२९ टीकाक्षरार्थवर्णनम्

टीकाक्षरार्थस्तु

टीकाक्षरार्थवर्णनम्

तात्पर्यचन्द्रिका

टीकाक्षरार्थस्तु ॥ श्रुत्यधिकरणसङ्गती दर्शयतीति ॥ येन केनचित् पूर्वाधिकरणेन तद्विषयश्रुत्या च सङ्गतिरेवापेक्षितेत्याद्यसूत्रेण तद्विषयवाक्येन चाक्षेपिकी सङ्गतिरस्तीत्यर्थः । यद्वाऽत्र पूर्वपक्षे आद्यसूत्रतद्विषयवाक्योक्त-जिज्ञासाक्षेपात्सिद्धान्ते च तत्समाधानात्तत्सङ्गती स्त इति प्रयोजनवान१यं विचार इत्यर्थः । अत एवोत्तरत्र टीकायां ‘‘किमर्थमानन्दमयस्य विष्णुत्वसमर्थनम्’’ इति प्रश्नः ‘‘ब्रह्मजिज्ञासासिद्ध्यर्थम्’’ इति परिहारश्च । एवमुत्तरत्रापि सङ्गतिटीका द्विधा व्याख्येया ॥ तस्मादुद्भूत इति ॥ शरीरिस्थानीयात्तदान्तरान्नारायणाख्या-दानन्दमयाच्छरीरस्थानीयो बाह्यो वासुदेवाख्यो विज्ञानमयः प्रादुर्भूत इत्यर्थः ।

इन्द्रबृहस्पत्यादीनामपि सूर्याधिष्ठातृत्वादिनेति ॥ तेषां सूर्यादुत्तमतया तन्नियामकत्वेनावस्थानं तदधिष्ठातृत्वम् । आदिशब्देन ‘‘स एक इन्द्रस्यानन्दः स एको बृहस्पतेरानन्दः’’ इतीन्द्रश्रुत्यादिकं विवक्षितम् । आनन्दप्रचुर इति यद्युच्यत इति ॥ प्राचुर्यस्य विशेषणतायामनानन्दाप्राप्तेः परैरप्यङ्गीकृतत्वात्, ‘‘प्रचुरानन्द-त्वात्’’ इति वदता भाष्यकृता यथा प्रचुरानन्द इत्युक्तावनानन्दाप्राप्तिस्तथा श्रुतिसूत्रानुसारेणानन्दमय इति प्राचुर्यस्य विशेष्यत्वेनोक्तावपि तदप्राप्तिः । ‘‘प्रकाशप्रचुरो रविः’’ इत्युक्तेऽपि सवितर्यन्धकारलेशाप्रतीतेरिति सूचितमित्यर्थः । ‘‘ननु विस्मृतकण्ठमणिः’’ इति सिद्धान्तग्रन्थे ‘‘ननु’’ इत्यस्य ‘‘इत्येवोच्यते ननु’’ इत्यन्वयः । विमतानि शरीराणीति ॥ शरीरत्वहेतोर्जीवानामन्योन्य-मभेदसाधकत्वेऽपि विशिष्टरूपस्याभेदायोगेन शुद्धस्य शुद्धेनाभेदे वक्तव्ये शुद्धस्यैव ब्रह्मत्वाद्ब्रह्माभेदोऽपि सेत्स्यतीति भावः ॥ आनन्दमयाधिकरणं सम्पूर्णम् ॥ ५ ॥

प्रकाशिका

‘‘विप्रकीर्णनानाशाखा’’ इति प्रागुक्तमनुरुद्ध्य व्याचष्टे ॥ येन केन-चिदिति ॥ ‘‘चिन्ताफलमात्रमुक्तम्’’ इत्युक्तिमनुरुध्याह ॥ यद्वेति ॥ नन्वेवं पूर्वोक्तदिशा गौणश्चेदित्यादिसूत्रचतुष्टयोक्ताक्षेपसमाधानाभ्यामप्यस्य फलवत्त्वसम्भवेन व्यवहितेन फल-वत्त्वोक्तिरर्थवती, अनन्तरसङ्गतिश्च स्वरसा भवतीति भाष्ये जिज्ञासाधिकरणेन तदुक्तिर्न स्वरसेति चेन्न । अव्यवहिताक्षेपस्यापि जिज्ञासाक्षेपं विनाऽपर्यवसानेन तदाक्षेपपर्यन्तत्वा-त्साक्षात्तदाक्षेपसम्भवे गौणसूत्राद्याक्षेपद्वारा तदाक्षेपस्य वक्रत्वादिति भावः । विषय-वाक्यार्थोक्त्यवसरे ‘‘तस्य पुरुषविधताम् । अन्वयं पुरुषविधः’’ इत्यस्यानन्दमयस्य पुरुषाकारतानुसारेणायं विज्ञानमयः पुरुषाकारस्तस्मादुद्भूत इत्यर्थ उक्तः । तत्र कोशात्कोशस्योद्भव इति भ्रान्तिं वारयन्–

देहदेहिवदेवासौ पञ्चधाऽवस्थितो हरिः ।

बहिस्स्थो देहवद्विष्णुरन्तस्स्थो देहिवत्स्मृतः ।

अन्तर्व्याप्तिविशेषेण न त्वशक्तत्वतो बहिः ।

सर्वेऽपि पुरुषाकार उत्तरात्पूर्वसम्भवः ।

इति तैत्तिरीयभाष्यानुरोधेनार्थमाह ॥ तस्मादुद्भूत इतीति ॥ तदान्तरात् तदन्त-र्विद्यमानात् । सूर्याधिष्ठातृत्वस्योपनिषद्यनुक्तत्वाद्दुर्गमं तद्वाक्यं व्याचष्टे ॥ इन्द्रेति ॥ ‘‘आनन्दप्रचुर इति यद्युच्यते तदा ब्राह्मणप्रचुरो ग्राम इत्यादिवदनानन्दस्यापि प्राप्तेः प्रचुरानन्द इति विपरीतसमासः कृतः’’ इति टीका न युक्ता । ‘‘यत्तु प्राचुर्यस्य विशेषणत्वे’’ इत्यादिनाऽस्य दूषितत्वादित्यतस्तां विवृणोति ॥ आनन्दप्रचुर इतीति ॥ शङ्कालिङ्गस्य ‘ननु’ इत्यस्य परिहारवाक्येऽन्वयं घटयति ॥ ननु विस्मृतेति ॥ ननु शरीरत्वानुमानेन प्रतिशरीरं जीवाभेदस्य सिद्धिर्न तु जीवानां ब्रह्माभेदस्य । अतः प्रागुक्त-मात्मत्वानुमानमेव प्रयोज्यमित्यतः सुधोक्तमेवोत्तरमाह ॥ विमतानीति ॥ शिष्टमुपन्यास-मुखेन विवृतमिति भावः ॥ आनन्दमयाधिकरणं सम्पूर्णम् ॥ ६ ॥

पाण्डुरङ्गि

ननु श्रुत्यधिकरणसङ्गती दर्शयतीति टीकायामुक्तम् । तदयुक्तम् । भाष्येऽव्यवहितपूर्वाधिकरणविषयवाक्याभ्यां श्रुत्यधिकरणसङ्गत्योरप्रदर्शनादित्यत आह ॥ येन केनचिदिति ॥ अव्यवहिताधिकरणसङ्गतिः स्फुटत्वाच्छिष्यैरेवोह्या । जिज्ञासा कर्तव्येति भाष्यं तु चिन्ताफलमात्रप्रदर्शकमिति यत्पूर्वमुक्तं तदनुरोधेन टीकाग्रन्थं योजयति ॥ यद्वेति ॥ प्रयोजनवानेवायं विचार इति ॥ तथा च भाष्यं प्रयोजनमात्रपरं न सङ्गतिपरमिति भावः ॥ एवमुत्तरत्रेति ॥ यत्र व्यवहिताधिकरणेन सङ्गतिरुक्ताऽस्ति तत्रेत्यर्थः । नन्वयं पुरुष इत्येतट्टीकायां तस्मादुद्भूत इति व्याख्यातम् । तदनुपपन्नम् । आनन्दमयविज्ञानमययोर्द्वयोरपि ब्रह्मत्वेनोत्पादकोत्पाद्यभावायोगात् ।

किञ्च विज्ञानमयादानन्दमयस्यैवोत्पत्तिः किं न स्यात् । नियामकाभावादित्यत आह ॥ शरीरीति ॥ तथा चोद्भूतशब्दस्य प्रादुर्भावार्थत्वान्नोत्पाद्योत्पादकभावः । ‘तस्मादु-द्भूतः’ इत्येतत् ‘‘तस्य पुरुषविधताम्’’ इत्यस्य तात्पर्यकथनपरमिति ज्ञातव्यम् । ‘इन्द्रबृहस्पत्यादि’ इति टीकायामिन्द्रादेः सूर्याधिष्ठातृत्वमुक्तम् । तदनुपपन्नं, प्रमाणा-भावादित्यत आह ॥ तेषामिति ॥ इन्द्रश्रुत्यादिकं विवक्षितमिति ॥ ‘‘ते ये शतमिन्द्र-स्यानन्दाः’’ इत्यादिशतानन्दसामानाधिकरण्येनेन्द्रादिश्रुतेः श्रवणाच्छतानन्दानन्दमय-शब्दयोरेकार्थत्वात्तेषां प्राप्तिरिति ज्ञेयम् । सुधाविरोधपरिहारायोक्तानुपपत्तिपरिहाराय च व्याचष्टे ॥ आनन्दप्रचुर इतीति ॥ आनन्दप्रचुर इत्यत्र परैरङ्गीकृतत्वादिति शेषं, प्रचुरानन्द इत्यभिधाने चेत्यत्र इवेति शेषं, तथाऽनन्दप्रचुर इति शेषं च प्रपूर्य व्याचष्टे ॥ प्राचुर्यस्येत्यादि ॥ अनेनानन्दप्रचुर इति यथाऽभिधाने ब्राह्मणप्रचुरो ग्राम इत्यादि-वदनानन्दस्यापि प्राप्तेः परैः शङ्कितत्वात् तथा प्रचुरानन्द इत्यभिधाने च पूर्णानन्द इत्येव प्रतीतेश्च परैरङ्गीकृतत्वाद्विपरीतसमासः कृतः । कथं प्रचुरानन्द इत्युक्तिवदानन्दप्रचुर इत्युक्तावपि पूर्णानन्द इत्येव प्रतीतेः । अन्यथा प्रकाशप्रचुरो रविरित्यत्राप्यन्धकारलेश-प्रतीत्यापत्तेः परोक्तं नेत्येवं टीका योजितेति द्रष्टव्यम् । ननु विस्मृतेत्यादेः शङ्का-ग्रन्थत्वनिरासायाह ॥ नन्वित्यादि ॥ ननु शरीरत्वेनाभेदसाधनमयुक्तम् । तेन जीवानामन्योन्यमभेदसिद्धावपि शुद्धब्रह्मभेदासिद्धेरित्यत आह ॥ शरीरत्वेति ॥

॥ इति आनन्दमयाधिकरणं सम्पूर्णम् ॥ ६ ॥