०९ अद्वैतमतपरीक्षा

तन्न

अद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

तन्न । पूर्वपक्षे प्राणस्य जडवायुत्वे प्रश्ने ‘‘कतमा सा देवता’’ इति प्रतिवचने च ‘‘सैषा देवता’’ इति देवताशब्दायोगात् । तदभिमानिचेतनत्वे च ‘‘वायुविकारस्यापञ्चवृत्तेः प्राणस्योपादानं युक्तम्’’ इत्यादित्वत्पूर्वपक्षभाष्यविरोधात् । स्वापवाक्ये मानान्तरसंवादस्यैवाभावेन तं स्वीकृत्य पूर्वोत्तरपक्षोक्त्ययोगाच्च । तथा हि–

न हि स्वापे पृथिव्यादेरक्षाणां वा विनाशधीः ।

प्रत्यक्षादनुमानाद्वा देवतायां जडेऽथवा ॥

न तावत्स्वापकाले जडे देवतायां वा महाभूतानां लयादौ मानान्तरसंवादः । तेषां स्वापकालेऽप्यलीनानामेवानुभवात् । दृष्टिसृष्टिमते च तदा वायुविकारादेरप्य-भावेन तत्र भूतलयायोगात् । नापि स्वापकाले जडे वा देवतायां वेन्द्रियाणां लये प्रत्यक्षसंवादः । तेषामतीन्द्रियत्वात् । नापि स्वापकाले वायुवृत्तेरलोपादिन्द्रियवृत्तीनां च लोपात्तत्र तेषां लयोऽनुमीयत इत्यनुमानसंवादोऽस्तीति वाच्यम् । त्वया जन्मादि-सूत्रे ब्रह्मण उपादानत्वेऽपि श्रुतिसंवाद्यनुमानानामुक्तत्वात् । यस्मिन्सव्यापारे सति यन्निर्व्यापारं तत्तत्र लीयत इति व्याप्त्यभावाच्च । पूर्वेद्युर्येन दृष्टं तेनैव चक्षुषा पश्यामीत्यादिप्रत्यभिज्ञाविरोधाच्च । ‘‘यथा सोम्य वयांसि वासो वृक्षं सम्प्रतिष्ठन्ते एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते’’ इति प्रक्रम्य ‘‘चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च’’ इत्यादिना सुप्तौ चक्षुरादीनामनाशस्यैव श्रवणाच्च ।

किञ्चाकाशाद्वाय्वाद्युत्पत्तिरपि मानान्तरसंवादिनी । अवकाशात्पवनस्य पवनाच्च फूत्काराद्दहनस्य दहनाच्चोष्मतः स्वेदस्य वृष्टितश्च पार्थिवपदार्थानामुत्पत्तेर्दर्शनादिति नाकाशवाक्यात्प्राणवाक्येऽधिकाशङ्का । न च ‘‘कतमा देवतोद्गीथमन्वायत्ता । आदित्य इति होवाच’’ इत्यादिनोद्गीथादावादित्यादेरब्रह्मण एव देवतात्वेनोक्तत्वा-त्तत्सन्निहिते प्रस्तावेऽप्यब्रह्मण एव देवतात्वमित्यधिकाशङ्केति वाच्यम् । पूर्वाधि-करणेऽपि ‘‘अपां का गतिरिति । असौ लोक इति होवाच’’ इत्यादिकेनाब्रह्मण एव गतित्वेनोक्ततया तत्सन्निधानात् ‘‘अस्य लोकस्य का गतिः’’ इति वाक्येप्याकाशस्याब्रह्मत्वं युक्तमिति साम्यात् ।

प्रकाशिका

प्राणशब्दस्य जडपरत्वं वा चेतनपरत्वं वेति विकल्प्य क्रमेण निरस्यति ॥ पूर्वपक्ष इति ॥ उपलक्षणमेतत् । प्रस्तावान्वायत्तत्वस्य चायोगादित्यपि ध्येयम् । चेतनएव देवताशब्दस्य मन्त्राधिष्ठातृत्वस्य च योगात् । ननु ‘‘कतमा सा देवता प्रतिहारमन्वायत्ता अन्नमिति होवाचे’’त्यादावचेतनेऽपि देवताशब्दोऽस्तीति चेद् विप्रति-पत्तेरिति भावः । यदपि गतार्थतामाशङ्क्य द्वेधाऽभ्यधिकाशङ्काप्रदर्शनं तदपि नेत्याह ॥ स्वापवाक्य इति ॥ स्यादेवं यदि ॥ ‘‘यदा वै पुरुषस्स्वपिति’’ इति वाक्ये विवक्षितं लक्षणया भूतलयाधारत्वं मुख्यवृत्त्या वागादीन्द्रियाधारत्वं च प्रसिद्धप्राणस्य मानान्तरसिद्धं स्यात् तदा तदनुसारात्प्रस्ताववाक्येऽपि तथा स्यात् । न चैवमस्तीत्यर्थः ।

मानान्तरसंवादाभावमेवाह ॥ न हीति ॥ इन्द्रियलयद्वारा भूतलयपरत्वाशयेनोक्तं पृथिव्यादेरिति ॥ मुख्यवृत्त्या इन्द्रियलयपरत्वपक्षाशयेनोक्तमक्षाणामिति ॥ लयशब्दार्थो विनाशेति ॥ प्रत्यक्षादिति ॥ एतेन मानान्तरं प्रत्यक्षमनुमानं वेति विकल्प्य नोभाभ्यामित्युक्तं भवति ॥ देवतायामिति ॥ एतेन प्राणं वागप्येतीत्यत्र प्राणशब्दः किं जडवायुपर उत तदभिमानिदेवताचेतनपर इति विकल्पस्सूचितः । वागादीनां भूतपरत्व-मुपेत्य प्राणे पृथिव्यादिलयाधारत्वमुच्यत इत्याद्यः पक्षः । तत्र तावन्मानान्तरसंवादाभाव-मुपपादयति ॥ न तावदिति ॥ जड इति प्राणशब्दार्थस्य विकल्पेनानुवादः ॥ मानान्त-रेति ॥ प्रत्यक्षानुमानरूपेत्यर्थः ॥ अनुभवादिति ॥ प्रत्युत तद्विसंवाद एवेति भावः ।

ननु दृष्टिसृष्टिपक्षे सर्वदृष्टेरभावात्कथमेतदित्यत आह ॥ दृष्टीति ॥ अक्षाणां वेति द्वितीयपक्षोपलम्भं विशदयति ॥ नापीति ॥ तेषाम् इन्द्रियाणाम् । एतेन प्रत्यक्षान्न विनाशधीरित्युपपादितम् । अनुमानादित्येतदुपपादयति ॥ नापीति ॥ तत्र वायुविकारे । तेषाम् इन्द्रियाणाम् । इन्द्रियाणि प्राणे लीयन्ते । प्राणवृत्तौ सत्यामपीन्द्रियवृत्तीनां परिलुप्यमानत्वात् । यस्मिन्सव्यापारे सति यन्निर्व्यापारं तत्तत्र लीयते । यथा सम्प्रतिपन्न-मित्यनुमीयत इत्यर्थः । उक्तत्वादिति ॥ तथा च ‘‘यतो वै’’ इत्यादिवाक्यस्यापि मानान्तरसंवादेन प्राबल्याद्दौर्बल्योक्त्ययोगादिति भावः । न चोपादानत्वे मानान्तर-संवादेऽपि न भूतलयाधारत्व इति वाच्यम् । उपादानस्यैव लयाधारत्वादिति तात्पर्यात् ॥ व्याप्त्यभावाच्चेति ॥ सम्प्रतिपन्नदृष्टान्ताभावादिति भावः । यद्वा परमात्मनोऽपि तथाविधस्य सत्त्वेन तत्र लयाद्यनङ्गीकारेण व्यभिचारादिति भावः ।

यद्वा कुठारे सव्यापारे सति निर्व्यापारं खड्गादिकं तत्र न लीयत इति व्यभिचारा-दिति भावः । प्रत्यक्षविरोधं चानुमानस्याह ॥ पूर्वेद्युरिति ॥ एतेन ‘‘वागप्येति’’ इत्यादिश्रुतिविरोधात्प्रत्यभिज्ञाभ्रान्तिरिति निरस्तम् । प्रत्यक्षस्य बलवत्त्वेन श्रुतिगताप्यय-शब्दस्य निर्व्यापारत्वार्थान्तरपरत्वेन सावकाशत्वादिति भावः । श्रुतिविरोधं चाह ॥ यथेति ॥ एतत्सर्वमिति सर्वशब्दार्थमेव दर्शयति ॥ चक्षुश्चेति ॥ अनाशस्येति ॥ सम्प्रतिष्ठितिशब्दस्यापि लयार्थत्वे पक्षिणामावासवृक्षाश्रयत्वदृष्टान्तानुपपत्तिरिति भावः । ‘‘कस्मिन्सर्वे प्रतिष्ठिताः’’ इति गार्गिकृतप्रश्नं प्रति परिहारत्वानुपपत्तिश्चेति भावः । परे आत्मनीत्युक्त्या च वायुवृत्तौ चक्षुरादीनामप्ययानुमानमसमञ्जसमिति सूचितम् । श्रवणात् षट्प्रश्ने । एवं स्वापवाक्यं न मानान्तरसंवादीति तदनुसारेण प्रस्ताववाक्यं न प्राणपरं प्रत्युत जन्माधिकरणे त्वदुक्तदिशा यतो वेत्यादिवाक्यमेव मानान्तरसंवादीति तदनुसारेण ब्रह्मपरमेवेति नाभ्यधिकाशङ्कावकाश इत्युक्तं, इदानीं यदप्याकाशाद्वायुरित्यादिवाक्यं त्वित्यादिना पूर्ववैषम्यवर्णनं तदपि नेत्याह ॥ किञ्चेति ॥ पवनस्य दहनस्येत्यादेरुत्पत्ते-र्दर्शनादित्यन्वयः । अवकाशाभावे पवनादर्शनादिति भावः । कथं पवनाद्दहनस्योत्पत्ति-दर्शनमित्यत उक्तं फूत्कारादिति ॥ एवमूष्मत इत्यपि ध्येयम् । वक्ष्यते च भाष्ये भगव-त्पादैः ‘‘आप’’ इत्यत्र ‘‘घर्मात्स्वेदादिदृष्टेः’’ इति ।

यदपि च ‘‘आदित्योऽन्नं चोद्गीथप्रतिहारदेवता’’ इत्यादिनोक्तं परभाष्ये ‘‘कतमा सा देवतेति । आदित्य इति होवाच । सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैस्सन्तं गायन्ति । सैषा देवतोद्गीथमन्वायत्ता’’ इति । यथा ‘‘कतमा सा देवतेति । अन्नमिति होवाच । सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति । सैषा देवता प्रतिहारमन्वायत्ता’’ इत्यादित्यान्नयोरब्रह्मत्वदर्शनात्तत्सामान्यात् प्राणस्याप्यब्रह्मत्वमिति शङ्कान्तरं, तदप्यनूद्य पूर्ववैषम्येण निरस्यति ॥ न चेति ॥ ‘‘उद्गीथमन्वायत्ता’’ इत्यर्थानुवादोऽयम् । पूर्वाधिकरणविषयवाक्येऽपि ‘‘का साम्नो गतिरिति । स्वर इति होवाच । स्वरस्य का गतिरिति । प्राण इति होवाच । प्राणस्य का गतिरिति । अन्नमिति होवाच । अन्नस्य का गतिरिति । आप इति होवाच । अपां का गतिरिति । असौ लोक इति होवाच’’ इति शालावत्यप्रश्नोत्तरत्वेन दाल्भ्येन स्वर्गलोकस्य गतित्वेनोक्तौ ‘‘अप्रतिष्ठितं वै किल ते दाल्भ्यसाम’’ इति तत्पक्षे प्रत्याख्याते दाल्भ्येन पुनः ‘‘अमुष्य लोकस्य का गतिः’’ इति प्रश्ने कृते ‘‘अयं लोक इति होवाच’’ इति पृथिवीलोकं गतित्वेन शालावत्यो दाल्भ्यमुवाच । तत्पक्षे च जैबिलिना ‘‘अन्तवद्वै किल ते शालावत्यसाम’’ इति प्रत्याख्याते तर्हि ‘अस्य लोकस्य का गतिः’ इति शालावत्य-कृतप्रश्नोत्तरत्वेन ‘आकाश इति होवाच’’ इति श्रवणात्प्रायपाठरूपसन्निधानादित्यर्थः ।

ननु ‘‘असौ लोकः’’ इत्यादौ ब्रह्मलिङ्गाभावात् ‘‘अप्रतिष्ठितं किल’’ इत्यादिना तस्य दूषितत्वाच्च स्वर्गादेरब्रह्मत्वेऽप्याकाशस्य सर्वभूतकारणत्वादिब्रह्मलिङ्गवत्त्वात् ‘‘परोवरीयो हास्य भवति’’ ‘‘इत्यादिफलश्रवणाच्च ब्रह्मत्वमेव । प्रायपाठस्य संशये सत्येव निर्णायकत्वेनेह सन्देहाभावात् । उक्तं च पूर्वतन्त्रे ‘‘विशये प्रायदर्शनात्’’ इति चेद्धन्त तर्हीहापि भूतसंवेशनादिब्रह्मलिङ्गाद्ब्रह्मपरमस्तु । तदेतदुक्तं साम्यादिति ॥ न चादित्यादावुच्चैस्सन्तं गायन्तीत्यादिब्रह्मलिङ्गावभासान्न स्वर्गादिवाक्यतौल्यमिति वाच्यम् । एवं तर्हि तस्य तत एव ब्रह्मपरत्वावश्यम्भावेनाब्रह्मसन्निधानमसिद्धमिति नाभ्यधिकाशङ्का युक्ता । उक्तं च–

‘‘आदित्यसंस्थितो विष्णुर्यत्सदा सर्वगीतभुक् ।

राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता ।

उद्गीथदेवता तस्मात्स एव पुरुषोत्तमः ।

अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना ।

प्रतिहारदेवताऽतस्स प्रतिहारो हि भोजनम्’’ ॥ इति स्मृतावादित्यादेर्विष्णुत्वम् ।

उक्तं च सुधायां ‘‘आदित्यान्नयोरब्रह्मत्वस्याप्यसिद्धेः । तत्रापि सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैस्सन्तं गायन्ति’’ इत्यादिब्रह्मलिङ्गसद्भावात् । ‘‘अन्नमेव प्रतिहर-माणानि’’ इत्येतस्य तु प्रायपाठादुपजीवनार्थत्वेन ग्राह्यत्वात्’’ इति । एतेनैतत्प्राणस्य ब्रह्मत्वनिर्णयावश्यम्भावात्तन्निर्णायकस्यान्यस्याभावादत्रैव निर्णीयत इति निरस्तम् । ब्रह्मलिङ्गस्यात्र सत्त्वात् । पक्षान्तरप्रापकस्य चाभावेन संशयपूर्वपक्षयोरयोगेन पूर्वन्यायेनैव निर्णयसिद्धेरिति । उक्तं च सुधायां ‘‘अत्रापि संशयाद्ययोगात्’’ इति ।

चन्द्रिकाबिन्दु

ननु पूर्वपक्षोऽभिमानिचेतनविषय एव । तथा च न देवता-पदास्वारस्यमित्यत आह ॥ तदभिमानीति ॥ तेषां महाभूतानाम् ॥ अनुभवादिति ॥ अन्येनेति शेषः । ननु स्वापकाले स्वापकर्त्रा भूतानामदर्शनात् प्राणे भूतलयोऽस्त्वित्यत आह ॥ दृष्टिसृष्टीति ॥ अनुमानसंवादमाशङ्क्य निराकरोति ॥ नापीति ॥ त्वया जन्मादीति ॥ उत्पत्तिलयाधिष्ठानत्वमुपादानत्वं तथा प्रमाणगृहीतब्रह्मविषयः । यतो वेत्यादिवाक्यानुसारेणात्रापि ब्रह्मविषय एव पूर्वपक्षः किं न स्यादित्यभिप्रायः । अनुमान-मूलभूतव्याप्तिं खण्डयति ॥ यस्मिन्निति ॥ सुषुप्तिजागरणकर्त्रोर्यज्ञदत्तदेवदत्तयोर्व्यभिचार इति भावः । आकाशाधिकरणेऽभ्यधिकाशङ्काप्रकारस्य साम्यं दर्शयति ॥ किञ्चेति ॥ ब्रह्मादित्यश्रुतिसाहचर्यात् प्राणशब्दस्याब्रह्मपरत्वमिति प्रकारान्तरेणाभ्यधिकाशङ्काप्रकार-माशङ्क्य निराकरोति ॥ न च कतमेति ॥ साम्यादिति ॥ तथा च नाभ्यधिकेयमिति भावः ।

पाण्डुरङ्गि

अत्र हि पूर्वपक्षे प्राणशब्देन जडवायुः किं वा तदभिमानिचेतन इति विकल्पं मनसि निधायाद्ये दोषमाह ॥ पूर्वपक्ष इति ॥ जडे देवताशब्दस्य क्वाप्य-प्रयोगादिति भावः । द्वितीयं दूषयति ॥ तदभिमानीति ॥ मानान्तरसंवादेन प्राबल्य-माश्रित्याभ्यधिकाशङ्कया कृतं पूर्वपक्षं दूषयति ॥ स्वापवाक्य इति ॥ अक्षाणा-मतीन्द्रियत्वेन प्रत्यक्षादनुमानाद्वेति अव्यवस्थितविकल्पायोगाद्व्यवस्थां दर्शयति ॥ न तावदित्यादिना ॥ ननु दृष्टिसृष्टिपक्षमनुसृत्य स्वाप इन्द्रियाणां लय उच्यत इत्यत आह ॥ दृष्टिसृष्टिमत इति ॥ नन्विन्द्रियाणि वायौ स्वापकाले विलीयन्ते वायुव्यापारदशायां लुप्तव्यापारत्वादित्यनुमानेन लयोऽनुमीयत इत्याशङ्क्य निराकरोति ॥ नापीति ॥ व्याप्त्यभावाच्चेति ॥ देवदत्ते सव्यापारेऽपि निर्व्यापारस्य यज्ञदत्तस्य तत्र लयाभावादिति भावः । अप्राधान्यक्रमेणादौ व्यभिचारमुक्त्वा बाधमाह ॥ पूर्वेद्युरिति ॥