०८ अद्वैतमतानुवादः

अन्ये तु ‘‘प्रस्तोतर्या देवताप्रस्तावम्’’ ..

अद्वैतमतानुवादः

तात्पर्यचन्द्रिका

अन्ये तु ‘‘प्रस्तोतर्या देवताप्रस्तावम्’’ इत्युपक्रम्य श्रूयते ‘‘कतमा सा देवता । प्राण इति होवाच । सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति’’ इति । तत्र प्राणशब्दः प्रसिद्धप्राणपर इति प्राप्ते ब्रह्मपर एव । सर्वभूतसंवेशनादिब्रह्मलिङ्गा-दिति सिद्धान्तः । न चैवं पूर्वेणेदं गतार्थम् । ‘‘यदा वै पुरुषः स्वपिति । प्राणं तर्हि वागप्येति । प्राणं चक्षुः’’ इत्यादिश्रुतेः स्वापकाले प्रसिद्धप्राणे सर्वभूत-सारेन्द्रियलयाद्युक्तिद्वारा सर्वभूतलयादिपराया मानान्तरानुगृहीतत्वेन प्रबलत्वात् । ब्रह्मणि भूतलयादिबोधिकायाश्च ‘‘यतो वा इमानि’’ इत्यादिश्रुतेस्तदननुगृहीतत्वेन दुर्बलत्वात् । प्रस्ताववाक्यमपि प्रबलानुसारेण प्रसिद्धप्राणे सर्वभूतलयादिपरम् । न तु ब्रह्मणि सर्वभूतलयादिपरम् । यद्वा प्रबलस्वापवाक्यानुसारेण प्रस्ताववाक्यमपि प्रसिद्धप्राण इन्द्रियमात्रलयादिपरम् । ‘‘आकाशाद्वायुः’’ इत्यादिवाक्यं तु न मानान्तरानुगृहीतमिति तदनुसारेण ‘‘सर्वाणि भूतान्याकाशादेव’’ इति वाक्यं न वाय्वादिमात्रकारणभूताकाशपरमिति पूर्वस्मादधिकाशङ्कायां पुंवाक्ये मानान्तरानुग्रहतदभावाभ्यां प्राबल्यदौर्बल्ये स्तः । अपुंवाक्येऽनाशङ्कितदोषे न ताभ्यां ते स्त इति तन्निरासार्थत्वादस्येत्याहुः । तदुक्तं भामत्याम् ।

पुंवाक्यस्य बलीयस्त्वं मानान्तरसमागमात् ।

अपौरुषेयवाक्ये तत्सङ्गतिः किं करिष्यति । इति ।

प्रकाशिका

एवं स्वमतेऽधिकरणशरीरं समर्थ्य परोक्तं निरसितुमाह ॥ अन्ये त्विति ॥ ‘‘कतमा सा’’ इति तच्छब्दपरामर्शविषयं दर्शयितुम् ‘‘इत्युपक्रम्य’’ इत्युक्तम् । ‘‘अभिसंविशन्ति । प्राणमभ्युज्जिहते सैषा देवताप्रस्थावमन्वायत्ता’’ इति छान्दोग्य-प्रथमाध्यायगतप्राणशब्दो विषय इत्यर्थः ॥ प्रसिद्धेति ॥ वायुवृत्तिपरो ब्रह्मपरो वेति विषये प्राणशब्दस्य प्रसिद्धप्राणे रूढत्वेन प्रथमत्वेनानुपसञ्जातविरोधित्वेन च प्रबलत्वात् तदनुसारेण चरमस्योपसञ्जातविरोधित्वेन दुर्बलस्य सर्वभूतसंवेशनादेर्नेतव्यत्वाद्वायुवृत्तिरूप-प्राणपर इति प्राप्ते प्राणशब्दादपि प्रथमत्वेनानुपसञ्जातविरोधिनः ‘‘कतमा सा देवता’’ इति प्रश्नस्य चेतनवाचिदेवतापदमहिम्ना ब्रह्मविषयत्वात् प्रश्नानुसारेण परिहारस्य व्याख्येय-त्वाद् रूढ्या प्राणपरपरिहारानुरोधेन प्रश्नव्याख्याने च प्राणे सर्वभूतसंवेशनादिलिङ्गानु-पपत्तेर्ब्रह्मपर एवेति सिद्धान्त इत्यर्थः ।

नन्वाकाशाधिकरण एवास्यार्थस्योक्तत्वान्नेदमारभ्यमित्याशङ्क्याधिकाशङ्कयाऽऽरम्भ इत्याह ॥ न चेति ॥ ‘‘प्रस्तोतर्या देवता’’ इत्यादिप्रस्ताववाक्यं स्वापवाक्यानु-सारात्प्रसिद्धप्राणे भूतलयादिपरं, ‘‘यतो वै’’ इत्यादिकारणवाक्यानुसाराद्ब्रह्मणि वेति चिन्तायां ‘‘यदा वै पुरुषस्स्वपिति’’ इत्यादिस्वापवाक्यानुसारात्प्राण एव । न च स्वाप-वाक्यं न प्रसिद्धप्राणपरमिति वाच्यम् । स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रिय-वृत्तीनां परिलुप्यमानत्वेन प्रबोधकाले प्रादुर्भाववत्त्वेन च प्रत्यक्षेणानुमानेन चासंवादात् ।

ननु स्वापवाक्य इन्द्रियाणां लय उच्यते प्रस्ताववाक्ये भूतानामिति किं केन सङ्गतमिति चेन्न । भूतसारत्वादिन्द्रियाणां तद्द्वारा सर्वभूतलयप्रतिपादने तात्पर्यात् । न च ‘‘यत्प्रयन्त्यभिसंविशन्ति’’ इति ब्रह्मणि सर्वभूतलयप्रतिपादककारणवाक्यानुसारेण प्रस्ताववाक्यं ब्रह्मणि सर्वभूतलयपरं किं नेति वाच्यम् । स्वापवाक्यस्य प्रत्यक्षादि-मानान्तरसंवादित्वेन प्रबलत्वात् कारणवाक्यस्य ब्रह्मणि भूतलयस्य प्रत्यक्षाद्यसिद्धतया तद्रहितत्वेन दुर्बलत्वात् प्रस्ताववाक्यं स्वापवाक्यानुरोधेन प्राण एव सर्वभूतलयादि-परमित्यर्थः । एवं स्वापवाक्ये इन्द्रियपदं भूतपरमुपेत्यैकार्थत्वमुक्तम् । इदानीं प्रस्ताव-वाक्यगतभूतपदमेव भूतसारेन्द्रियपरम् । स्वापवाक्यस्योक्तदिशा बलवत्त्वादित्याशयेन पक्षान्तरमाह ॥ यद्वेति ॥ तथा चेन्द्रियलयाद्याधारत्वं वायुवृत्तेरेवेति प्रस्ताववाक्यं प्रसिद्धप्राणपरमेवेति भावः ।

ननु यथा प्रबलस्वापवाक्यानुरोधेन प्रस्ताववाक्यं प्रसिद्धप्राणपरमिति शङ्कात्रोच्यते तथा पूर्वत्रापि सम्भूतवाक्यानुरोधेनाकाशादेवेत्यत्राकाशपदं भूतपरमिति शङ्का स्यात् । अतो नेयमभ्यधिकाशङ्केत्याशङ्क्य सम्भूतवाक्यस्यैतद्बाधने प्राबल्याभावादित्याह ॥ आकाशाद्वायुरिति ॥ परिहारप्रकारमाह ॥ पुंवाक्य इति ॥ तस्य सम्भावितदोषत्वादिति भावः । तथाच स्वापवाक्यस्य प्राबल्याभावान्न तद्वाक्यानुरोधेन प्रस्ताववाक्यं प्राणपरं किन्तु यतो वेत्याद्यनुरोधेन ब्रह्मलिङ्गेन च ब्रह्मपरमिति । तत्सङ्गतिर् मानान्तरसङ्गतिः ।

चन्द्रिकाबिन्दु

संवेशनादीति ॥ लयादीत्यर्थः । ननु प्रसिद्ध्या पूर्वपक्षिते ब्रह्मलिङ्गेन पूर्वपक्षनिरास इति आकाशाधिकरणे स्थितम् । तथा च तेन गतार्थतेत्याशङ्क्य निराकरोति ॥ न चेति ॥ ननु ‘‘यदा वै पुरुषः’’ इत्यादिस्वापश्रुतेर्मुख्यप्राणे भूतलय-प्रतिपादकत्वम् । तत्रेन्द्रियाणामेव प्राणे लयस्य प्रतिपादनादित्यत आह ॥ सर्वभूत-सारेन्द्रियेति ॥ मानान्तरेति ॥ मानान्तरं च नापि स्वापकाले वायुवृत्तेरलोपादित्यादिना प्रदर्श्यते । अनुमानरूपमिति ध्येयम् ॥ प्रबलत्वादिति ॥ एवं च प्रबलैतत्प्रस्वापवाक्य-संवादेन प्रस्वापवाक्यस्यापि भूतपरत्वमङ्गीकर्तव्यमिति भावः । नन्वनेन प्रकारेण प्रस्वापवाक्यस्य ब्रह्मपरताया अपि वक्तुं शक्यत्वात्तत्रापि यतो वेत्यादि वाक्यसंवाद-सम्भवादित्याशङ्क्य यतो वेत्यादिवाक्यानां मानान्तराननुगृहीतत्वेन न स्वापवाक्यव-त्प्राबल्यम् । येन तत्संवादोऽपेक्षणीयः स्यादिति परिहारमाह ॥ ब्रह्मणि भूतलया-दीत्यादिना ॥ यद्वा प्रबलेति हेतुगर्भं विशेषणम् । ननु नेयम् अभ्यधिकाशङ्का । आकाशाधिकरणेऽप्येतच्छङ्कायाः कर्तुं शक्यत्वादित्यतस्तत्रैवं शङ्का न प्रसरतीत्याह ॥ आकाशाद्वायुरित्यादि ॥ अभ्यधिकाशङ्कापरिहारप्रकारं दर्शयति ॥ पुंवाक्य इति ॥

पाण्डुरङ्गि

मानान्तरानुगृहीतत्वेनेति ॥ सर्वाणि भूतानि, प्राणे विलीयन्ते सर्वभूतसारेन्द्रियलयाधिकरणत्वाद् इति मानान्तरानुगृहीतत्वेनेत्यर्थः । ननु ब्रह्मण्यपि भूतलयादिबोधकश्रुतिः प्रबलेत्यत आह ॥ ब्रह्मणीति ॥ सन्दिग्धवाक्यानुसारेणा- सन्दिग्धवाक्यस्य नयनेऽरुच्याऽऽह ॥ यद्वेति ॥