०५ पूर्वपक्ष्यभिप्रायान्तरकथननिरासः

केचित्तु ‘‘अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या..

पूर्वपक्ष्यभिप्रायान्तरकथननिरासः

तात्पर्यचन्द्रिका

केचित्तु ‘‘अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या’’ इति सुधायाः प्रातीतिकार्थं गृहीत्वा हेतुताया अन्वयव्यतिरेकमात्रगम्यत्वान्न श्रुतिस्तत्र प्रमाणमिति पूर्वपक्ष्यभिप्राय इत्याहुः । तन्न, यागादेः स्वर्गादावहेतुत्वापातात् । अन्ये तु व्यतिरेकगर्भिताया हेतुतायास्तद्रहिते परमात्मन्ययोगान्न तस्य जीवनहेतुता श्रुत्यापि बोधयितुं शक्येति तदभिप्राय इत्याहुः । तदपि न । नित्यविभूनामहेतुत्वापत्तेः । तस्माज्जीवनादिहेतुत्वं न ब्रह्मगतम् । नाप्यन्यगतं तदधीनम् । जन्मादि-सूत्रोक्तस्थितिहेतुताया असम्भवादिप्रसङ्गात् । तस्मान्मुख्यवायुरेव प्राण इति स एवानन्दमयः । तस्यान्तरधिकरणे पूर्वपक्षितेन्द्रादिवदानन्दवल्ल्यामानन्दमयाद् भेदव्यपदेशाभावेनाकाशाधिकरणे पूर्वपक्षिताकाशवच्च जडत्वाभावेन स्वत एवानन्दमयत्वसम्भवात् । तस्मात् ‘‘अन्वयव्यतिरेकतः’’ इत्यनुव्याख्या-नोक्ताधिकाशङ्का युक्ता । इयं च प्रमेयाश्रिता ।

प्रकाशिका

ननु नापि श्रुतिसिद्धमित्याशङ्कानिरासावयुक्तौ । ‘‘अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या । न च परमात्मनः प्राणशब्दप्रवृत्तिनिमित्तजीवनादिहेतुतावगमकान्वय-व्यतिरेकौ पश्यामः’’ इति सुधाविरोधात् । तत्रान्वयव्यतिरेककल्प्यताया एव हेतुत्वस्य प्रतीतेरित्युत्तानदृशां भ्रममनूद्य निरस्यति । केचित्त्विति ॥ अन्वयव्यतिरेकमात्रेति ॥ प्रत्यक्षसिद्धान्वयव्यतिरेकेत्यर्थः ॥ तत्रेति ॥ अन्वयव्यतिरेकद्वारकहेतुतायाम् ॥ यागादे-रिति ॥ तत्र प्रत्यक्षसिद्धान्वयव्यतिरेकयोरप्रसरादिति भावः । एतेन न च पश्याम इति सुधागतस्य आगमेन न पश्यामः येन जीवन्तीत्यादेरपि मुख्यविषयत्वात्’’ इत्यपि तात्पर्यमुक्तं भवति । एतेन ‘‘अन्वयव्यतिरेकप्रमाणकत्वाद्धेतुहेतुमद्भावस्य’’ इति न्यायविवरणटीकापि क्वाचित्कत्वाशयेति दर्शितम् ।

नन्वस्त्वीश्वरहेतुत्वे श्रुतिप्रमाणशङ्का । तन्निरासस्तु न मुख्यप्राणविषयत्वमुपेत्य । किं त्वन्यथैवेति भ्रममनूद्य निरस्यति ॥ अन्ये त्विति ॥ तद्रहित इति ॥ नित्यविभुत्वाद्देशतः कालतो वा स नास्तीति भावः । नित्यविभूनां प्रकृत्यादीनाम् । ‘‘प्राणशब्दप्रवृत्ति-निमित्तस्य वायावेव’’ति टीकास्थावधारणस्य स्वातन्त्र्यरूपस्यापि न विष्णावित्यर्थान्तर-मप्युपेत्याह ॥ नापीति ॥ स्वातन्त्र्यस्यापि शब्दप्रवृत्तिहेतुत्वेन प्राणो विष्णुस्स्यादिति शङ्काभिप्रायः ॥ असम्भवादीति ॥ भगवति जीवनरूपस्थितिहेतुत्वस्याभावेनान्यत्र भावेन चासम्भवातिव्याप्ती स्यातामिति भावः । टीकोक्तमानन्दमयाक्षेपमनूद्य समर्थयते ॥ स एवेति ॥ महाभोग इत्यानन्दमयत्वेनोक्तस्य प्राणस्य मुख्यत्वात्प्रागुक्तानन्दमयोऽपि स एव स्यादित्यर्थः । इन्द्रादिवद् इन्द्रादेरिव ॥ भेदव्यपदेशेति ॥ ‘‘भेदव्यपदेशाच्च’’ इति सूत्रभाष्योक्तदिशेति भावः । ‘‘प्राणशब्दप्रवृत्ति’’ इत्यादिटीकाया मूलं दर्शयन्नुपसंहरति ॥ तस्मादिति ॥ इयं चेति ॥ अनुव्याख्यानोक्ता प्राणपदप्रवृत्तिनिमित्ताश्रितेत्यर्थः ।

चन्द्रिकाबिन्दु

केचित्त्विति ॥ यद्यपि सुधायामयमेवाभिप्राय इत्यवगम्यते । तथात्वे यागादेः स्वर्गाद्यहेतुत्वापातादिति सुधायामेव सिद्धान्तसमये उक्तत्वात् । तथापि पूर्वपक्षस्यातिनिर्दलत्वापत्त्या पूर्वपक्ष एवान्वयव्यतिरेकयोः श्रुतिसिद्धत्वमप्याशङ्क्य श्रुतेर्मुख्यप्राणविषयत्वमपि अस्मद्रीत्या परिहारोपायोऽपि द्रष्टव्य इति सुधाभिप्रायो वर्णनीय इति तेषामाशयः ॥ असम्भवादीति ॥ स्थितिहेतुत्वस्य मुख्यप्राण एव विद्यमानत्वाद् विष्णावनङ्गीकारादसम्भवः । इतराभेदसाधनदशायामसिद्धिः । पक्ष इति आदिशब्दार्थः । अन्तराकाशाधिकरणाभ्यां गतार्थत्वं परिहरति ॥ तस्येति ॥ इन्द्रस्यात्मेत्यादि-रूपेणान्तःस्थस्य भेदव्यपदेशः ॥ स्वत एवेति ॥ नाभिमानिद्वारेत्यर्थः ।

पाण्डुरङ्गि

तर्हि भूमाधिकरणे वक्ष्यमाणमुत्क्रमणमयुक्तं स्यादित्यत आह ॥ भूमेति ॥ ननु ‘‘यतो वै’’ इत्यादिश्रुत्यैव ब्रह्मणो जीवनादिहेतुत्वमस्त्वित्यत आह ॥ नापीति ॥ असम्भवादिप्रसङ्गादिति ॥ जीवनादिहेतुत्वस्य ब्रह्मगतत्वाभावेनासम्भवः । जीवनादिहेतुत्वस्यान्यगतत्वेनातिव्याप्तिरित्यर्थः । ननु मुख्यप्राणस्यापि नानन्दमयत्वं युक्तम् । पूर्वत्र चात्रापि भेदव्यपदेशरूपबाधकसत्वादिति तत्राह ॥ तस्येति ॥