तस्याग्निपरत्वाच्छान्दोग्यस्य च छंदःपरत्वात्प्रत्यभिज्ञायोग इति शङ्क्यम् । अस्मिन्मते ‘‘तेजो वै ब्रह्मवर्चसं गायत्री’’ इति श्रुतावग्नि-शब्दानतिभिन्नार्थतेजश्शब्दगायत्रीशब्दयोः सामानाधिकरण्यदर्शनेनाग्नौ गायत्रीशब्दस्य गायत्र्यां चाग्निशब्दस्य सम्भवेन अग्निसूक्तवच्छांदोग्यस्याग्निपरतायाश्छांदोग्यवदग्नि-सूक्तस्यापि गायत्रीपरतायाश्च संभवेन द्वयोरप्येकार्थत्वात् । न चाग्निसूक्तस्थेन कर्णादिविदूरत्वेन ‘‘तदेतद्दृष्टं च श्रुतं च’’ इति छांदोग्यस्थदृष्टत्वादिकं विरुद्धमिति शङ्क्यम् आकारभेदेनाविरोधात् ।

एकाधिकरणत्वादेवहि ‘‘छन्दोभिधानात्’’ इति सूत्रे समन्वेतव्यशब्दांतरमनुक्त्वा ‘‘विकारशब्दान्नेति चेत्’’ इत्यादाविव पूर्वसूत्रोक्तसमन्वयबाधकमात्रमुद्धृतम् । भाष्येऽपि छन्दस्सूत्रव्याख्यानावसरे ‘‘अग्निगायत्र्यादि’’ इत्यग्निपदं प्रयुक्तम् । तस्मादाद्यं मतं युक्तम् । द्वितीयेऽपि छान्दोग्ये चरणाभिधानाभावेऽप्युक्तरीत्या वाक्य-द्वयोक्तस्य ज्योतिष एकत्वात् ‘‘चरणाभिधानात्’’ इत्येतन्न व्यधिकरणम् । तथाच चरणाभिधानादित्यस्यायमर्थः । छान्दोग्यस्थं ज्योतिर्विष्णुः । अस्यैव ज्योतिषोऽग्नि-सूक्ते विचरणाभिधानादिति । यद्यपि छन्दोग्योक्तस्य ब्रह्मत्वे ‘‘यद्वैतद्ब्रह्म’’ इत्यादिश्रुतिलिङ्गानि स्ववाक्यस्थानि सन्ति । तथापि तत्तत्सूक्तस्थनिरवकाश-विष्णुलिङ्गैः सावकाशश्रुतिसूक्तबाधेन भिक्षुकपादप्रसरणन्यायेन सर्ववेदानां विष्णौ समन्वयं दर्शयितुं सूत्रकारेणाग्निसूक्तस्थं लिङ्गमुक्तम् । तस्माद्द्वितीयमपि निरवद्यम् ।

प्रकाशिका

ननु भवेदेवमनुपपत्तिपरिहारो यद्युभयगतज्योतिषोरेकत्वं स्यात् । न चैवम् । वाक्यद्वयस्यापि भिन्नार्थपरत्वात् । अन्यथा ‘‘वागेवास्य ज्योतिर् अथैष ज्योतिः’’ इत्यादावपि ज्योतिश्श्रुत्यैकत्वं स्यादित्याशङ्क्याह ॥ न चेति ॥ नन्वेवमप्यग्नि-सूक्तस्थस्य ‘‘विमे कर्णा पतयतो विचक्षुः’’ इति कर्णचक्षुराद्यगोचरत्वमुच्यते तत्र च ‘‘तदेतद्दृष्टं च श्रुतं च’’ इति छान्दोग्ये तृतीये दृष्टत्वादिकमुच्यते ततो नैकार्थ्यमित्या-शङ्क्याह ॥ न चेति ॥ आकारेति ॥ शुद्धरूपेणादृष्टत्वादिविशिष्टरूपेण दृष्टत्वादिक-मित्यर्थः । यद्वा कार्त्स्न्येनादृष्टत्वादि एकदेशेन दृष्टत्वादीत्यर्थः । यद्वा सूक्ष्मस्थूलाकार-भेदेनेत्यर्थः ।

ननु कुत एवं कर्णादिविदूरत्वदृष्टत्वादेराकारभेदेनाविरोधं व्युत्पाद्य अग्निपर्यायतेज-श्शब्दस्य गायत्र्यां श्रवणेनाग्निसूक्तस्थछान्दोग्यस्थवाक्ययोरैकार्थ्यं चापाद्य ज्योतिश्श्रुत्या गुहानिहितत्वधर्मेण चानेकत्र श्रुतज्योतिष एकत्वव्युत्पादनेनैकाधिकरण्यसमर्थनक्लेशः । भिन्नविषयतयाऽधिकरणद्वयमेवास्त्वित्यत ऐकाधिकरण्ये सूत्रे भाष्ये च ज्ञापकमाह ॥ एकाधिकरणत्वादेवेति ॥ अनुक्त्वेति ॥ अन्यथाऽऽकाशस्तल्लिङ्गादत एव प्राण इत्यादा-विव गायत्र्यादिसमन्वेतव्यशब्दोपादानं स्यादिति भावः ॥ अग्नीति ॥ अन्यथा गायत्री-पदमेव प्रयुञ्जीतेति भावः । नन्वेवमपि सन्न्यायरत्नावलीकृन्मते छान्दोग्यवाक्यस्यैव ज्योतिरादिसूत्रचतुष्टये विषयत्वात्तत्र द्वितीयेऽपि छन्दोभिधानादिसम्भवेऽपि चरणशब्दित-कर्णादिविदूरत्वादेरभावेन चरणाभिधानादित्ययुक्तमित्यत आह ॥ द्वितीयेऽपीति ॥ पक्षे इति वर्तते । नन्वयुक्तमेतत् । छान्दोग्यगतज्योतिषो विष्णुत्वे तत्रत्यानां ‘‘ततो ज्यायांश्च पुरुषः, यद्वै तद्ब्रह्म, य एतामेव ब्रह्मोपनिषदं वेद’’ इति श्रुतीनां ‘‘एतामेव नाति-शीयन्ते’’ इति सर्वोत्तमत्वगानत्राणकर्तृत्वभूतादिपादत्वादिलिङ्गानां च त्यागेनान्यगत-लिङ्गोदाहरणे प्रयोजनाभावादित्याशङ्क्याह ॥ यद्यपीति ॥ एवं मतद्वये एकैकं वाक्यमुदाहरणमुपेत्य सूत्राणां सामञ्जस्यमुक्तम् ।

चन्द्रिकाबिन्दु

प्रकारान्तरेणाग्निसूक्तच्छान्दोग्यवाक्ययोरेकार्थत्वाभावमाशङ्क्य निराकरोति ॥ न चाग्निसूक्तस्थेति ॥ आकारभेदेनेति ॥ साकल्यासाकल्यरूपाकार-भेदेनेत्यर्थः । एकाधिकरणत्वे समन्वेतव्यशब्दानुक्तिं ज्ञापकत्वेन कथयति ॥ एकाधि-करणत्वादेवेत्यादि ॥ अग्निपदमिति ॥ ज्योतिश्शब्दसमानार्थकमिति शेषः । द्वितीयमते परिहर्तव्यस्यानुपपत्त्यन्तरस्याभावात् । चरणाभिधानस्य वैयधिकरण्यमात्रं परिहरति ॥ द्वितीयेऽपीति ॥ स्ववाक्यस्थानि छान्दोग्यवाक्यस्थानि । भिक्षु(क)पादेति ॥ कश्चित्काशीवासी दरिद्रो ऽनेकेषु भिक्षुकेष्वागतेषु दूरादेव तान् दृष्ट्वा स्वयं लीनस्सन्नेव आदौ पादप्रसारणेन एकं कपाटं शनैराच्छाद्य अनन्तरं स्वयमेव कपाटसमीपे स्थित्वा द्वितीयमपि कपाटम् आच्छादयति । एवमेव सूक्तसमन्वयमुखेन सर्वेषामपि शब्दानां भगवति समन्वयः व्युत्पाद्यत इति भावः ।

पाण्डुरङ्गि

आकारभेदेनेति ॥ कार्त्स्न्येन दृष्टत्वाद्यभावाददृष्टत्वादिकं किञ्चि-द्दर्शनादेर्दृष्टत्वादिकमित्यर्थः । ननु द्वितीयं मतमयुक्तम् । तत्र विषयवाक्यतयाऽभिमते ‘‘अथ यदतः परो दिवः’’ इत्यत्र प्रथमसूत्रोक्तस्य कर्णादिविदूरत्वस्याश्रवणात् । किञ्च तत्तत्प्रकरणस्थानामेव ‘‘यद्वै तद्ब्रह्म’’ इत्यादिश्रुतिलिङ्गादीनां सत्वेन तेनैव तत्रोक्तस्य ब्रह्मत्वसाधनस्योपपत्त्या सूत्रकारीयं सूक्तान्तरस्थकर्णादिविदूरत्वरूपलिङ्गग्रहणमनुपपन्न-मित्यत आह ॥ द्वितीयेऽपीत्यादिना ॥ उक्तरीत्येति ॥ ‘‘ज्योतिर्हृदय आहितं यत्’’ इत्यग्निसूक्तस्थस्यैव ज्योतिषश् छान्दोग्ये ‘‘ज्योतिश्श्रुत्या योऽयमन्तर्हृदये’’ इति हृदय-निहितत्वधर्मेण च शाखान्तराधिकरणन्यायेन प्रत्यभिज्ञाय मानत्वेनैकत्वादित्युक्तरीत्येत्यर्थः ॥ स्ववाक्यस्थानीति ॥ तथाच स्ववाक्यस्थलिङ्गादिपरिग्रहे लाघवमिति भावः ॥ भिक्षुकपादेति ॥ भिक्षुकस्य वामनस्य बलिदत्तत्रिपादस्थलग्रहणमिषेण सर्वां त्रिलोकीं ग्रहीतुमभिवृद्धीकृतप्रसारणवदित्यर्थः ।