ॐ अन्तस्तद्धर्मोपदेशात् ॐ
सङ्गतिकथनम्
तात्पर्यचन्द्रिका
॥ ॐ अन्तस्तद्धर्मोपदेशात् ॐ ॥
अत्रान्तस्स्थत्वलिङ्गसमन्वयस्याधिदैवगतेन्द्रादिनामसमन्वयार्थत्वात्पादसङ्गतिरिति टीकायामेवोक्तम् । अनन्तरसङ्गतिस्तु आनन्दमयधर्मस्यादृश्यत्वस्यान्तस्स्थे श्रवणादन्तस्स्थस्य चाविष्णुत्वादानन्दमयोऽपि न विष्णुरिति पूर्वसिद्धान्ताक्षेपेणेह पूर्वपक्षोत्थानादाक्षेपिकी । इयं च ‘‘अदृश्येऽनात्म्ये’’ इत्यादिभाष्य एवोक्ता । न चैतद्भाष्यं ‘‘ब्रह्मजिज्ञासा कर्तव्येत्युक्तम्’’ इत्यानन्दमयाधिकरणभाष्यवत्प्रयोजन-प्रदर्शनमात्रपरम् । ‘‘अन्तःप्रविष्टं कर्तारम् अन्तःप्रविष्टः शास्ता जनाना’मित्यन्तस्स्थे श्रुतस्य कर्तृत्वादेः पूर्वपक्षेऽन्यनिष्ठत्वेन जन्मादिसूत्राक्षेपस्य ‘‘सर्वे वेदा यत्रैकं भवन्ति’’ इत्यन्तस्स्थे श्रुतस्य सर्ववेदप्रतिपाद्यत्वस्याप्यन्यनिष्ठत्वेन शास्त्रयो-निसमन्वयसूत्राक्षेपस्यापि सम्भवेन प्रयोजनस्यान्यथाप्युपपत्तेः । यद्वा युक्तमानन्दमय-शब्दो विष्णुपर इति । तस्यार्थविशेषे निरूढत्वाभावात् । इन्द्रादिशब्दास्त्वर्थविशेषे निरूढा नान्यत्र नेतुं शक्याः । उक्तं हि–
पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथक्श्रुतैः ।
निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥
इति । रूढोऽप्यन्नशब्दोऽद्यतेऽत्ति चेति श्रुत्युक्तस्य योगस्यान्यत्रासम्भवाद्ब्रह्मपरः । इन्द्रादिशब्दानां त्विह श्रुतौ योगो नोक्तः । यौगिकार्थश्चैश्वर्यादिर्देवतासु सम्भवतीति पूर्वाधिकरणवैषम्येण पूर्वपक्षोत्थानात्सङ्गतिः । आकाशाद्यधिकरणेष्वाकाशादि-शब्दानामन्यत्र रूढ्या पूर्वपक्षेऽपि तेषामेतदधिकरणानन्तर्ये हेतुर्वक्ष्यते ।
प्रकाशिका
नन्वस्याधिकरणस्य ब्रह्मसमन्वयपरत्वेन शास्त्राध्यायान्तर्भाव-रूपसङ्गतिसम्भवेऽपि नात्र पादे निवेशो युज्यते । लिङ्गसमन्वयपरत्वादित्यत आह ॥ अत्रेति ॥ एतदधिकरणान्त उक्तमित्यर्थः । तथा च तद्व्याख्यानेन स्पष्टीकरिष्याम इति भावः । अनेनाधिदैवगताः सर्वेऽपि शब्दा उदाहरणमित्युक्तं भवति । इदानीं पूर्वाधि-करणसङ्गतिं भाष्यानुव्याख्यानानुरोधेन चतुर्धाऽऽह ॥ अनन्तरेति ॥ यद्यप्येकयैवालं तथापि विषयव्याप्त्यर्थमनेकसङ्गत्युक्तिरिति ध्येयम् । ‘‘यदा ह्येवैष एतस्मिन्नदृश्येऽ-नात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोभयं गतो भवति’’ इत्यत्रैतस्मिन्निति प्रकृतानन्दमयपरामर्शेनोक्तस्यानन्दमयधर्मस्यादृश्यत्वस्य ‘‘अन्तश्चन्द्रमसि मनसा चरन्तम् । सहैव सन्तं न विजानन्ति देवाः’’ इति वाक्ये कैमुत्यन्यायेन देवादिसर्वाज्ञेयत्वेनान्तस्स्थे श्रवणादित्यर्थः ॥ अविष्णुत्वादिति ॥ पूर्वपक्षन्यायेनेति भावः ।
नन्वन्तस्स्थस्याविष्णुत्वे आनन्दमयोऽप्यविष्णुरित्ययुक्तम् । अन्तस्स्थस्याविष्णुत्वेऽ-न्यत्र प्रसिद्धेन्द्रादिश्रुतिलिङ्गरूपविशेषहेतुवत्तत्र विशेषहेतोरभावादेवानन्दमयस्य तत्रत्य-सिद्धान्तन्यायेन विष्णुत्वोपपत्तेः । न चादृश्यत्वं विशेषहेतुः । तस्य द्वयोरप्युपपत्त्या तादृशलिङ्गमात्रेण ‘‘ब्रह्मशब्दात्समस्तात्तृत्वादिलिङ्गाच्च’’ इत्युक्तदिशा श्रुत्यादिप्रमाण-षट्कावगतविष्णुत्वाक्षेपायोगात् । प्रत्युतोक्तरीत्या विष्णुलिङ्गतयाऽवगतादृश्यत्वेनान्त-स्स्थस्यैव विष्णुत्वापत्तेश्च ।
न चान्तस्स्थत्वस्येन्द्रादिनिष्ठत्वेनावगतावन्तस्स्थत्वरूपगुहा-निहितत्वस्यानन्दमय-निष्ठतया मान्त्रवर्णिकसूत्रेणोक्तेर्वक्ष्यमाणदिशा सोऽप्यन्य एवेत्याक्षिप्यत इति वाच्यम् । तस्याप्युक्तदोषग्रस्तत्वादिति चेन्मैवम् । अदृश्यपदेन निरतिशयवैभवस्य विवक्षिततया तस्य च द्विष्ठत्वायोगेनैकस्यैव वक्तव्यत्वात् । तस्य चान्यत्र निरूढेन्द्रादिश्रुत्यादिबलेनान्यत्वेन निर्णीतान्तस्स्थनिष्ठतया तल्लिङ्गत्वावगमेन तद्युक्तानन्दमयोऽप्यन्य इत्याक्षेपसम्भवात् । ब्रह्मादिशब्दानां कथञ्चिदिन्द्रादावेव नेयत्वात् । तथा चावयवावयव्यभेदादिकं न क्लेशेन नेयम् । न च वैपरीत्यम् । अत्रेन्द्रादिप्रापकश्रुतिलिङ्गानामन्यत्र निरूढत्वेन विष्णौ निरवकाशत्वात् । एकेन लिङ्गमात्रेणानेकनिरवकाशबाधायोगात् । अत एवोक्तं टीकायां ‘‘न चादृश्यत्वलिङ्गेनान्तस्स्थो विष्णुः । श्रुत्यादिभ्यो लिङ्गमात्रस्य दुर्बलत्वात्’’ इति । किञ्चेन्द्रादीनां विष्ण्वभिन्नत्वेन विष्णुप्रापकाणामुपहितेन्द्रादाविवेन्द्रादिप्रापकाणामनुपहिते विष्णावयोगात्काल्पनिकभेदाश्रयणाच्चान्तस्स्थस्यान्यत्वेऽत्रोक्तदिशाऽऽनन्दमयोऽप्य-विष्णुरित्याक्षेपसम्भवात्प्रागुक्तभेदव्यपदेशस्याप्याक्षेपाच्च ।
केचित्तु आनन्दमयस्याविष्णुत्वशङ्कामात्रेण विष्णुत्वनिश्चयाक्षेपसम्भवात्तदभिप्रायेणेय-माक्षेपोक्तिः । अत एव टीकायाम् ‘आनन्दमयस्यान्यत्वप्रसङ्गात्’ इति प्रसङ्गशब्द इत्याहुः । तेषां पक्षे स एवानन्दमय इति भाष्यं कथं नेयमिति चिन्त्यम् । इयं च नाश्रद्धे-येत्याह ॥ इयं चेति ॥ ननु यद्यानन्दमयाक्षेपकत्वेनास्य तदानन्तर्यं तर्ह्याकाशाद्यधि-करणानामपि तदानन्तर्यं स्यात् । तेषामपि भाष्ये तदाक्षेपकत्वदर्शनादिति चेन्न । तद्भाष्यस्य फलमात्रपरत्वेन वक्ष्यमाणत्वादेतदानन्तर्यहेतोर्दर्शयिष्यमाणत्वाच्चेति भावः । उक्तसङ्गतिपरत्वं भाष्यस्याक्षिप्य समाधत्ते ॥ न चेति ॥
ननु ‘‘ब्रह्म जिज्ञास्यम्’’ इति भाष्यावतारिकाटीकागतसङ्गतिपदस्यार्थद्वयं प्राग्व्याख्यातम् । तथा च तद्भाष्यवदेतद्भाष्यं प्रयोजनमात्रपरं नेति कथम् । उच्यते । पूर्वत्र प्रयोजनमात्रपरत्वव्याख्यानमेवाभिप्रेतम् । अत एव तत्रैवोपष्टम्भकोक्तिः । व्यवहितसङ्गति-परत्वव्याख्यानं तु अव्यवहितसङ्गतिनिर्बन्धो नावश्यक इत्यर्थस्यावश्यसूचनीयत्वा-त्तत्परतयाऽपि योजयितुं शक्यत इति भावेन । सङ्गतिपरत्वेऽव्यवहितसङ्गतिकथनसम्भवे व्यवहितेन तदुक्तिरयुक्तेत्यरुच्यैव यद्वेति पक्षान्तरोक्तिरिति । न चैवमतिदेशायोगः । अरुच्यंशतिरोधानेन तदुपपत्तेः । यद्वा अरुचिग्रस्तस्याप्यस्यार्थस्यात्रोक्तिः किमर्थे-त्यतोऽत्रानभिप्रेतत्वेऽप्यन्यत्रोपयोगो भविष्यति । यत्र भाष्येऽव्यवहितपूर्वसङ्गतिरुच्यते तत्रेति भावेनातिदेशोपपत्तेः । अत एव पूर्वतन्त्रे ‘‘कृत्वाचिन्तायाः फलमन्यत्रेति कृत्वा-चिन्ताः प्रवर्तन्ते’’ इति । व्याकरणेऽपि ‘‘नामि’’ इत्यादौ सनुट्कामादिग्रहणस्य तत्रानुपयोगेऽपि ‘‘नोपधायाः’’ इत्यादावुपयोगः । यद्वाऽव्यवहितसङ्गतिपरत्वं मात्र-पदव्यावर्त्यमिति न कश्चिद्दोषः ॥ कर्तृत्वादेरिति ॥ आदिपदेन शास्तृत्वरूपनियाम-कत्वस्य ग्रहः । नन्वत्र कर्तृत्वमेव श्रुतं न तु सर्वकर्तृत्वम् । तथा च प्रागुक्तसर्वकर्तृत्वाक्षेपो नियामकत्वाक्षेपो वा कथमिति चेदित्थम् । अन्तश्शब्दस्य निरुपपदस्य सर्वान्तःप्रवेशेन सर्वकर्तृत्वलाभाद्वा, कर्तृशब्दस्य वा निरुपपदस्य मुख्यकर्तृवाचित्वेन कृत्स्नकर्तुरेव मुख्यकर्तृत्वात्तेन तल्लाभाद्वा, अन्यस्य कतिपयकर्तृत्वे भगवतः सर्वकर्तृत्वायोगादिति वा तदाक्षेपसम्भवात् । तथा जनानामिति बहुवचनस्य सङ्कोचकाभावात्कैमुत्यन्यायेन चेतना-चेतनसर्वशास्तृत्वलाभेन तदाक्षेपसम्भवात् । ‘सर्वे वेदाः’ इत्यत्र कैमुत्येन सर्वसदागम-वेद्यत्वलाभेन तदाक्षेपसम्भवादिति ॥ अन्यथापीति ॥ अव्यवहिताक्षेपस्यापि व्यवहित-जिज्ञासासूत्राक्षेपपर्यन्तत्वेन ततोऽप्यव्यवहितस्यानन्यद्वारा साक्षादाक्षेपसम्भवादिति भावः ॥ उक्तं हीति ॥ उद्भिन्नयवार्तिके ॥ प्रसिद्धैरिति ॥ निर्ज्ञातसम्बन्धैः । अपृथक् श्रुतैः सहश्रुतैः । निरूढं निश्चितसम्बन्धपदम् ।
पूर्वोक्तेन विरोधं निरस्यति ॥ निरूढोऽपीति ॥ ओदनादाविति भावः ॥ अन्यत्रेति ॥ प्रसिद्धान्नेऽसम्भवादित्यर्थः । उक्तद्वयवैषम्यम् इन्द्रेति ॥ यौगिकार्थश्चेति ॥ ‘‘तमिदं द्रंसन्तमिन्द्रमित्याचक्षते परोक्षेण’’ इत्यैतरेये तथा ‘‘तमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेण’’ इति बृहदारण्यके च योगस्योक्तत्वात् ‘‘इह’’ इत्युक्तम् ॥ सङ्गतिरिति ॥ प्रत्युदाहरणरूपेत्यर्थः । लक्षणं तूक्तम् । अस्योत्तराधिकरणतुल्यत्वादेतदधिकरणस्यैव पूर्वानन्तर्ये को हेतुरत आह ॥ आकाशादीति ॥
पाण्डुरङ्गि
नन्विदमधिकरणं पादासङ्गतम् । तत्रान्तस्स्थत्वलिङ्गसमन्वयस्य क्रिय-माणत्वात् । अस्य च नामपादत्वादित्यत आह ॥ अत्रेति ॥ तथा च फलतः पाद-सङ्गतिरस्तीति नासङ्गतिरिति भावः ॥ प्रयोजनस्यान्यथाप्युपपत्तेरिति ॥ प्रयोजनमात्रपरं चेदत्र भाष्यं स्यात्तर्हि पूर्वाधिकरण इव सूत्रे कण्ठत उक्तं महाप्रयोजनमेवाक्षिपेत् । प्रथमातिक्रमे कारणाभावात् । पूर्वोल्लङ्घनेन षष्ठाधिकरणेऽर्थादुक्तप्रायमदृश्यत्वमेव नाक्षिपे-दित्यर्थः । एवं भाष्योक्तां सङ्गतिमुक्त्वाऽनुव्याख्यानोक्तां सङ्गतिमाह ॥ यद्वेति ॥ पदमज्ञातसन्दिग्धमित्यादि ॥ उद्भिदधिकरणवार्तिक इति शेषः । अयमर्थः । पिकादि-पदमर्थविशेषवाचित्वेनाज्ञातमसन्दिग्धं च कोकिलः पिको विदेवनोक्ष इत्यर्थविशेष-वाचित्वेन प्रसिद्धैरपृथक् श्रुतिसमानाधिकरणनिर्दिष्टं सदर्थविशेषवाचित्वेन निर्णीयते । यत्त्वर्थविशेषवाचित्वेन निरूढं नियतम् । तत्प्रसिद्धपदसामानाधिकरण्येऽपि स्वार्था-न्नापनीयत इति ॥ ननु रूढत्वादिन्द्रादिशब्दानामन्यपरत्वाभावे अन्नशब्दस्यापि रूढत्वा-दन्यपरत्वं न स्यादित्यत आह ॥ रूढोऽपीति ॥ नन्वेवं रूढानामप्यन्नानामद्यतेऽत्ति चेत्यादिश्रुत्युक्तयोगस्यान्यत्रासम्भवेन ब्रह्मपरत्ववद् इन्द्रादिशब्दानां रूढत्वेऽपि श्रुत्युक्त-योगस्यान्यत्रासम्भवेनेन्द्रादिशब्दानामपि ब्रह्मपरत्वं स्यादित्यतः श्रुत्या योगस्यानुक्तत्वा-
द्विद्यमानस्याप्यन्यत्र सम्भवान्नेन्द्रादिशब्दानां ब्रह्मपरत्वमित्याह ॥ इन्द्रादिशब्दानां त्विति ॥