०३ अधिकरणपूर्वपक्षः

नन्वाकाशाधिकरणपूर्वपक्षे..

अधिकरणपूर्वपक्षः

तात्पर्यचन्द्रिका

नन्वाकाशाधिकरणपूर्वपक्षे जडस्याप्याकाशस्य आनन्दमयत्वादिकमिवात्रापि जडस्याप्यभिमानिद्वारा सम्बोधनादि युक्तम् । न च मुख्ये मुख्यत्वात्प्राणशब्दस्य कथं जडपरत्वेन पूर्वपक्ष इति युक्तम् । लोकप्रसिद्ध्या पूर्वपक्षयतो ब्रह्मणीव मुख्येऽपि मुख्यत्वज्ञानाभावादिति चेन्न । ‘‘मुख्यवायावेव मुख्यत्वात्’’ इत्यादिपूर्वपक्षटीकया ‘‘प्रेरकोऽस्यापि यद्धरिः’’ इत्याद्यनुव्याख्यानेन च विरोधात् । ‘‘त्वमभवः, करिष्यमाणः, प्राणयः’’ इत्यादीनां बहूनाममुख्यार्थत्वापाताच्चेति चेदुच्यते । प्रत्यक्षेण जीवनस्य मुख्यप्राणान्वयव्यतिरेकानुविधानाज्ञानेऽपि ‘‘तत्प्राणे प्रपन्न उदतिष्ठत्, तत्प्राण उत्क्रान्तेऽपद्यत’’ इत्यादिवाक्यात्तज्ज्ञानम् । न च ‘‘प्राणस्तथानुगमात्’’ इति वक्ष्यमाणन्यायेन ‘‘तत्प्राणे’’ इत्यत्र प्राणो विष्णुरिति युक्तम् । अत्रत्य-सिद्धान्तन्यायेन प्राणशब्दप्रवृत्तिनिमित्तं जीवनादिहेतुत्वं विष्णोरङ्गीकृत्य निरवकाशान्यलिङ्गेन तत्र पूर्वपक्षोदयेन तद्विचारस्यैतत्सिद्धान्तानन्तरभावितयै-तत्पूर्वपक्षदशायां तत्रत्यसिद्धान्तासिद्धेः । यथा ‘‘आकाशोऽर्थान्तर’’ इत्यस्य ‘‘आकाशस्तल्लिङ्गात्’’ इत्येतत्सिद्धान्तानन्तरभावितया ‘‘आकाशस्तल्लिङ्गात्’’ इत्येतत्पूर्वपक्षदशायामाकाशोऽर्थान्तरेत्येतत्सिद्धान्तासिद्धिस् तद्वत् ।

प्रकाशिका

मन्दानां जडपरत्वेनापि पूर्वपक्षसम्भवभ्रममाशङ्क्य टीकादिविरोधेन निरस्यति ॥ नन्विति ॥ आनन्दमयत्वादिकमिति ॥ पूर्वत्र स्पष्टमेतत् । ‘‘अस्यापि’’ मुख्यप्राणस्यापीत्यर्थः । टीकादेरपि किं मूलमित्यत आह ॥ त्वमभव इति ॥ यदुक्तं जडरूपो वायुरिति वा मुख्य इति वा पूर्वपक्ष इति तत्र त्वदुक्तानुपपत्त्यैव जडायोगान्मुख्य एवेति ब्रूम इति भावेन तत्रोक्तं दोषं परिहर्तुमाह ॥ उच्यत इति ॥ ‘‘प्राणशब्दप्रवृत्ति-निमित्त’’ इत्यादिटीकां विवृण्वंस्तत्र ‘‘यत्प्राप्तिः’’ इति स्मृत्युक्तिरुपलक्षणमिति भावेनाह ॥ तदिति ॥ ब्रह्मणश्शरीरमित्यर्थः । आदिपदेन ‘‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा’’ इत्यादि, ‘‘श्रेष्ठश्च’’ इत्यत्र भाष्यस्थमत्र टीकोक्तं ग्राह्यम् । ‘‘तत्प्राणे’’ इति वाक्यं विष्णुपरं न वायुपरमतोऽस्मादपि न जीवनहेतुत्वज्ञानं मुख्यस्येत्याक्षिपति ॥ न चेति ॥

वक्ष्यमाणेति ॥ तत्र हि ‘‘ता वा एताश्शीर्षन् श्रियःश्रिताः’’ इत्यारभ्य बहुस्थलेषु श्रूयमाणः प्राणो विष्णुरन्यो वेति संशये प्राणसंवादादिलिङ्गान्मुख्यप्राणादिरन्य एवेति प्राप्ते ‘‘तं देवाः प्राणयन्त’’ इत्यादिना देवोपदेश्यत्वादिविष्णुलिङ्गानामस्मिन्प्रकरणेऽनुगमादनु-वृत्तेरन्यप्रापकाणामन्तर्यामिणि सम्भवात्प्राणो विष्णुः’’ इति वक्ष्यमाणन्यायेनेत्यर्थः । एतदुपजीवनेन तदधिकरणसिद्धान्तोत्थानादेतत्पूर्वपक्षदशायां तत्रत्यन्यायेनास्य वाक्यस्य न विष्णुपरत्वं शङ्कार्हमिति भावेन समाधत्ते ॥ अत्रत्येति ॥ सिद्धान्तासिद्धेरिति ॥ अन्यथा स्वर्गकामाधिकरणसिद्धफलान्वयमुपेत्य किं भावार्थस्य फलकरणता किं वा नामार्थस्येति विचारात्मकभावार्थाधिकरणसिद्धान्तेन फलाभावरूपस्वर्गकामाधिकरणपूर्वपक्षानुदय-स्स्यादिति भावः ॥ यथाऽऽकाशोऽर्थान्तरेत्यादि ॥ प्रागेव विस्तृतमेतत् ।

चन्द्रिकाबिन्दु

भाष्यटीकाकारयोर्जडविषयकपूर्वपक्षमुपपादयितुं प्रतिजानीते ॥ उच्यत इति ॥ अत्रत्येति ॥ एतदधिकरणसिद्धं विष्णोः प्राणशब्दवाच्यत्वमङ्गीकृत्य निरवकाशप्राणसंवादादिलिङ्गेनान्यपरत्वशङ्काया एतदधिकरणोपजीव्यत्वादिति भावः ।

पाण्डुरङ्गि

अस्तु जडवायुरेव प्राण इति पूर्वपक्षः । न चैवं त्वमभव इत्याद्ययोग इति वाच्यम् । अभिमानिद्वारोपपत्तेरित्याशङ्कते ॥ नन्विति ॥ ननु टीकानुव्याख्यान-योरन्यथापि योजयितुं शक्यत्वान्न तद्विरोध इत्यत आह ॥ त्वमभव इति ॥