२७ स्वाभिमताधिकरणप्रमेयोपपादनम्

ब्रह्मशब्दात्समस्तात्तृत्वादिलिङ्गाच्च वाक्यतः

स्वाभिमताधिकरणप्रमेयोपपादनम्

तात्पर्यचन्द्रिका

तस्मात् —

ब्रह्मशब्दात्समस्तात्तृत्वादिलिङ्गाच्च वाक्यतः ।

पूर्वोत्तरस्मान्मन्त्रस्थब्रह्मप्रकरणादपि ॥ १ ॥

भृगुवल्लीसमाख्यानान् मुक्तगीतावसानकात् ।

स्थानप्रमाणतश्चैव पञ्चानां ब्रह्मता स्थिता ॥ २ ॥

उक्तं हि तैत्तिरीयभाष्ये—

शन्नो मित्रादिभिर्वाक्यैस्तैरेव हरिमस्तुवत् ।

मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः ॥

इत्यस्य स्थानस्य ब्रह्मपरत्वम् ।

तथा–

ब्रह्मप्रश्नोत्तराद्ब्रह्मलक्षणाद्ब्रह्मशब्दतः ।

विज्ञातत्वाच्च तपसा मुक्तगम्यत्वतस्तथा ॥ १ ॥

वाधूलीयसमाख्यानादनुव्याख्यानिरूपितात् ।

भृगुवल्ल्युदितस्यान्नप्राणादेर्ब्रह्मता स्थिता ॥ २ ॥

उक्ता ह्यनुव्याख्याने समाख्या ‘‘तच्च वाधूलशाखायामष्टरूपमुदाहृतम्’’ इति ।

प्रकाशिका

एवं परमतानि निरस्य स्वाभिमताधिकरणप्रमेयं श्रुत्यादिप्रमाणषट्क-पूर्वकं सङ्गृह्याह ॥ तस्मादिति ॥ मतान्तराणामसम्भवादित्यर्थः । सौत्रसाधकस्य श्रौतसाधकान्तरोपलक्षणत्वादनेकसाधकोक्तिः । तदुक्तं ‘‘कम्पनात्’’ इत्यत्र टीकायां ‘‘तदविहायैव लिङ्गान्तरस्याप्युक्तत्वात् । एतदन्यत्राप्यनुसन्धेयम्’’ इति ॥ ब्रह्मशब्दा-दिति ॥ ‘‘येऽन्नं ब्रह्मोपासते ये प्राणं ब्रह्मोपासते आनन्दं ब्रह्मणो विद्वान् विज्ञानं ब्रह्म चेद्वेद अस्ति ब्रह्मेति चेत्’’ इति पञ्चस्वपि प्रकरणेषु प्रत्येकं ब्रह्मशब्दश्रवणादित्यर्थः । ब्रह्मणः शब्द इत्यपि विगृह्य आत्मशब्दादित्यपि ध्येयम् । लिङ्गाच्चेत्येकवचनं समुदायाभि-प्रायेण । तथा हि । अन्नमये ‘‘अद्यतेऽत्ति च भूतानि’’ इति सर्वात्तृत्वरूपसंहर्तृत्वं सर्वाद्यत्वरूपसर्वोपजीव्यत्वं ‘‘अन्नं हि भूतानां ज्येष्ठम्’’ इति ज्येष्ठत्वं ‘‘सर्वं वै तेऽन्न-माप्नुवन्ति’’ इत्युपासकप्राप्यत्वमित्यादीनि लिङ्गानि ।

तथा प्राणमये ‘‘प्राणं देवा अनुप्राणन्ति’’ इति सर्वदेवादिचेष्टकत्वं ‘‘सर्वमेव त आयुर्यन्ति ये प्राणं ब्रह्मोपासते’’ इति सर्वायूरूपमोक्षहेतुज्ञानविषयत्वमित्यादीनि । मनोमये च ‘‘यतो वाचो निवर्तन्ते’’ इति वाङ्मनसागोचरत्वं ‘‘न बिभेति कुतश्चन’’ इति भयाभावरूपमुक्तिहेतुवेदनविषयत्वमित्यादीनि । विज्ञानमये च ‘‘विज्ञानं देवास्सर्वे ब्रह्मज्येष्ठमुपासते’’ इति सर्वदेवोपास्यत्वं ज्येष्ठत्वं ‘‘तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा’’ इत्युक्तमुक्तिहेतुत्वमित्यादीनि । आनन्दमये च ‘‘सोऽकामयत’’ इति सङ्कल्प-पूर्वकं सर्वस्रष्टृत्वं सर्वान्तरत्वं ‘‘अस्ति ब्रह्मेति चेद्वेद सन्तमेनं ततो विदुः’’ इत्युक्त-मुक्तिहेतुज्ञानविषयत्वं चेत्यादीनि लिङ्गानि सन्ति । अतो लिङ्गाद् लिङ्गसमुदायादित्यर्थः ।

‘‘स्वादिष्वसर्वनामस्थाने’’ इति सूत्रेण ‘‘उरः प्रभृतिभ्यः कप्’’ इत्युक्तकप्प्रत्यया-वधिषु स्वादिषु पूर्वस्य पदत्वविधानादिह च त्वप्रत्यये परतः पूर्वस्य पदत्वान्न यतिभङ्गः शङ्कनीयः । उक्तं च सुधायां ‘‘इत्यादिनाऽध्यायेन वदत्यजः’’ इत्यत्र ॥ वाक्यत इति ॥ ‘‘को ह्येवान्यात्कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’’ इत्याकाशाख्य-विष्णोरानन्दमयत्वरूपपूर्णानन्दत्वे विश्वचेष्टकत्वहेतुप्रतिपादकवाक्यादिति तृतीयसूत्रार्थः । एतच्चानन्दमयासाधारणम् । यद्वा ‘‘अन्नाद्वै प्रजाः प्रजायन्ते प्राणं देवा अनुप्राणन्ति यतो वाचो निवर्तन्ते विज्ञानं यज्ञं तनुते असन्नेव स भवति सोऽकामयत’’ इत्यादिरूपात्प्रति-प्रकरणमन्नमयादिमहिमप्रतिपादकवाक्यादित्यर्थः । न ह्यन्नमयादीनामब्रह्मत्वे तन्महिमोक्ति- परब्रह्मश्रुतिलिङ्गोपेतवाक्यसमभिव्याहारो युज्यत इति भावः । मन्त्रस्थं सत्यं ज्ञानमनन्त-मिति मन्त्रवर्णप्रतिपादितमेव ब्रह्म–

ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् ।

तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ।

लक्षितं तत्र सत्यत्वं सृष्ट्यान्नप्राणयोरपि ।

उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ।

अनन्तत्वं तथाऽऽनन्दमयवाचाप्युदाहृतम् ॥

इत्यनुव्याख्यानोक्तदिशा ‘‘तस्माद्वा एतस्मात्’’ इत्यादिना ग्रन्थेन ‘‘गीयते’’ इति पूर्वस्मात् ‘‘यतो वाचो निवर्तन्ते’’ इत्युत्तरस्मान्मन्त्रवर्णस्थब्रह्मणः प्रकरणादिति मान्त्र-वर्णिकसूत्रार्थः । यद्वा पूर्वोत्तरस्मादिति वाक्यविशेषणम् । ‘‘तस्माद्वा एतस्मात्’’ इति पूर्ववाक्यात् ‘‘स य एवं वित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रामति’’ इत्युत्तरवाक्याच्चेत्यर्थः । तस्माद्वा इत्यत्र भूतकारणत्वेनोक्तात्मन एव ‘‘स वा एषः’’ इति परामृश्यान्नमयादित्वोक्तेः । तदुक्तम् ।

परामृशति तस्यैव पञ्चरूपत्ववित्तये ।

त्यक्त्वा भूतादिकं सर्वं स वा एष इति श्रुतिः ।

स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः ॥

इति, ‘‘योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति’’ इति च । तथा चान्नमयादेरब्रह्मत्वे ब्रह्मपरपूर्वोत्तरवाक्यसमभिव्याहारो न स्यादित्यर्थः । तेन ‘‘अस्मिन्नस्य च’’ इति सूत्रार्थोऽपि सङ्गृहीतो भवति । मन्त्रस्थेत्यस्य तु मान्त्रवर्णिकब्रह्मप्रकरणादपीति प्रागुक्त एवार्थः ॥ भृगुवल्लीति ॥ ‘‘अन्नं ब्रह्मेति व्यजानात्’’ इत्यादौ श्रुतान्नादेरन्नमयादे-श्चैकत्वस्य प्रागेवोक्तत्वादिति भावः ॥ मुक्तगीतेति ॥ ‘‘एतत्सामगायन्नास्ते । हावुहावु-हावु’’ इत्यादिमुक्तकर्तृकगानान्तात् । अनेकप्रकरणजातं स्थानमिति ‘‘शब्दादेव’’ इत्यत्र वक्ष्यमाणलक्षणात्स्थानप्रमाणाच्चेत्यर्थः । ब्रह्मतैवेत्यन्वयः । श्रुतिलिङ्गवाक्यप्रकरणानां ब्रह्मनिष्ठता भाष्यादौ स्पष्टा, इहापि प्रागुक्तप्राया । स्थानसमाख्ययोस्तु तां क्रमेणाह ॥ उक्तं हीत्यादिना ॥ ब्रह्मपरत्वमित्यन्वयः ॥ अस्तुवदिति ॥

भृगुः पञ्चात्मकं पूर्णमन्नादिमयमच्युतम् ।

मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः ।

सुप्रीतः प्रददौ ज्ञानं स्वात्मभक्तिं च शाश्वतीम् ॥

इति स्मृत्येत्यर्थः ॥ ब्रह्मप्रश्नेति ॥ ‘‘भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचम्’’ इत्यनेन ब्रह्माध्यापयेति भृगुणा पृष्टेन वरुणेन ब्रह्मप्रश्नस्योत्तरत्वेनोक्तत्वश्रवणादित्यर्थः । अब्रह्मत्वेऽसङ्गतिः स्यात् । न च द्वारत्वेन सङ्गतिः । निरस्तत्वादिति भावः । ‘‘यतो वा इमानि भूतानि जायन्ते’’ इति साधारण्येन ‘‘अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते प्राणाद्ध्येव’’ इत्यादिना विशिष्य चोक्तात्सृष्टिस्थितिसंहारमोक्षहेतुत्वरूपलक्षणसमुदाया-दित्यर्थः । अन्नं ब्रह्मेति प्राणो ब्रह्मेति मनो ब्रह्मेत्यादिप्रत्येकं ब्रह्मशब्दश्रवणादित्यर्थः । ‘‘स तपो तप्यत । स तपस्तप्त्वा । अन्नं ब्रह्मेति व्यजानात् । स तपस्तप्त्वा । प्राणो ब्रह्मेति व्यजानात् । स तपस्तप्त्वा । मनो ब्रह्मेति व्यजानात्’’ इत्यादिनोक्ता-च्छ्रवणानन्तरभाविना निदिध्यासनाख्यतपसा व्यजानादित्यपरोक्षीकृतत्वलिङ्गादित्यर्थः । न हि कोशादेः स्वभावसिद्धज्ञानस्य साक्षात्काराय तपोऽपेक्षितमिति भावः ॥ मुक्तेति ॥ ‘‘स य एवं वित् । अस्मांल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य’’ इत्यादिनाऽन्न-प्राणादिपञ्चकज्ञानिनो लोकाद्देहात्प्रेत्येति मुक्तत्वमुक्त्वा प्राप्यत्वस्योक्तेरित्यर्थः । न चान्यज्ञानेनान्यप्राप्तिर्युक्तेत्यन्नादेरपि ब्रह्मत्वमिति भावः ।

अनुव्याख्यानिरूपितात्समाख्यानादित्युक्तम् । तद्दर्शयति ॥ उक्तेति ॥ तस्यार्थः । ननु ब्रह्मवल्ल्यामनुक्तं चक्षुःश्रोत्रं मनो वाचमिति त्रितयमधिकमुपात्तम् । विज्ञानानन्दौ च नोक्तौ । तथा च शब्दभेदात्सङ्ख्याभेदाद्भृगुवल्ली कथं समाख्या स्यादिति शङ्कायाम् अनुक्तावपि विज्ञानानन्दावध्याहार्यौ । तत्रोक्तं चक्षुरादित्रयं ब्रह्मवल्ल्यामपि ग्राह्यम् । आवापोद्वापाभ्यां ब्रह्मप्रतिपादनस्य शाखानां स्वभावत्वात् । तथा च स्थानद्वयेऽष्टौ रूपाणि सम्पद्यन्ते । अतो न भिन्नार्थत्वमिति । कुत एतदित्यतः समाख्याबलादिति भावेन ‘‘तच्च वाधूलशाखायाम्’’ इत्युक्तमिति । वाधूलशाखावाक्यं तु‘‘तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा वाङ्मयः । तस्माद्वा एतस्माद्वाङ्मयात् । अन्योऽन्तर आत्मा चक्षुर्मयः । तस्माद्वा एतस्माच्चक्षुर्मयात् । अन्योंतर आत्मा श्रोत्रमयः । तस्मात्प्राणमयः । तस्मान्मनोमयः । तस्माद्विज्ञानमयः । तस्मादानन्दमय इति हि’’ इति तत्वप्रदीपोक्तं बोध्यम् ।

पाण्डुरङ्गि

इदानीमुपसंहारमुखेन कारिकाभ्यामन्नमयादिपञ्चकस्य ब्रह्मत्वसाधक-हेतून्सङ्गृह्याह ॥ तस्मादिति ॥ वाक्यतः पूर्वोत्तरस्मादिति ॥ ‘‘रसो वै सः । रसह्येवायं लब्ध्वाऽऽनन्दीभवति । यतो वाचः’’ इत्याद्युदाहृतवाक्यजातादित्यर्थः । मुक्तगीतावसानकात्स्थानप्रमाणत इति सम्बन्धः । तथा च मुक्तगीतावसानकस्यास्यैक-स्थानत्वेन तत्रोक्तान्नमयादीनामपि ब्रह्मत्वमिति भावः । नन्वस्य मुक्तगीतावसानकस्यैक-स्थानत्वमेवासिद्धम् । तथात्वेऽपि वा ब्रह्मपरत्वं कुत इत्यत उभयत्र सङ्गतिमाह ॥ उक्तं हीति ॥ ‘‘शन्नो मित्रादिभिर्वाक्यैस्तैरेव हरिमस्तुवत्’’ इत्यस्य शेषभूतं ‘‘भृगुः पञ्चात्मकं पूर्णमन्नादिमयमच्युतम्’’ इति वाक्यम् । तथा ‘‘मुक्तगीतावसानैस्तु स्तुतस्तेन जनार्दनः’’ इत्यस्य शेषभूतं ‘‘सुप्रीतः प्रददौ ज्ञानं स्वात्मभक्तिं च शाश्वतीम्’’ इति चोत्तरवाक्यं चात्र द्रष्टव्यम् । तेन विवक्षितार्थलाभः । ‘‘अनुव्याख्यानिरूपितात्’’ इति प्रत्येकं सम्बध्यते ।