१० टीकाक्षरार्थनिरूपणम्

टीकाक्षरार्थस्तु

टीकाक्षरार्थनिरूपणम्

तात्पर्यचन्द्रिका

॥ टीकाक्षरार्थस्तु ॥ प्राबल्याद्यविवेकेनेति ॥ श्रुतिलिङ्गाधिकरण-सिद्धान्तात्प्रागिव श्रुतिः प्रबला लिङ्गं तु दुर्बलमित्यविवेकेनेत्यर्थः । यद्वा श्रुतेः स्वतो बलवत्त्वाल्लिङ्गस्य च निरवकाशत्वेन बलवत्त्वादिदं प्रबलमिदं दुर्बलमित्यविवेके-नेत्यर्थः ॥ सङ्गतत्वाद्ग्रहणमिति ॥ अल्पाक्षरे सूत्र एकलिङ्गसमन्वयोक्त्याऽनेकनाम-समन्वयस्यार्थिकसिद्धेरेव सङ्गतत्वात् । अनेकसमन्वयोक्त्या त्वेकस्य समन्वय-स्यार्थिकसिद्धेरसङ्गतत्वात् । एकनामसमन्वयोक्त्या चोदाहरणवाक्यस्थसजातीयनाम-समन्वयाक्षेपस्य विजातीयलिङ्गसमन्वयाक्षेपस्य च सति गत्यन्तरे गौरवापादकतया क्लिष्टत्वेनासङ्गतत्वात् । सजातीयस्योपलक्षणं विजातीयस्याक्षेप इत्यस्यापि वैरूप्येणासम्भावितत्वादित्यर्थः ।

यद्वा यत्रैकं साक्षादन्यदर्थादिति नामलिङ्गात्मकमुभयं तत्रान्यत्र निरूढ-नामसमन्वयस्य प्रथमं बुद्धावनारोहान्न तन्मुखेन लिङ्गसमन्वयः सङ्गतः । अनिरूढ-लिङ्गमुखेन तु नामसमन्वयः सङ्गतः । अत एव पूर्वमानन्दमयलिङ्गसमन्वय-मुखेनानन्दादिनामसमन्वयो युक्तः । यस्तु द्वितीयपादे वैश्वानराधिकरणे नामसमन्वयमुखेन लिङ्गसमन्वयः स प्रथमपादेऽन्यत्र निरूढनामसमन्वयस्योक्तत्वेन बुद्धावारोहात्पाचकत्वादिलिङ्गानामप्यन्यत्र निरूढत्वाद्बहुत्वाच्च युक्त इत्यर्थः ।

यद्वा अन्तस्स्थनिष्ठतया श्रुतेन समुद्रस्थत्वादिनाऽन्तस्स्थस्यैव विष्णुत्वसाधने सामानाधिकरण्येन सङ्गतिः । इन्द्रादेस्तु तत्साधने वैयधिकरण्येनासङ्गतिः स्यादित्यर्थः । यद्वा अन्तस्स्थस्याविष्णुतयाऽऽनन्दमयस्यापि विष्णुत्वाक्षेपो युक्तः । तद्धर्मस्यादृश्यत्वस्यान्तस्स्थे साक्षाच्छ्रवणात् । नन्विन्द्रादेरविष्णुत्वेन तत्रादृश्यत्वा-श्रवणात् । ततश्च पूर्वाधिकरणसङ्गत्यर्थं लिङ्गग्रहणमित्यर्थः ॥

प्रकाशिका

‘‘अदृश्यत्वलिङ्गमिन्द्रादिश्रुतिश्च प्राबल्याद्यविवेकेन सन्देहबीजम्’’ इति वाक्येऽविवेकशब्दमप्रतीतेर्द्वेधा व्याचष्टे ॥ श्रुतिलिङ्गेति ॥ पूर्वतन्त्रीयं श्रुतिलिङ्गाधि-करणं प्रागुक्तम् । नामनिर्णयेन लिङ्गनिर्णयेऽपि लिङ्गस्य सङ्गतत्वाद्ग्रहणमित्यत्र नाम्नो सङ्गतत्वादग्रहणमिति सूचितम् । तत्कथं सङ्गतत्वासङ्गतत्वे इत्यतोऽनेकप्रकारेणाह ॥ अल्पाक्षर इति ॥ तर्ह्येकमेव नाम समन्वीयतामनेकनामलिङ्गसमन्वयार्थमित्यत आह ॥ एकनामेति ॥ ननु न गौरवम् । अनेकनाम्नामुपलक्षणत्वेनैकनामोपादानात् । लिङ्गस्य चार्थादेव समन्वयसिद्धेरित्यत आह ॥ सजातीयस्येति ॥ आनन्दमयलिङ्गेति ॥ तत्त्वप्रदीपानुसारेणेयमुक्तिरिति ध्येयम् । एवं तर्हि वैश्वानराधिकरणविरोध इत्यत आह ॥ यस्त्विति ॥ इन्द्रादेस्तु इन्द्रादिशब्दार्थस्य तु । तत्साधने अन्तःस्थत्वसाधने । इन्द्रादिस्तद्धर्मोपदेशादित्युक्ताविति यावत् । ‘‘समुद्रेऽन्तः कवयो विचक्षते’’ इत्यस्यान्तस्थनिष्ठतयेन्द्रादिनिष्ठत्वाभावादसङ्गतिरित्यर्थः ॥ अविष्णुत्वेनेति ॥ आनन्द-मयस्य विष्णुत्वाक्षेप इति सम्बध्यते । शिष्टमुपन्यासमुखेनैव विवृतमिति भावः ।

पाण्डुरङ्गि

‘‘प्राबल्याद्यविवेकेन’’ इति टीकोक्तं प्राबल्याद्यविवेकं दर्शयति ॥ श्रुतीति ॥ ननु श्रुतिर्यदि प्रबला लिङ्गं दुर्बलमिति श्रुतिलिङ्गयोः प्राबल्यं न निश्चितं तर्हि श्रुत्यादिभ्यो लिङ्गमात्रस्य दुर्बलत्वादित्यादिपूर्वपक्षानुपपत्तिरित्यत आह ॥ यद्वेति ॥ नन्वेवं वैश्वानराधिकरणे नामसमन्वयेन लिङ्गसमन्वयोक्तिरयुक्ता स्यात् । उक्तानुपपत्ते-स्तत्रापि वक्तुं शक्यत्वादित्यत आह ॥ यद्वेति ॥ यद्वा ननु सजातीयस्योपलक्षणाभावेऽ-प्यन्तस्स्थनिष्ठतया श्रुतस्यादित्यादिशब्दानामिन्द्रपरत्वाभावे तत्समानाधिकरणेन्द्रादि-शब्दस्यापि तत्परत्वानुपपत्तेस्तदुपादानेनार्थादेव सजातीयाग्निसवित्रादिशब्दानां विजाती-यान्तस्स्थत्वलाभान्न वैरूप्यमित्यत आह ॥ यद्वेति ॥ ‘‘आनन्दमयाधिकरणे लिङ्गविचारात्’’ इति तत्वप्रदीपानुसारादाह ॥ अत एवेति ॥ लिङ्गस्य निरूढत्वा-देवेत्यर्थः । नन्वेवं वैश्वानराधिकरणेऽपि नामसमन्वयो न वक्तव्यः । नाम्नो निरूढत्वा-ल्लिङ्गस्यानिरूढत्वात्तन्मुखेनैव वक्तव्य इत्यत आह ॥ यस्त्विति ॥ नन्वानन्दमयाधि-करणन्यायेन नामसमन्वयस्य सिद्धत्वान्नाम्नोऽपि प्रथमं बुद्धावारोहो युक्त इत्यत आह ॥ यद्वेति ॥

ननु ‘‘सहैव सन्तं न विजानन्ति देवाः’’ इत्यन्तस्स्थे ‘‘श्रुतस्यादृश्यत्व-स्याऽन्यनिष्ठत्वे’’दृश्येऽनात्म्ये इत्यादिनोक्तमप्यदृश्यत्वमन्यस्यैवेति कुतः । नियामका-भावात् । तथा चाक्षेपानुपपत्तिरिति चेन्न, वाक्यद्वयस्यापि समानत्वात् । ‘‘सहैव सन्तम्’’ इत्यत्रेन्द्रादिश्रुत्याऽदृश्यत्वस्यान्यनिष्ठत्ववद् आनन्दादिश्रुत्यादिना‘‘दृश्येनात्म्ये’’ इत्यत्राप्यदृश्यत्वस्यान्यनिष्ठत्वोपपत्तेः । यदि च निरवकाशलिङ्गेन श्रुतेस्तत्र बाधस्तर्हि ‘‘न विजानन्ति’’ इति वाक्येऽपि समानम् । यदि च निरवकाशत्वप्रयुक्तप्राबल्यापेक्षयापि स्वभावप्रयुक्तप्राबल्यस्यैव बलवत्त्वात् ‘सहैव’ इत्यत्रान्यनिष्ठत्वं तदा ‘एतददृश्ये’ इति वाक्ये सममित्याक्षेपो युक्त एव । अत एवोत्तराधिकरणे तथैव वक्ष्यति मूलकारः ‘‘न च यथा सिद्धान्ते आकाश इति होवाच’’ इत्यत्राकाशशब्दस्य ‘‘ब्रह्मपरत्वेऽपि’’ इत्यादिना । तत्रत्यम् ‘‘एवमुत्तरत्रापि द्रष्टव्यम्’’ इति वाक्यं तूपलक्षणपरतया व्याख्येयम् । न्यायसाम्यादिति द्रष्टव्यम् । यथा पूर्वमीमांसायां ‘‘श्रुतिलिङ्गवाक्यप्रकरण-स्थानसमाख्यानां समवाये परदौर्बल्यम्’’ इति श्रुतिलिङ्गाधिकरणे श्रुतेर्लिङ्गापेक्षया प्रबलत्वनिश्चयेऽपि ततः प्राक् तदनिश्चयेन श्रुतिलिङ्गयोः संशयबीजत्वं तथाऽत्रापि ‘‘शब्दादेव प्रमित’’ इति श्रुतिलिङ्गाधिकरणे श्रुतेर्लिङ्गापेक्षया प्राबल्यनिश्चयेऽपि ततः प्राक् तदनिश्चयेन श्रुतिर्लिङ्गयोः सन्देहबीजत्वोपपत्तिरिति भावः ।

॥ इति अन्तस्स्थत्वाधिकरणम् ॥