केचित्तु ‘‘तस्यैष एव शारीर आत्मा’’ इति ..
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
केचित्तु ‘‘तस्यैष एव शारीर आत्मा’’ इति शारीरत्वेन जीव एवानन्दमय इति प्राप्ते ‘‘सैषानन्दस्य’’ इत्यारभ्य निरतिशयदशाशिरस्कस्यानन्दस्याभ्यासात्तस्य चानन्तदुःखमिश्रपरिमितसुखलवभागिनि जीवेऽनुपपत्तेस्तदाश्रय आनन्दमयः परमात्मा । विज्ञानमयस्तु जीवः । अन्नमयादयस्तु त्रयः कोशा इति सिद्धान्त इत्याहुः । तन्न । पूर्वपक्षिणापि जीवतयाऽनङ्गीकृतप्राणमयादिसाधारणेन शारीरत्वेन जीवत्वशङ्कानुदयात् । श्रूयते हि प्राणमयादावपि ‘‘तस्यैष एव’’ इति शारीरत्वम् । सिद्धान्तोऽप्ययुक्तः । आनन्दमयस्य ब्रह्मत्वे ब्रह्मणः पुच्छत्वाद्यनुपपत्तीनाम-परिहारात् । ब्रह्मस्वरूपमेव शिरःपक्षपुच्छादिना रूप्यत इति चेत् । रूपणं यद्यध्यास-स्तर्हि श्रुतेरप्रामाण्यमतिप्रसङ्गश्च । यदि तु सदृशतयोक्तिस्तदा मुख्यार्थत्यागस्सादृश्याभावश्च । न हि ब्रह्मस्वरूपं शिर आदिसदृशम् ।
किञ्च विज्ञानमयस्य जीवत्वे ‘‘विज्ञानं देवाः सर्वे ब्रह्मज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति शरीरे पाप्मनो हित्वा सर्वान्कामान्समश्नुते’’ इत्यादेर-योगः । ‘‘विज्ञानं यज्ञं तनुते’’ इत्यादिकं तु ब्रह्मणः सर्वकर्तृत्वात् ‘‘यज्ञभृद्यज्ञ-कृद्यज्ञी’’ इत्यादेश्च युक्तम् । अन्नमयादेः कोशत्वं च निरस्तम् ।
नन्वन्नमयाद्युपदेशानन्तरं ‘‘अन्योऽन्तर आत्मा’’ इत्युक्तेरानन्दमयोपदेशानन्तरं तदनुक्तेरानन्दमय एव ब्रह्म न त्वन्नमयादय इति चेत् तर्हि छान्दोग्ये ‘‘यो वै भूमा तत्सुखम्’’ इति भूमोपदेशानन्तरं ‘‘अथात आत्मादेशः’’ इत्युक्तेस्तदनन्तरं चान्यानुक्तेर्भूमा ब्रह्म न स्यात् । ‘‘यत्र नान्यत्पश्यति’’ इत्यादिब्रह्मलिङ्गाद्भूम्नो ब्रह्मत्वे त्वन्नमयादिरपि ब्रह्मशब्दाभ्यासादिना ब्रह्मास्तु ।
ननूत्तरानुवाकेऽन्नप्राणमनोविज्ञानज्ञानानन्तरं ‘‘तद्विज्ञाय पुनरेव वरुणं पितरमुपससार’’ इति पुनरुपसत्तिवत् ‘‘आनन्दो ब्रह्मेति व्यजानात्’’ इत्यानन्द-ज्ञानानन्तरं पुनरुपसत्तेरभावेनानन्दस्य ब्रह्मत्वाद् अन्नप्राणमनोविज्ञानानन्तरं श्रुतेनानन्देनान्नमयप्राणमयमनोमयविज्ञानमयानन्तरं श्रुतस्यानन्दमयस्य स्थान-प्रमाणेनाभेदादानन्दमय एव ब्रह्म । अन्नमयादयस्तु तद्द्वारभूता इति चेन्न । अन्नादीनां द्वारत्वेऽपि पुनरुपसत्त्ययोगस्योक्तत्वात् । किञ्चैवं छान्दोग्ये ‘‘यथा सोम्य मधुमधुकृतो निस्तिष्ठन्ति’’ इत्यादेरनन्तरं ‘‘भूय एव मा भगवन्विज्ञापयतु’’ इति श्रवणात्तत्रोक्त-मब्रह्म ‘‘पुरुषं सोम्योत हस्तगृहीतम्’’ इत्यादेरनन्तरं तदश्रवणात्तत्रोक्तमेव ब्रह्म स्यात् । ‘‘यथा सोम्य मधु’’ इत्यादौ ‘‘ऐतदात्म्यमिदं सर्वम्’’ इत्यादिब्रह्मलिङ्गादिना तत्रोक्तस्य ब्रह्मत्वे त्वत्रापि ‘‘अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते’’ इति ब्रह्मश्रुत्यादिनाऽन्नादिकमपि ब्रह्मास्तु ।
प्रकाशिका
रामानुजमतं निराकरोति ॥ केचित्त्विति ॥ साधारणेनेति ॥ तथा च हेतोर्व्यभिचारान्न पूर्वपक्षोदय इत्यर्थः ॥ अतिप्रसङ्गश्चेति ॥ ब्रह्मलिङ्गानामपि जीवेऽध्यास-सम्भवेन कुत्रापि सिद्धान्तोन्मेषो न स्यादिति भावः ॥ विज्ञानं देवा इति ॥ इत्यादे-रिति ॥ ब्रह्मशब्दस्य ज्येष्ठत्वस्य सर्वदेवोपास्यत्वस्य मुक्तिहेतुत्वस्यायोग इत्यर्थः । यज्ञादिकर्मकर्तृत्वरूपजीवलिङ्गस्य गतिमाह ॥ विज्ञानमिति ॥ ‘‘यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः’’ इति भारतोक्तेरित्यर्थः । यदपि त्रयाणां कोशत्वमिति तदपि नेत्याह ॥ अन्नमयादेरिति ॥ ब्रह्म न स्यादिति ॥ तथा च भूमाधिकरणविरोध इति भावः । आनन्दमयमात्रस्य ब्रह्मत्वे साधकान्तरमाशङ्क्य निराह ॥ ननूत्तरेति ॥ स्थानप्रमाणेति ॥ यथासङ्ख्याम्नानरूपेणेत्यर्थः ॥ उक्तत्वादिति ॥ ‘‘भृगुर्वरुणोपदिष्टानां द्वारत्वं न वेति च’’ इत्यादिनेति भावः । उपलक्षणमेतत् । अन्यथोपपत्तेरुक्तत्वादिति ध्येयम् । प्रतिबन्द्या च पुनरुपसत्तिं समाधत्ते ॥ किञ्चैवमिति ॥ ‘‘मधुमधुकृतो निस्तिष्ठन्ति’’ नानात्ययानां वृक्षाणां रसानां समवहारमेकतां गमयन्ति । ते यथा तत्र न विवेकं लभन्त इति दृष्टान्तपूर्वं ‘‘एवमेव खलु सोम्येमाः प्रजाः सति सम्पद्य न विदुः’’ इत्युद्दालकोपदिष्टेऽपि ब्रह्मणि श्वेतकेतुर्विशेषजिज्ञासया ‘‘भूय एव मा भगवन्विज्ञापयतु’’ इति बहुकृत्वः पुनःपुनः पृष्टवानिति तत्रोद्दालकेनोक्तमब्रह्म स्यादिति भावः । तदश्रवणाद् भूय एवेति पुनः प्रार्थनस्याश्रवणादित्यर्थः ।
पाण्डुरङ्गि
ननु पञ्चानां ब्रह्मत्वमित्ययुक्तम् । आनन्दमयस्यैव ब्रह्मत्वाद्विज्ञानमयस्य जीवत्वादन्नादीनां तु कोशत्वादिति रामानुजीयाः । तन्मतं दूषयितुमनुवदति ॥ केचि-त्त्विति ॥ सैषानन्दस्येत्यारभ्येति ॥ उपलक्षणं चैतत् । यतो वाचो निवर्तन्त इत्यनेनेत्यपि द्रष्टव्यम् । तदाश्रयः निरतिशयदशाशिरस्कानन्दाश्रय इत्यर्थः । अत्र पूर्वपक्षस्यायुक्तत्वा-दधिकरणारम्भो न युक्त इत्याह ॥ पूर्वपक्षिणापीति ॥ तथा च शारीरत्वस्यान्नमयेऽपि विद्यमानत्वाद्व्यभिचारित्वेन न तेन पूर्वपक्षकरणं युक्तमिति भावः । ननु न शारीरत्वं प्राणमयादेरित्यत आह ॥ श्रूयते हीति ॥ ननु न पुच्छत्वाद्यनुपपत्तिः । प्रियादिवाक्यै-र्ब्रह्मस्वरूपस्यैव शिरआदिविशिष्टत्वेन निरूपणादिति शङ्कते ॥ ब्रह्मेति ॥ निरूपण-मध्यासो वा सादृश्योक्तिर्वा । नाद्य इत्याह ॥ रूपणं हीति ॥ अप्रामाण्यमिति ॥ अध्यस्तार्थप्रतिपादकत्वादिति भावः ॥ अतिप्रसङ्गश्चेति ॥ अन्नमयादेरपि शिरःपक्ष-पुच्छादिना रूपेणाध्यस्तत्वेन तस्याप्यानन्दमयवद्ब्रह्मत्वापत्त्या कोशत्वोक्तिरयुक्तेत्यति-प्रसङ्गश्चेत्यर्थः ।
द्वितीयं प्रत्याह ॥ यदि त्विति ॥ सादृश्यमपि नास्तीत्याह ॥ सादृश्येति ॥ नन्वेवं ‘‘विज्ञानं यज्ञं तनुते’’ इत्यत्र विज्ञानमयस्य कर्मकर्तृत्वं प्रतीयते । तच्च विज्ञानमयस्य ब्रह्मत्वेऽयुक्तम् । तस्य कर्तृत्वाद्यभावादित्यत आह ॥ विज्ञानमिति ॥ अस्तु तर्हि तस्य ब्रह्मत्वमन्नमयादेस्तु कोशत्वमेवेत्यत आह ॥ अन्नमयादेरिति ॥ नन्वन्नमयादयो न ब्रह्म । तदनन्तरं ब्रह्मोद्देशात् । यदनन्तरं यदुपदिश्यते तत्तन्न भवति । यथा शाखोपदेशानन्तरं चन्द्रोपदेशान्न चन्द्रः शाखेति । तथा चान्नमयादयो न ब्रह्म । किन्त्वानन्दमय एवेत्या-शयेन शङ्कते ॥ नन्विति ॥ तर्हीति ॥ तदनन्तरं ब्रह्मोद्देशादिति हेतोर्व्यभिचारित्वान्न तेन ब्रह्मत्वाभावसाधनं युक्तमिति भावः ॥ पुनरुपसत्त्ययोगस्येति ॥ भृगुर्वरुणोपदिष्टानां द्वारत्वं न वेत्ति चेत्तर्हि पुनरुपसत्त्ययोगः । वेत्ति चेन्न ‘‘आनन्दं ब्रह्मेति व्यजानादिति प्रयोगः स्यादित्युक्तत्वात्’’ इत्यर्थः ।