०७ अद्वैतमतानुवादः

अन्ये तु ‘‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते ..

अद्वैतमतानुवादः

तात्पर्यचन्द्रिका

अन्ये तु ‘‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते य एषोऽन्तरक्षिणि पुरुषो दृश्यते’’ इत्यक्ष्यादित्ययोरन्तस्स्थः प्रतीयते । स विद्याकर्मातिशयलब्धैश्वर्यः कश्चित् संसारी न तु परमात्मा । ‘‘हिरण्यश्मश्रुः’’ इत्यादौ रूपादिश्रवणात् । परमात्मनश्चारूपत्वेन श्रुतत्वादिति प्राप्ते परमात्मैवेति सिद्धान्तः । आदित्यवाक्ये ‘‘सर्वेभ्यः पाप्मभ्य उदितः’’ इति श्रुतस्य सर्वपापराहित्यस्याक्षिवाक्ये ‘‘सैवर्क्त-त्साम’’ इत्यादौ श्रुतस्य सार्वात्म्यस्य च संसारिण्यसम्भवात् । रूपादिकं तु नीरूपेऽपि सविशेषब्रह्मणि साधकानुग्रहार्थमैच्छिकमुपास्यं मायामयमस्ति । यद्वा सर्वस्य कार्यजातस्य ब्रह्मोपादानकत्वादुपादेयस्य चोपादानादनन्यत्वात्कार्यशरीर-गतरूपादिभिर्ब्रह्म व्यपदिश्यते । मुमुक्षुं प्रति सविशेषनिरूपणं च मोक्षसाधन-निर्विशेषब्रह्मज्ञानार्थम् । यथोक्तं

निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥

इत्यादीत्याहुः ।

प्रकाशिका

एवं स्वमतेऽधिकरणशरीरं सूत्रार्थं च समर्थ्य परमतं प्रत्याख्यातु-मनुवदति ॥ अन्ये त्विति ॥ छान्दोग्ये आद्येऽध्याये श्रूयते ‘‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदितिनाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद । इत्यधिदैवतम् । अथाध्यात्मम् । य एषोऽन्तरक्षिणि पुरुषो दृश्यते’’ इत्यादि । अत्र किमादित्यमण्डलादिस्थो हिरण्मयः पुरुषो विद्याकर्मवशात् प्राप्तैश्वर्यः कश्चित्संसारी उत परमात्मेति संशये ‘‘हिरण्यश्मश्रुः’’ इत्यादिरूपस्य ‘‘य एषोऽन्तरादित्ये’’ इत्याद्याधारस्य ‘‘ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट’’ इति सावधि-कैश्वर्यमर्यादायाश्च श्रवणात्तेषां च ‘‘अरूपमस्पर्शम्’’ इति श्रुत्याऽरूपे ‘‘स्वे महिम्नी’’ति श्रुत्याऽऽधाररहिते ‘‘एष सर्वेश्वर’’ इति श्रुत्या निरवधिकैश्वर्ये परमात्मन्यसम्भवात् ।

यथोक्तं भामत्यां

मर्यादाधाररूपाणि संसारिणि परे तु न ।

तस्मादुपास्यस्संसारी कर्मानधिकृतो रविः ॥ इति ।

एवं प्राप्ते आदित्यवाक्ये ‘‘सर्वेभ्यः पाप्मभ्य’’ इति सर्वपापराहित्यस्य अक्षिवाक्ये ‘‘सैवर्क्तत्साम’’ इत्यादौ सार्वात्म्यस्य परमात्मधर्मस्योपदेशात् । तयोश्चापहतपाप्मेत्यादि-श्रुत्या नित्यशुद्धे सर्वोपादानतया सर्वाभिन्ने परमात्मनीवान्येष्वयोगात् ‘‘य आदित्ये तिष्ठन्नादित्यादन्तरोऽयमादित्यो न वेद’’ इत्यादित्यदेवतायाः परमेश्वराद्भेदोपदेशाच्च संसारिणोऽन्यः परमात्मैवान्तस्थ इति सिद्धान्त इत्यर्थः । ननु तर्हि रूपादिकमनुपपन्न-मित्यतस्तदुक्तं द्वेधा परिहारमनुवदति ॥ रूपादिकं त्विति ॥ साधकेति ॥ साधना-नुष्ठातारः साधका इत्यर्थः । नन्वेवं मुमुक्षुं प्रति सविशेषनिरूपणमनर्थकमित्यत आह ॥ मुमुक्षुमिति ॥

पाण्डुरङ्गि

ननु तर्हि परमात्मनो रूपरहितत्वाद्रूपप्रतिपादकश्रुतिर्विरुद्धेत्यत आह ॥ रूपादिकं त्विति ॥ मायामयं रूपं तत्र किमर्थमङ्गीकर्तव्यमित्यत आह ॥ साधकेति ॥ भक्तानामनुग्रहार्थमित्यर्थः । रूपप्रतिपादकश्रुतेर्गत्यन्तरमाह ॥ यद्वेति ॥ ननु सविशेष-ज्ञानस्य मोक्षासाधनत्वान्मुमुक्षुं प्रति तदुपदेशो न युक्त इत्यत आह ॥ मुमुक्षुं प्रतीति ॥