०६ आत्मशब्दार्थकथनम्

तत्राद्यद्वितीयौ प्रथमसूत्रेण निरस्तौ

आत्मशब्दार्थकथनम्

तात्पर्यचन्द्रिका

तत्राद्यद्वितीयौ प्रथमसूत्रेण निरस्तौ । तृतीयस्तु द्वितीयेनेति द्रष्टव्यम् । न च ‘‘इन्द्रस्यात्मा’’ इत्यादावात्मशब्दः स्वरूपपरः । तथा च सूत्रोक्तो भेद-व्यपदेशोऽसिद्ध इति शङ्क्यम् । ‘‘सहैव सन्तं न विजानन्ति देवाः’’ इति साहित्य-कर्मकर्तृभावादिना भेदव्यपदेशात् षष्ठ्या औपचारिकत्वापाताच्च । इन्द्रादिशब्दवाच्य उपहिते परमात्माभेदस्य परेणाप्यनङ्गीकृतत्वेनेन्द्रादिप्रातिपदिकेऽपि लक्षणापाताच्च । अत्रैव प्रकरणे ‘‘आत्मा जनानाम्’’ इत्यन्तर्यामिण्यात्मशब्दप्रयोगाच्च । न च तत्राप्यात्मशब्दः स्वरूपपरः । अस्मिन्नेव प्रकरणे ‘‘शास्ता जनानाम्’’ इत्यस्यायोगात् । अत्रैव प्रकरणे ‘‘सर्वात्मा’’ इति चात्यन्तायुक्तं स्यात् । ज्ञानादि-रूपस्य ब्रह्मणस्तद्विरुद्धजडरूपतायाः केनाप्यनङ्गीकृतत्वात् । तस्मात् ‘‘इन्द्र-स्यात्मा’’ इत्यादावात्मशब्दो न स्वरूपवाची । किन्तु शरीरप्रतिसम्बन्धिवाची । तत्र तस्य प्रयोगबाहुल्यात् । तथा च ‘‘इन्द्रस्यात्मा’’ इत्यादिश्रुतिरिन्द्रादेरीश्वर-शरीरस्थानीयत्वाभिप्राया । ‘‘इन्द्रो राजा’’ इत्यादाविन्द्रशब्दस्य ब्रह्मपरत्वेऽपि ‘‘इन्द्रस्यात्मा’’ इत्यादावन्यपरता च बाधकबलाद्युक्ता ।

प्रकाशिका

उक्तं पूर्वपक्षत्रयनिरासं सूत्रारूढं करोति ॥ तत्रेति ॥ समुद्रान्त-स्थत्वादिविष्णुधर्मोपदेशादन्तस्थो विष्णुरित्युक्त्या इन्द्र एवेत्याद्यवधारणपक्षस्येन्द्राद्यन्यतमः स्यादित्यनवधारणपक्षस्य च निरासप्रतीतेरिति भावः । द्वितीयसूत्रार्थं समर्थयितुमाह ॥ न चेति ॥ इन्द्रस्येति षष्ठ्या इत्यर्थः । आत्मशब्दस्य स्वरूपार्थत्वे प्रत्ययास्वारस्यमुक्त्वा प्रातिपदिकास्वारस्यमाह ॥ इन्द्रादीति ॥ ‘‘समासीन आत्मा जनानाम्’’ इत्यत्रात्म-शब्दस्यान्तर्यामिपरत्वात्तदेकप्रकरणे श्रुतस्य स्वरूपार्थत्वमन्याय्यमित्याह ॥ अत्रैवेति ॥ ‘‘शास्ता जनानाम्’’ इति स्वरूपत्वे शास्तृत्वायोगादिति भावः । अयुक्ततामेवाह ॥ ज्ञानादीति ॥ तथा च श्रुत्यर्थं निष्कृष्याह ॥ तस्मादिति ॥ इन्द्रशब्दस्यात्र प्रकरणे विष्णुपरत्वात्कथमेवमित्यतः प्रागुक्तमेव स्मारयति ॥ इन्द्रो राजेति ॥ बाधकबलादिति ॥ नियम्यत्वरूपादित्यर्थः ।

यथा ‘‘बहुगणवतुडति सङ्ख्ये’’ इत्यत्र संज्ञापरस्यापि सङ्ख्याशब्दस्य ‘‘ष्णान्ता षट्’’ इत्यत्र संज्ञिपरत्वं तद्वत् । यथा वा ‘‘आत्मन आकाशस्सम्भूतः’’ इत्यत्र भूतपरत्वेऽप्याकाशशब्दस्य ‘‘यदेष आकाशः’’ इति वाक्ये ब्रह्मपरता तद्वत् । यथा वा ‘‘दहरोऽस्मिन्नन्तर आकाशः’’ इत्यत्राकाशशब्दस्य भूतपरत्वेऽपि ‘‘यावान्वाऽय-माकाशः’’ इत्युत्तरवाक्ये ब्रह्मपरता, यथा वा ‘‘अक्षरात्परतः परः’’ इत्यत्राक्षर-शब्दस्यान्यपरत्वेऽपि ‘‘अक्षरात्सम्भवतीह विश्वम्’’ इत्यत्र ब्रह्मपरता तद्वदिति द्रष्टव्यम् ।

एतच्च ‘‘तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते’’ इत्यनुव्याख्यानेन तुल्यन्यायतया सूचितम् । बाधकबलादित्युक्त्यैव ‘‘न ह्येकशब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते’’ इति तार्तीयगीताभाष्यविरोधोऽप्यपोढः । नन्वव्यक्तात्पुरुषः पर इत्यादाव-वरत्वादिबाधके सत्यपि तदधीनत्वन्यायेनान्यगतावरत्वं प्रति स्वातन्त्र्येण निमित्तेनाव्यक्ता-दित्यादिपञ्चम्यन्तादिपदवाच्यत्वं विष्णोर्वक्ष्यते तथेहाप्यन्यगतनियम्यत्वं प्रति स्वातन्त्र्येणेन्द्रस्येत्यादिषष्ठ्यन्तपदवाच्यत्वं युक्तम् । एवं च न मुख्यार्थत्यागः । एकप्रकरणस्थस्यार्थान्तरपरत्वदोषोऽपि नेति चेन्न । अव्यक्तादित्यस्याब्रह्मत्वे ‘‘अनाद्यनन्तं महतः परं ध्रुवम्’’ इत्युत्तरवाक्यस्याप्यब्रह्मपरत्वं स्यात् । महत्परत्वलिङ्गात् । तच्चानिष्टं, मुक्तिहेतुत्वश्रवणात्तत्रेति कथञ्चिद्बाधकनिरासेनाव्यक्तादित्यस्य ब्रह्मपरत्वमुपेतम् ।

न चेहेन्द्रस्येत्यादेरब्रह्मपरत्वे बाधकमस्ति । इन्द्रादिपदप्रवृत्तिरूपगुणलाभस्य ‘‘इन्द्रो राजा’’ इत्यादिवाक्यगतेन्द्रादिपदसमन्वयेनैव सिद्धेः । ‘‘इन्द्रो राजा’’ इत्यादिवाक्य-स्थेन्द्रादिशब्दसमन्वयमात्रेणैवादृश्यत्वमुखकृतपूर्वाक्षेपसमाधानसिद्धेश्च । न चैवं ‘‘अनेन जीवेनात्मना’’ इत्यादिवाक्यस्थजीवशब्दसमन्वयेनैव तच्छब्दगुणलाभात् ‘‘जीवा एव तु दुःखिनः’’ इत्यादिवाक्यस्थजीवादिशब्दसमन्वयो न स्यादिति वाच्यम् । ‘‘स बद्धस्स दुःखी स बद्धयति स दुःखयति’’ इति विशेषवचनादिह तथा नियामकाभावादिति । यद्वा सर्ववेदगतसर्वशब्दवाच्यत्वसिद्ध्यै तत्रापि विष्ण्वङ्गीकारेऽप्यदोषः । अत एवान्य-परतेत्युक्तम् । न त्वन्यमात्रपरतेति ।

पाण्डुरङ्गि

ननु पूर्वपक्षत्रयनिरासः प्रथमसूत्रेण प्रतीयत इत्यत आह ॥ तत्रेति ॥ अत्राद्यद्वितीयावित्यनेनाकाङ्क्षाक्रमानुसारिपूर्वपक्षनिरासकत्वं सूत्रक्रमनिमित्तं चोक्तं भवति । ननु भाष्ये ‘‘इन्द्रस्यात्मा’’ इति भेदव्यपदेशोदाहरणमयुक्तम् । तत्रात्मशब्दस्य स्वरूप-परत्वेन तेन भेदासिद्धेरित्याशङ्क्य निराकरोति ॥ न चेति ॥ सहैवेति ॥ अत्र ‘देवाः’ इति देवानां कर्तृत्वस्य सन्तमित्यन्तस्थस्य कर्मत्वस्योक्तत्वाद् उत्सर्गतःकर्तृकर्मणोर्भेद-स्याङ्गीकृतत्वात्परेणाप्येकस्यैव कर्तृकर्मभावस्यानभ्युपगमेन तथा साहित्यस्यापि भेद-व्याप्तत्वेन भेदसिद्धेरित्यर्थः । कर्मकर्तृभावादिना इत्यत्रादिपदेन ज्ञातृज्ञेयभावोऽज्ञातृत्व-मज्ञेयत्वं च गृह्यते ॥ षष्ठ्या इति ॥ सम्बन्धषष्ठ्या वक्तव्यसम्बन्धस्य च भेदव्याप्तत्वेन स्वरूपत्वे ‘‘घटस्य स्वरूपम्’’ इत्यादिवदौपचारिकत्वं स्यादिति भावः ।

किञ्चेन्द्रादेर्विशिष्टत्वाद्विशिष्टस्य शुद्धभेदानङ्गीकारादिन्द्रप्रातिपदिके लक्षणा स्वीकर्तव्या । तथा च लक्षणापत्तिरूपो दोषश्च स्यादित्याह ॥ इन्द्रादीति ॥ सकृच्छ्रुत-स्यात्मशब्दस्य क्वचित्स्वपरत्वं क्वचिदन्तर्यामिपरत्वमित्ययुक्तं चेत्याह ॥ अत्रैवेति ॥ जनानां विशिष्टत्वाद्विशिष्टस्य शुद्धेनाभेदस्य बाधितत्वाज्जनपदेन लक्षणा स्वीकर्तव्येति दोषे सत्येव दोषान्तरमाह ॥ अस्मिन्नेवेति ॥ एवं च सिद्धमर्थमाह ॥ तथा चेति ॥ बाधक-बलादिति ॥ इन्द्रस्यात्मेत्यत्रेन्द्रशब्दस्य ब्रह्मपरत्वे आत्मशब्दोक्तं स्वामित्वं तस्यैव वक्तव्यम् । न च स्वस्यैव स्वनियामकत्वं सम्भवतीति भावः ।