०४ अधिकरणविषयचिन्तापरम्परानिरूपणम्

केचित्तु अचेतनस्यैव पूर्वपक्षिणाऽऽकाशत्वेन ..

अधिकरणविषयचिन्तापरम्परानिरूपणम्

तात्पर्यचन्द्रिका

केचित्तु अचेतनस्यैव पूर्वपक्षिणाऽऽकाशत्वेन शङ्क्यमानत्वाज्जन्मादिसूत्रोक्त कर्तृत्वानाक्षेप इत्याहुः । तन्न । अचेतनस्याप्यभिमानिद्वाराऽऽनन्दमयत्ववत्कर्तृत्व-स्याप्युपपत्तेः । अन्ये तु सन्निकृष्टानन्दमयाक्षेपसम्भवे विप्रकृष्टजन्मादिसूत्राक्षेपो न युक्त इत्याहुः । तन्न । टीकायामानन्दमयाक्षेपस्य व्यवहितजिज्ञासाक्षेपपर्यन्तत्वोक्तेः ।

प्रकाशिका

उत्तानदृशां परिहारमनूद्य निरस्यति ॥ केचित्त्विति ॥ अभिमा-निद्वारेति ॥ ‘‘आकाशस्याचेतनत्वेनानन्दानुपपत्तावप्यभिमानिद्वारा तदुपपत्तेः’’ इति टीकोक्तेरिति भावः । आपाततः प्रतीयमानपरिहारान्तरमुट्टङ्क्य निरस्यति ॥ अन्ये त्विति ॥ टीकायामिति ॥ यद्यप्येतदधिकरणटीकायां न जिज्ञासासूत्राक्षेपपर्यन्तत्वोक्तिरस्ति तथाप्यन्तरधिकरणादौ तत्र तत्र टीकायां तदाक्षेपपर्यन्तत्वोक्तेरनुक्तिस्थलेऽपि तदाक्षेप-पर्यन्तत्वमभिप्रेतमिति भावः ।

पाण्डुरङ्गि

केचित्त्विति ॥ बुद्ध्यादिमत्त्वघटितं कर्तृत्वमचेतने न सम्भवतीति भावः । एवं ह्यानन्दमयत्वमपि कथमचेतने स्यात् । न चाभिमानिद्वारा तदुपपत्तिः । कर्तृत्वस्याप्यभिमानिद्वारोपपत्तेरित्याह ॥ तन्नेति ॥