केचित्तु
रामानुजमतपरामर्शः
तात्पर्यचन्द्रिका
केचित्तु ॥ कृत्स्नस्य जगतः प्रसिद्धप्राणाधीनप्रवृत्त्यादिदर्शनात्प्रस्ताववाक्ये प्रसिद्धप्राण एवोच्यत इत्याकाशाधिकरणादधिकाशङ्कायां शिलाकाष्ठादिषु तदभावात् ‘‘सर्वाणि’’ इत्यस्यायोग इति परिहारोऽभिप्रेत इत्याहुः । तन्न । प्राणाधीनप्रवृत्तिकं शरीरमिव तदनधीनप्रवृत्तिकं शरीरादन्यदपि बहुपश्यतः पूर्वपक्षिणः सर्वं प्राणाधीनप्रवृत्तिकमिति शङ्कायोगात् । ग्रन्थस्तु स्पष्टार्थः ॥
प्रकाशिका
रामानुजीयमतमपाकरोति ॥ केचित्त्विति ॥ प्रस्तोतर्यादेवतेति वाक्ये निखिलजगत्कारणतया प्राणशब्दनिर्दिष्टः प्रसिद्धः प्राण; परात्मा वेति सन्देहे पूर्वपक्षादिकमनुवदति ॥ कृत्स्नस्येति ॥ शिलेति ॥ शिलाकाष्टाद्यचेतनेषु प्राणाय-त्तस्थित्यदर्शनात् ‘‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्यु-ज्जिहते’’ इति सर्वपदायोगाद् अत एव सर्वाणि ह वा इमानीति प्रसिद्धवन्निर्देशादेव हेतोः प्राणशब्दनिर्दिष्टः परमात्मैवेति सिद्धान्त इत्यर्थः । पूर्वपक्षस्य निर्दलत्वेनानूदितं निरस्यति ॥ तन्नेत्यादिना ॥ एतेन यत्केनचित्प्रलपितं पूर्वत्राकाशपदेन परमाकाशस्य परप्रकृति-रूपस्य ग्रहणेन तदभेदादस्त्वीश्वर आकाशः । प्रस्ताववाक्यगतप्राणस्तु ‘‘प्राणाद्ध्येव खल्विमानि भूतानि’’ इत्यादिश्रुतेः प्रसिद्धप्राण एवेति शङ्कायां सर्वकारणत्वादिलिङ्गा-त्प्राणश्शिव एव । प्राणाद्ध्येवेति श्रुतेस्त्वानन्दरूपस्य ब्रह्मणः कारणत्व एव तात्पर्यमिति परिहार इति । उक्तं च–
‘‘प्राणे तु का गतिरिह प्राणाद्ध्येवेत्यपि श्रुतेर्नैतत् ।
शिव एव सोपि लिङ्गात्सा श्रुतिरानन्दविश्रान्ता’’ ॥ इति तन्निरस्तम् ।
पूर्वत्राप्याकाशाद्वायुरिति श्रुतेस्सत्वात् । ऐकाधिकरण्ये त्वत एवेति विन्यासायोगात् । प्राणाद्ध्येवेत्यादेर्विष्णुपरत्वेनानन्दमयाधिकरण एव साधितत्वाच्च । सिद्धान्तोऽप्ययुक्तः ।
प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः ।
प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः ॥
इत्यादि व्याख्यानरूपस्मृतिविरोधाच्च । ‘‘प्राणः स्थूणा अयं वाव शिशुर्योऽयं मध्यमः प्राणः’’ इति श्रुतिविरोधाच्च ।
द्वावात्मानौ हि देवेषु द्वौ प्राणौ द्वौ च चेतनौ ।
अज्ञानाभिभवास्पृष्टौ वायुर्नारायणश्च तौ ।
तदन्ये चेतनास्सर्वे प्राणाश्चात्मान एव च ।
अज्ञानाभिभवस्पृष्टास्तस्मात्ते ह्यधमास्स्मृताः ।
मध्यमो वायुरेवैक उत्तमः केवलो हरिः ॥
इति ब्रह्माण्डपुराणविरोधाच्चेति । उपन्यासमुखेनैव टीकाग्रन्थस्य विवृतत्वान्नाक्षरार्थ-वर्णने यतितव्यमित्याह ॥ ग्रन्थस्त्विति ॥
चन्द्रिकाबिन्दु
अभ्यधिकाशङ्काया अनुत्थितिरेवेति दूषणमाह ॥ तन्न, प्राणा-धीनेति ॥
॥ इति प्राणाधिकरणम् ॥