०३ विषयवाक्यविचारः

ननु यद्येवमानन्दमयाधिकरणाक्षेपस्तर्हि..

विषयवाक्यविचारः

तात्पर्यचन्द्रिका

ननु यद्येवमानन्दमयाधिकरणाक्षेपस्तर्हि साक्षात्तदाक्षेपार्थमानन्दमयशब्दे मयटो विकारार्थत्वमिव ‘‘यदेष’’ इति वाक्ये आकाशशब्दस्य भूताकाशपरत्वमाशङ्क्या-नन्दमयस्य विष्णुत्वसिद्धये ब्रह्मणि समन्वय उच्यताम् । अन्तस्स्थत्वस्य त्वानन्दमयप्रकरणे श्रवणेऽपि तस्य स्वतोऽन्यत्र प्रसिद्ध्यभावादन्यत्र प्रसिद्धेन्द्रादि-श्रुतिसाहचर्यस्य तत्प्रकरणेऽभावेन तत्र पूर्वपक्षानुदयाद्वाक्यान्तरोदाहरणं युक्तम् । आकाशशब्दस्त्वानन्दमयप्रकरणे श्रुतः स्वतोऽन्यत्र प्रसिद्धश्चेति तत्रैव पूर्वपक्षोदय इति वैषम्यम् ।

सत्यम् । तथापि मयट इवाकाशशब्दस्य समन्वेतव्यानन्दमयशब्दान्तर्भावाभावेन न्यायभेदेन चाधिकरणभेदे स्थिते ‘‘आकाश इति होवाच’’ इति वाक्यान्तरस्यापि समन्वये एतत्प्रकरणस्थबहुगुणलाभात्, तथैतत्समन्वयेन निर्णीतब्रह्मप्रकरणस्थ-‘‘यदेष’’वाक्यसमन्वयवद्यदेष इति वाक्यसमन्वयेनानिर्णीतब्रह्मप्रकरणस्थैतद्वाक्य-समन्वयासिद्धेः, तथा सिद्धान्तिना सावकाशयितव्यानां भूतलयाधिष्ठानत्वादि-पूर्वपक्षयुक्तीनां निरवकाशयितव्यानां परोवरीयस्त्वादिसिद्धान्तयुक्तीनां च यदेष इत्यत्राभावाच्च वाक्यान्तरोदाहरणं युक्तम् । अत्र यद्यपि ‘‘आकाश इति होवाच’’ इत्यत्राकाशस्यान्यत्वे ‘‘आकाशादेव समुत्पद्यन्ते’’ इति तत्प्रकरणे श्रुतं कारणत्वमप्यन्यस्यैव स्यादिति जन्मादिसूत्रमप्याक्षेप्तुं शक्यं भाति तथापि ‘‘समुत्पद्यन्ते’’ इत्यस्योपादानत्वेऽप्युपपत्तेर्जन्मादिसूत्रोक्तकर्तृत्वाक्षेपायोगादानन्द-मयाधिकरणानाक्षेपे तदाक्षेपकान्तरधिकरणप्राणाधिकरणयोर्मध्येऽस्य निवेशा-योगाच्चानन्दमयाधिकरणमेवाक्षिप्तम् ।

प्रकाशिका

ननु यदि को ह्येवान्यादित्यत्रत्याकाशस्य विष्णुत्वसिद्धिः फलं तर्हि नाधिकरणान्तरमारम्भणीयम् । ‘‘विकारशब्दान्नेति चेत्’’ इतिवत् हेतुव्यपदेशसूत्रानन्तरम् आकाशशब्दान्नेति चेत्तल्लिङ्गादिति गुणसूत्रेणैव विष्णोरेवाकाशशब्दवाच्यत्वोक्तिसम्भवात् । अधिकरणान्तरत्वेऽपि को ह्येवान्यादित्यस्यैव विषयत्वसम्भवे वाक्यान्तरोदाहरणस्यायुक्त-त्वादित्याशङ्कते ॥ ननु यद्येवमिति ॥ साक्षादिति ॥ ‘‘इति होवाच’’ इत्यस्य भूतपरत्वात्तत्तुल्यन्यायतयाऽयमपि भूतपरस्स्यादित्यस्य वक्रत्वादिति भावः । इयं शङ्का अन्तरधिकरण एव कुतो न कृता । किं विशिष्यात्रेत्यत आह ॥ अन्तस्स्थत्वस्य त्विति ॥ यद्यपि ‘‘यो वेद निहितं गुहायाम्’’ इति मन्त्रवर्ण एवान्तस्स्थत्वं श्रुतं तथापि मन्त्रवर्णोक्तस्यैवानन्दमयशब्देनोच्यमानत्वात्तत्प्रकरणे श्रवणेऽपीत्युक्तम् । यत्तावदुक्तमधि-करणान्तरं न कार्यमिति तत्तावन्नेत्याह ॥ तथापीति ॥ न्यायेति ॥ अचेतनस्वभावस्यापि भगवदधीनत्वप्रतिपादनरूपन्यायभेदेनेर्थः ।

अधिकरणान्तरत्वेऽपि वाक्यान्तरमयुक्तमित्येतन्निरस्यति ॥ आकाश इतीति ॥ एतदिति ‘‘इति होवाच’’ इत्येतत्परामृश्यते । नन्वस्त्वधिकरणान्तरं वाक्यान्तरोदाहरणं च । तथापि न भाष्योक्तं प्रयोजनम् । ‘‘सर्वाणि ह वा इमानि भूतान्याकाशादेव’’ इति साक्षात् श्रुतकारणत्वस्य पूर्वपक्षे भूतनिष्ठत्वेन जन्मादिसूत्राक्षेपस्य ऋजुत्वादित्याशङ्क्याह ॥ अत्रेति ॥ उपादानत्वेऽपीति ॥

ननूपादानत्वोक्तौ का सङ्गतिरिति चेदयं भावः । ‘‘अस्य लोकस्य का गतिः’’ इति पृथिवीगतिप्रश्नस्य ‘‘आकाशः’’ इत्युत्तरमभिधाय कथमेतद् अपां कार्यं हि पृथिवी तत्रैव च लीयत इति तासामेव पृथिवीगतित्वोपपत्तेरित्याशङ्क्य मैवं मूलोपादानत्वादित्याह ‘‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते’’ इति । न च तर्ह्यात्मन आकाश इति श्रुतेरात्मा वाच्य इति शङ्क्यम् । भूतविषयविचारे वियत एव वक्तव्यत्वात् । न चाकाशस्यापि भूतत्वात्सर्वाणीति विरुद्धम् । इदं सर्वमसृजतेतिवद्व्यतिरिक्तग्रहणोपपत्तेः । न चावधारणानुपपत्तिः । परम्परया भूतोपादानस्यापरस्याभावादिति । हेत्वन्तरमाह ॥ आनन्दमयेति ॥ तत्राक्षेपान्तराभावादिति भावः ।

पाण्डुरङ्गि

नन्वानन्दमयाधिकरणाक्षेपेणास्तु विचारसाफल्यम् । तथापि वाक्यान्तरोदाहरणमयुक्तम् । आनन्दमयप्रकरणस्थे ‘‘यदेषः’’ इत्यत्रैव पूर्वपक्षसिद्धान्तौ कर्तव्यौ । लाघवादिति शङ्कते ॥ नन्विति ॥ तर्ह्यानन्दमयप्रकरणेऽन्तस्स्थत्वस्य श्रुतत्वादन्तरधिकरणेपि वाक्यान्तरं नोदाहर्तव्यम् । अत आह ॥ अन्तस्स्थत्वस्येति ॥ तस्य स्वतोऽन्यत्र प्रसिद्ध्यभावादिति ॥ यद्यपि द्युभ्वाद्यधिकरणे ‘‘एवं सर्वगतत्वादीनि ब्रह्मण्ययुक्तत्वादेवान्यत्र प्रसिद्धानि’’ इति वक्ष्यमाणत्वाद् गुहानिहितत्वरूपान्तस्स्थत्व-स्यापि स्वत एवान्यत्र प्रसिद्धिर्वक्तुं शक्या तथापि ‘‘अथवाऽन्यत्र प्रसिद्धेरन्यत्र प्रसिद्धान्यसाहित्यसापेक्षत्वात्’’ इति तत्पूर्वोक्तपक्षानुसारेणेदमित्यविरोधः ॥ तत्प्रकरणेऽ-भावेनेति ॥ यद्यपि ‘‘ते ये शतं प्रजापतेरानन्दास् ते ये शतं बृहस्पतेरानन्दाः’’ इतीन्द्रादिश्रुतिरप्यस्ति तथाप्यस्य उपहंसारस्थाया उपक्रमस्थगुहानिहितत्वेन मध्यस्थ-सृष्ट्यन्नमयादिप्रकरणैरव्यवधानात् । प्रकृते चान्तस्थप्रश्नप्रकरण एवेन्द्रादिश्रुतिश्रवणा-द्वैषम्यमित्याशयेनोक्तं तत्प्रकरण इति ॥

किं वा बाधकपरिहारत्वादस्य विकारशब्दादिवद् अधिकरणान्तर्भाव इत्याशयः किं वा भिन्नाधिकरणत्वेऽपि वाक्यं तदेवोदाहार्यमिति विकल्पं मनसि निधाय क्रमेण निराह ॥ सत्यमित्यादिना ॥ नन्वेवं तर्हि पुनर्वैषम्यापत्त्योक्ताक्षेपानुपपत्तितादवस्थ्यमिति चेन्न । तथा पूर्वपक्षफलस्य जिज्ञासाक्षेपपर्यन्तस्य सिद्धये विद्यमानस्याप्यस्य विषयत्वस्य पूर्वपक्षिणा विवक्षणोपपत्तेः । यद्वा भूतलयाद्यधिष्ठानत्वादिभूतलिङ्गोपेतस्यापि ‘‘इति होवाच’’ इति वाक्यस्य ब्रह्मलिङ्गाद्ब्रह्मपरत्वे भूतलिङ्गविधुरस्य ‘यदेषः’ इति वाक्यस्य ब्रह्मपरत्वं किमु वाच्यमिति सिद्धान्ते कैमुत्येनैव सिद्धान्त फलसिद्धेरभिप्रेतत्वात्तदनुसारेण पूर्वपक्षेऽपि परोवरीयस्त्वादिब्रह्मलिङ्गोपेतस्यापि भूतपरत्वे भूतप्रसिद्धिबाधकब्रह्मलिङ्ग-विधुरस्य भूतपरत्वं कैमुत्येनैव स्यादित्याक्षेपाभिप्रायः ॥ न्यायभेदेनेति ॥ आनन्दमयाधि-करणे गुणिसामान्यवाचिनां गुणवाचिनां च समन्वयः । आकाशाधिकरणे चाधिभूत-गताशेषशब्दसमन्वयः प्रतिपाद्यत इति न्यायभेदेनेत्यर्थः । यद्वा अचेतनस्वभावस्यापि भगवदधीनत्वमित्येतदधिकरणन्यायेनेत्यर्थः ।

ननु यदेष इति वाक्यसमन्वयेनैव इति होवाचेत्यस्यापि समन्वयसिद्धौ तद्वाक्यस्थगुण-लाभस्यापि सम्भवेन वाक्यान्तरोदाहरणमयुक्तम् । अन्यथा यदेष इत्यस्य समन्वयार्थ-मप्यधिकरणान्तरमारभ्येतेत्यत आह ॥ तथैतदिति ॥ ननु यदेष इति वाक्यसमन्वय उक्ते एतत्समानन्यायानामपि समन्वयः सेत्स्यतीति निर्णीतत्वानिर्णीतत्वे अप्रयोजके इति न वाक्यान्तरमुदाहर्तव्यमित्यत आह ॥ तथा सिद्धान्तिनेति ॥ ननु चात्र जन्माधिकरणा-क्षेपस्यापि सम्भवेन प्रयोजनस्यान्यथाप्युपपत्तेर्नैतद्भाष्यं चिन्तासाफल्यपरम् । अन्यथा अन्तरधिकरणेऽप्यदृश्येऽनात्म्ये इत्यादि भाष्यस्य चिन्तासाफल्यपरत्वापत्त्या सङ्गति-प्रदर्शकत्वाभावापत्तेः । तत्र तथाऽभ्युपगमे चात्रापि तथैव स्यादित्यत आह ॥ अत्र यद्यपीत्यादिना ॥ ननु समुत्पद्यन्ते इत्यस्य निमित्तकारणपरत्वेऽप्युपपत्तेर्जन्मादिसूत्रोक्त-कर्तृत्वाक्षेपः स्यादेवेत्यत आह ॥ आनन्दमयाधिकरणानाक्षेप इति ॥