किञ्चाद्यसूत्रे यदि भास्करमत ..
यादवप्रकाशव्याख्यानपरीक्षा
तात्पर्यचन्द्रिका
किञ्चाद्यसूत्रे यदि भास्करमत इवानन्दमात्राभ्यासो हेतुस्तदा ब्रह्मत्वासिद्धिः । तस्य जीवेऽपि सम्भवात् । निरतिशयत्वविशिष्टस्य चाभ्यासोऽसिद्धः । शत-गुणितोत्तरक्रमेण गुणितत्वं तु नाभ्यासशब्दस्याभिधेयम् । यत्तु ब्रह्मशब्दाभ्यासो हेतुरिति यादवप्रकाशीयं मतं तदप्ययुक्तम् । तन्मते ब्रह्मत्वेनानङ्गीकृतविज्ञान-मयादावपि ब्रह्मशब्दाभ्यासस्य सत्त्वात् । द्वितीयसूत्रं चायुक्तम् । प्रायपाठबाधात् । ननु प्राणमय एव विकारार्थत्वं त्यक्तमिति चेत्तर्हि तत्र मयटः स्वार्थिकत्वाद्वैयर्थ्यम् । विज्ञानमयेऽपि तत्प्रसङ्गश्च । यच्चोक्तं विज्ञानमये मयटः सम्बन्धोऽर्थः । वैयर्थ्यादप्य-मुख्यार्थत्वस्य ज्यायस्त्वादिति । तन्न । अन्नमये विकारार्थः, प्राणमयमनोमययोः स्वार्थिको, विज्ञानमये सम्बन्धार्थः, आनन्दमये प्राचुर्यार्थ इति वैरूप्यप्रसङ्गात् । न च प्राणमयादावपि सम्बन्धार्थता । प्राणादेः प्राणादिसम्बन्धाभावात् । प्राण-शब्दस्याप्रसिद्धार्थत्वे तु वरं परमात्मपरत्वम् । एवं सूत्रान्तरेष्वप्यनुपपत्तिरूह्या ।
प्रकाशिका
सूत्रार्थमपि निराचिकीर्षुरभ्यासादिति किमानन्दमात्राभ्यासो हेतुर्निरतिशयत्वविशिष्टो वेति हृदि कृत्वा क्रमेण निराह ॥ किञ्चेति ॥ असिद्ध इति ॥ ‘‘यतो वाचो निवर्तन्ते’’ इत्यत्र तादृशस्य सकृदेव श्रवणाभ्यासादिति भावः । ‘‘सैषा-नन्दस्य’’ इत्यारभ्योत्तरोत्तराधिक्येनानन्दस्याभ्याऽसोस्तीत्यत आह ॥ शतेति ॥ प्रायपाठेति ॥ ‘‘विकारशब्दान्नेति चेत्’’ इत्यस्य त्वयाऽऽनन्दमयमात्रविषयत्वेनोक्त्या इतरेषु विकारार्थत्वस्वीकारादिति भावः । ननु सम्बन्धे मयटो नानुशासनमित्यत आह ॥ वैयर्थ्यादिति ॥ ऊह्येति ॥ तथा हि । ‘‘तद्धेतुव्यपदेशाच्च’’ इत्यस्य ‘‘एष ह्येवा-नन्दयाति’’ इति जीवानन्दहेतुव्यपदेशादानन्दमयो ब्रह्म । न हि स्वस्यैव स्वानन्दहेतुत्वं युक्तमित्यर्थ उक्तः । स न युक्तः । जीवानन्दहेतुत्वेनानन्दमयस्य जीवभेदसिद्धावपि ब्रह्मत्वासिद्धेः । अब्रह्मणोऽपि वनितादेर्जीवानन्दहेतुत्वदृष्टेः । आद्यसूत्रानन्तर्यप्रसङ्गाच्च ।
यदपि ‘‘सत्यं ज्ञानमनन्तं ब्रह्म’’ इति मन्त्रवर्णोदितं ब्रह्मैव । ‘‘तस्माद्वा एतस्मा-दात्मनः’’ इत्यारभ्यनन्दमय इति गीयत इति मान्त्रवर्णिकसूत्रार्थः’’ इति, तदपि न । मान्त्रवर्णिकब्रह्मण आनन्दमय इव भाष्याद्युक्तदिशाऽन्नमयादिष्वपि गीयमानत्वेन तेषाम-ब्रह्मत्वायोगात् । यदपि ‘‘नेतरो जीवो मान्त्रवर्णिक इति मन्तव्यम् । ब्रह्मणा विपश्चितेत्युक्तविपश्चित्त्वरूपसार्वज्ञानुपपत्तेरिति पञ्चसूत्रार्थः’’ इति । तदपि न । अन्नमयादीनामब्रह्मत्वेऽप्युक्तविपश्चित्त्वानुपपत्तेस्तुल्यत्वात् । यदपि ‘‘भीषास्माद्वातः पवते’’ इत्यादिना प्रशासितव्यवर्गाद्वायुसूर्यादेरानन्दमयस्य प्रशासितृत्वेन भेदव्यपदेशा-दानन्दमयो ब्रह्मेति षष्टार्थ’’ इति तदपि न । ब्रह्मविदाप्नोतीत्युपक्रान्तब्रह्मविषयस्य भेदव्यपदेशस्यान्नमयादिसाधारणत्वात् । यदपि ‘‘सोकामयतेत्यारभ्य स इदं सर्वमसृजतेति कामादेव सर्गश्रवणादस्यानन्दमयस्य सृष्टौ नानुमानिकप्रधानापेक्षास्तीति सप्तम्यर्थः’’ इति । तदपि न । अनुमानपदस्य लक्षणाप्रसङ्गात् । भेदसूत्रानन्तर्यहेत्वभावाच्च । कामादेव सर्गश्रवणादित्याद्यध्याहारप्रसङ्गाच्च ।
यदपि ‘‘रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति’’ इति शास्त्रं रसशब्द-निर्दिष्टेऽस्मिन्नानन्दमयेऽस्य जीवस्य तल्लाभादानन्दयोगं शास्तीत्यष्टमार्थः’’ इति । तदप्य-चारु । रसं ह्येवायमिति शास्त्रमप्यन्नरसमय इति रसशब्दनिर्दिष्टेऽन्नमय एव जीवस्यानन्द-योगं शास्तीति तस्यैव ब्रह्मत्वापत्तेरित्यूहनीयेत्यर्थः । एतेन यत्केनचित्प्रलपितंपूर्वाधिकरणे जगत्कारणत्वं प्रधाने नातिव्याप्तमित्युक्तम् । इदानीं जीवे नातिव्याप्तमिति वक्तुमिद-मारभ्यते । तथा हि । अयमानन्दमयो जीवोऽथ शिव इति विशये मयटो विकारार्थ-तयाऽऽनन्दो ब्रह्मेति श्रुत्याऽऽनन्दरूपब्रह्मकार्यतया जीवस्य तद्विकारत्वसम्भवात् ‘‘आनन्दमया मे शुद्ध्यन्ताम्’’ इत्युक्तशुद्धिप्रार्थनसम्भवाच्च जीव एवानन्दमयः । अयं च ‘‘आत्मन आकाश’’ इति भूतादिहेतुत्वेनोक्तात्मैव । ‘‘अन्योऽन्तर आत्माऽऽनन्दमयः’’ इति श्रवणादस्यैव भूतादिकारणत्वमिति प्राप्ते ‘‘सैषानन्दस्य’’ इत्यारभ्य मानुषादि-प्रजापतिपर्यन्तं तत्तदानन्दस्योपर्युपरि शतगुणत्वमभिधाय ‘‘स एको ब्रह्मण आनन्द’’ इति ब्रह्मानन्दस्य निरतिशयत्वेनाभ्यासात् । शुद्धस्यापि शिवस्य घनापगमेन चन्द्रस्य प्रसाद इव मलापनयनेन शुद्धिसम्भवाच्च शिव एवानन्दमयः ।
विज्ञानमयस्तु जीव एव । ब्रह्मपुच्छं प्रतिष्ठेति च ब्रह्मशब्दस्य प्रणवपरत्वात्तस्य च शिववाचकत्वाद् ब्रह्म प्रणवः प्रतिष्ठा शिवस्य वाचकतयाऽऽधार इत्यर्थतयोपपन्नं मयट् प्राचुर्यार्थ इति । यथोक्तं ‘‘आकाशादेः कारणमानन्दमयस्तु जीवः स्यात् । यदयं ब्रह्मविकारो ब्रह्माधारश्च शोध्यश्च निरतिशयानन्दयुतो ब्रह्मैव, प्रचुरता तु मयडर्थः । पुच्छं ब्रह्म प्रणवः शुद्धिश्च विरोध्यपगमो विधुवत्’’ । इति । तन्निरस्तम् ।
त्वन्मते पूर्वाधिकरण एव तन्निष्ठसूत्रे जीवेऽतिव्याप्तेर्निरासात् । यथोक्तं तर्हि जीवोऽस्तु । तन्न । तन्निष्ठस्यामृतोक्तेः । न हि शिवमपहायान्यनिष्ठा विमुक्ता इत्यादि-पूर्वपक्षोऽप्ययुक्तः । जीवे ब्रह्मविकारत्वस्य दुर्वचत्वात् । विज्ञानं ब्रह्मेति श्रुत्या विज्ञानरूपब्रह्मकार्यतया तद्विकारत्वस्य पूर्वपक्षिणा जीवत्वेनानङ्गीकृते बुद्धित्वेनाङ्गीकृते विज्ञानमये व्यभिचाराच्च । आनन्दमयेन जीवशुद्धिप्रार्थने सति म इत्यस्मच्छब्दायोगाच्च । आनन्दमयकोशस्य शुद्धिप्रार्थनालाभाच्च । आत्मा मे शुद्ध्यन्तामित्यस्य वैयर्थ्याच्च । सिद्धान्तोऽप्ययुक्तः । निरतिशयानन्दाभ्यासस्योक्तरीत्याऽसिद्धेः । विकारार्थमयट्-प्रायपाठविरोधाच्च । ब्रह्मशब्दस्य पूर्णत्वार्थकस्य प्रणवेऽप्रसिद्धेश्च । प्रणवार्थत्वेपि तस्य विष्णुवाचिताया मूलग्रन्थेषु तत्र तत्र समर्थनाच्च । ‘‘ब्रह्मसृष्ट्या तु बृंहयत् । पुच्छं प्रधानवायौ च ब्रह्माख्ये संस्थितं सदा’’ इति वचनविरोधाच्च । ‘‘पुच्छं सङ्कर्षणः प्रोक्तः’’ इति भाष्योदाहृतवचनविरोधाच्च । ‘‘तस्मिन्नानन्दरूपोऽसौ स्थितो नारायणः सदा’’ इति स्मृतेरानन्दमयस्य विष्णुत्वाच्च । अस्य प्रकरणस्य तैत्तिरीयभाष्यादौ विष्णुपरत्वेन प्रमाणे-नैव व्याख्यातत्वाच्च । आत्मब्रह्मादिशब्दानां मुक्तगम्यत्वादिलिङ्गानां च भाष्यादौ तत्र तत्र विष्ण्वेकनिष्ठत्वस्य समर्थनाच्च । शिवपरत्वस्य ‘‘नेतरः’’ इत्यत्र सूत्रकृतैव निरासाच्च ।
यत्त्वन्नमयादयः पञ्चापि न कोशाः किन्तु ब्रह्मविष्णुरुद्रेश्वरसदाशिवसंज्ञाः पञ्च चेतना इत्यादिजल्पनं तत् प्रमाणशून्यं प्रमाणविरुद्धं च । यदपि नेतर इत्यादिसूत्रचतुष्टय-मधिकरणान्तरं कृत्वा ‘‘यतः प्रसूता जगतः प्रसूती’’ति वाक्यमुदाहृत्य चतुर्मुखपरत्वं पूर्वपक्षयित्वा शिवपरत्वेन सिद्धान्त इत्युक्तं, तदपि न । तथात्वे ‘‘नेतरः’’ इति निषेध-रूपेण सूत्रविन्यासायोगेन पूर्वशेषत्वस्यैवौचित्यात् । ‘यतः प्रसूता’ इत्यादेर्भाष्यादौ विष्णुपरत्वसमर्थनस्य प्रागेवास्माभिः प्रदर्शितत्वात् । एवमन्यत्तदीयदुर्भाषणदूषणमूहनीयम् ।
पाण्डुरङ्गि
ननु द्वारत्वज्ञानेऽपि विशेषजिज्ञासया पुनरुपसत्तिरित्यत आह ॥ किञ्चेति ॥ तस्येति ॥ आनन्दमात्रस्येत्यर्थः । ननु निरतिशयत्वविशिष्टानन्दाभ्यासो हेतुः । तथा च न व्यभिचार इत्यत आह ॥ निरतिशयत्वेति ॥ ननु शतगुणितत्व-विशिष्टत्वमेवाभ्यासशब्दार्थः । तस्य च प्रकृतेऽपि सत्त्वान्नाभ्यासस्यासिद्धत्वमित्यत आह ॥ शतगुणितेति ॥ ननु नानन्दशब्दाभ्यासो हेतुः किन्तु ब्रह्मशब्दाभ्यासः । तस्यानन्दमय एव सत्त्वादन्यत्र चासत्त्वादानन्दमयस्यैव ब्रह्मत्वं नान्येषामिति यादवप्रकाशीयं मतमनु-वदति ॥ यत्त्विति ॥ विज्ञानमयादौ व्यभिचारान्न तेन ब्रह्मत्वसमर्थनमुचितमित्याह ॥ त्वन्मत इति ॥ प्रायपाठेति ॥ अन्नमयादौ मयटो विकारार्थत्वमानन्दमये च प्राचुर्यार्थत्व-मिति प्रायपाठविरोध इत्यर्थः । ननु यद्यन्नमयादिचतुष्टये विकारार्थत्वमानन्दमय एव प्राचुर्यार्थत्वमित्यङ्गीकारः स्यात्तर्हि प्रायपाठविरोधः स्यात् । न चैवम् । प्राणमये विकारार्थत्वस्य त्यक्तत्वादित्याशङ्कते ॥ नन्विति ॥ एवं हि प्राचुर्यार्थत्वस्यासम्भवा-द्विकारार्थत्वस्य स्वयमेव त्यक्तत्वात्स्वार्थिकत्वं वक्तव्यम् । एवं च वैयर्थ्यं स्यादित्याह ॥ तर्हीति ॥ ननु सम्बन्धार्थत्वे लक्षणा स्यादित्यत आह ॥ वैयर्थ्यादिति ॥ ननु प्राणशब्देनान्नस्यैव गृहीतत्वात्तस्य मयटा सम्बन्धबाधान्नानुपपत्तिरित्यत आह ॥ अप्रसिद्धार्थत्वे त्विति ॥ उक्तन्यायमन्यत्राप्यतिदिशति ॥ एवमिति ॥