१८ भामतीमतानुवादः

अन्ये तु ..

भामतीमतानुवादः

तात्पर्यचन्द्रिका

अन्ये तु आनन्दमयतदवयवपुच्छयोर्द्वयोर्ब्रह्मत्वायोगादेकस्य ब्रह्मता वाच्या । तत्रानन्दमयस्य ब्रह्मत्वे विकारार्थमयटः प्रायपाठत्यागः प्राचुर्यस्यापि प्रतियोग्यल्पत्वापेक्षत्वाद् ब्रह्मणि च दुःखलेशस्याप्यभावान्मयटः स्वार्थत्यागः पुच्छ-वाक्यगतब्रह्मशब्दस्य च गौणार्थत्वं ‘‘सैषाऽऽनन्दस्य मीमांसा’’ इत्यादावभ्यस्य-मानानन्दप्रातिपदिकेन मयडर्थो लक्ष्यते इति चत्वारो दोषाः । पुच्छस्य ब्रह्मत्वे त्ववयवप्रायपाठबाधमात्रम् । पुच्छपदमुख्यार्थत्यागस्त्वानन्दमयस्य ब्रह्मत्वपक्षेऽपि समः । लाङ्गूले मुख्यस्य तस्यानन्दमयावयवेऽपि गौणत्वात् । तस्मान्मयट्प्रत्यय-ब्रह्मशब्दानन्दप्रातिपदिकरूपमुख्यत्रितयानुगुण्यात् पुच्छमेव ब्रह्मेति युक्तम् । पुच्छपदं तु प्रतिष्ठापदसन्निधानादाधारलक्षकम् । तदुक्तं भामत्यां

प्रायपाठपरित्यागो मुख्यत्रितयलङ्घनम् ।

पूर्वस्मिन्नुत्तरे पक्षे प्रायपाठस्य बाधनम् ॥ इति ।

किञ्च प्रियाद्यवयवयोगेनानन्दमयः सविशेषः । ब्रह्म तु निर्विशेषम् । अपि चानन्दमयः प्रतिशरीरं प्रियादिभेदाद्भिन्नः । ब्रह्म त्वभिन्नम् । तस्मादानन्दमयो न ब्रह्म । किन्तु पञ्चापि कोशाः । न च सर्वान्तरत्वादानन्दमयो ब्रह्म । पुच्छवाक्ये ततोऽप्यन्तरस्य प्रतिष्ठापदेनोक्तेः । या तु भार्गवी वारुणी विद्या तस्यां मयटः प्रियशिरस्त्वादेश्चाश्रवणाद्युक्तमानन्दस्य ब्रह्मत्वमिति सिद्धान्तः । सूत्राणि तु ‘‘वेदसूत्रविरोधे तु गुणे त्वन्याय्यकल्पना’’ इति न्यायेनान्यथा व्याख्येयानीत्याहुः ।

प्रकाशिका

अयोगादिति ॥ विरोधादिति भावः । उदाहरिष्यमाणश्लोके प्रायपाठेति पादं व्याचष्टे ॥ तत्रेति ॥ अन्नमयादीनामंतरन्यान्यस्य श्रवणेन तेषामब्रह्मतया कोशत्वेन तत्रान्नादिविकारार्थत्वस्यावश्यकत्वात्तत्प्रायपाठपरित्याग इत्यर्थः । मुख्यत्रितयलङ्घन-मित्येतद्विवृणोति ॥ प्राचुर्यस्येति ॥ यथा ‘‘ब्राह्मणप्रचुरो ग्रामः’’ इत्यादौ विजातीय-शूद्राल्पत्वं लभ्यते तथाऽत्रापि दुःखाल्पत्वं लभ्यते व्युत्पत्तिबलात् । न च तदस्तीत्यर्थः ॥ ब्रह्मशब्दस्येति ॥ निर्विकारे ब्रह्मणि मुख्यस्याब्रह्मणि पुच्छे गौणार्थत्वमित्यर्थः ॥ लक्ष्यत इति ॥ आनन्दमयो ब्रह्म अभ्यासादित्युक्ते आनन्दमयशब्दस्यैवाभ्यासादिति लभ्यते । श्रुतौ च सैषाऽऽनन्दस्येत्यादिनाऽऽनन्दस्यैवाभ्यासो नत्वानन्दमयस्येति । तेन मयडर्थो लक्ष्यत इत्यर्थः । उत्तरपक्षे प्रायपाठस्य बाधनमिति सिद्धान्तांशं विवृणोति ॥ पुच्छस्येति ॥

आनन्दमयस्य ब्रह्मत्वे दोषान्तरमाह ॥ किञ्चेति ॥ ‘‘तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः’’ इत्यादिनोच्यमानशिरःप्रभृत्यवयवयोगेनेत्यर्थः ॥ निर्विशेषमिति ॥ अवाङ्मनसगोचरत्वश्रुतेरिति भावः ॥ अभिन्नमिति ॥ अनन्तत्वश्रुतेरिति भावः ॥ सर्वेति ॥ अन्नमयादिचतुष्टयान्तरत्वादित्यर्थः ॥ प्रतिष्ठेति ॥ ‘‘ब्रह्म पुच्छं प्रतिष्ठा’’ इति प्रतिष्ठापदेनानन्दमयाश्रयतयोक्तेरित्यर्थः । नन्वेवं भृगुवल्लीविरोध इत्यत आह ॥ या त्विति ॥ आनन्दस्येति ॥ ‘‘आनन्दो ब्रह्मेति व्यजानात्’’ इत्युक्तस्येत्यर्थः ॥ गुणेत्विति ॥ नवमे ‘‘विप्रतिपत्तौ विकल्पः स्यादसमर्थत्वाद्गुणे त्वन्याय्यकल्पनैकदेशत्वात्’’ इति जैमिनिसूत्रोक्तन्यायेनेत्यर्थः ।

अन्यथेति ॥ ब्रह्म पुच्छं प्रतिष्ठेत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्षितमुत स्वप्रधानत्वेनेति संशये पुच्छशब्दादवयवत्वेनेति प्राप्ते उच्यते - आनन्दमयोऽभ्यासात् । आनन्दमयवाक्यशेषे ‘‘ब्रह्म पुच्छं प्रतिष्ठा’’ इत्यत्र स्वप्रधानमेव ब्रह्मोच्यते । कुतः ‘‘असद्ब्रह्मेति वेद चेत्’’ इत्यादौ केवलब्रह्मण एवाभ्यस्यमानत्वात् । विकारशब्दात् पुच्छमित्यवयवशब्दान्न स्वप्रधानमिति चेन्न प्राचुर्यात् । अन्नमयाद्यवयवप्रायवचनात् । ‘‘स इदं सर्वमसृजत । यदिदं किञ्च’’ इत्यानन्दमयसहितस्य सर्वस्यापि जगतो ब्रह्मण एव हेतुत्वव्यपदेशाच्च । इतराणि तु सूत्राणि पुच्छवाक्यनिर्दिष्टब्रह्मण एवोपपादकानीति तदीयभाष्यानुरोधेनेत्यर्थः ।

चन्द्रिकाबिन्दु

विकारार्थेति ॥ अन्नमयादिष्वित्यर्थः ॥ स्वार्थत्याग इति ॥ समानाधिकरणविजातीयाल्पत्वस्यैव प्राचुर्यशब्दार्थत्वादिति भावः ॥ पुच्छेति ॥ आनन्दमयस्य पुच्छस्य ब्रह्मत्वायोगात् । अब्रह्मणि ब्रह्मशब्दस्य गौणत्वमिति भावः ॥ सैषानन्दस्येति ॥ अभ्यासादिति ॥ आनन्दाभ्यासादित्यर्थः । तथा चानन्दमयस्य ब्रह्मत्वपक्षे आनन्दाभ्यासो नामानन्दमयाभ्यास इति वक्तव्यम् । एवं च सैषेत्यादिषु आनन्दशब्द आनन्दमयपरः कर्तव्य इति भावः ॥ अवयवप्रायेति ॥ आनन्दमयादिषु पुच्छस्यावयवत्वं विवक्षितम् अत्रैव न विवक्षितमिति भावः । कारिकायां पूर्वस्मिन्नित्यस्य आनन्दमयस्य ब्रह्मत्वपक्ष इत्यर्थः ॥ उत्तर इति ॥ अपुच्छस्य ब्रह्मत्व इत्यर्थः ॥ ततोऽपीति ॥ आनन्दमयादप्यनन्तरस्य पुच्छस्येत्यर्थः । नन्वेवं च आनन्दमयादीनां ब्रह्मत्वसाधनपर ‘‘आनन्दमयोऽभ्यासात्’’ इति सूत्रविरोध इत्यत आह ॥ सूत्राणि त्विति ॥

पाण्डुरङ्गि

नन्वानन्दमयस्य ब्रह्मत्वप्रतिपादनमयुक्तम् । तथात्वे प्रायपाठत्यागादि-रूपदोषप्रसङ्गात् । न च मयटः प्राचुर्यार्थत्वान्न तत्त्याग इति वाच्यम् । पुच्छस्य ब्रह्मत्वे तत्प्राप्तिपरिहारक्लेशयोरभावात् । तथा च तस्यैव ब्रह्मत्वमिति परे वर्णयन्ति तद्दूषयितु-मनुवदति ॥ अन्ये त्विति ॥ द्वयोरिति ॥ अन्यथाऽवयवावयविभावो न स्यादिति भावः । नन्वस्तु द्वयोर्मध्य आनन्दमयस्य ब्रह्मत्वमित्यत आह ॥ तत्रेति ॥ प्राचुर्यार्थत्वान्न प्रायपाठविरोध इत्यत आह ॥ प्राचुर्यस्येति ॥ तथा च प्राचुर्यार्थत्वाङ्गीकारेऽपीषद्दुःख-स्याप्यनङ्गीकारान्मयटः स्वार्थत्याग इत्यर्थः ।

ननु पुच्छस्य ब्रह्मत्वे पुच्छपदमुख्यार्थत्याग इत्यत आह ॥ पुच्छपदेति ॥ नन्वानन्द-मयस्याब्रह्मत्वे सोऽकामयतेत्यादावानन्दमयस्य कामयितृत्वस्रष्टृत्वादि श्रुतमिति तस्या-मुख्यत्वं ‘को ह्येवान्यात्’ इत्यानन्दमयस्य पूर्णानन्दत्वप्रतिपादकत्वेन तस्याप्यमुख्यत्वं ‘एतमानन्दमयम्’ इत्यस्याप्यमुख्यत्वमित्यनेकवाक्यानाममुख्यत्वं, तुल्यमेवेत्यत आह ॥ किञ्चेति ॥ अन्यथा निष्कलमित्यादिश्रुतिव्याकोपः स्यादिति भावः । नन्वानन्दमयस्य सर्वान्तर्यामित्वश्रवणादन्तर्यामिणश्चान्यस्याभावात्तस्यैव ब्रह्मत्वमित्याशङ्क्य निषेधति ॥ न च सर्वेति ॥ ननु भृगुवल्या ब्रह्मपरत्वेन निर्णीतत्वात्तत्समाख्यानादानन्दमयस्यापि ब्रह्मत्वमित्यत आह ॥ या त्विति ॥ ननु तर्हि पुच्छमभ्यासादित्येवमाद्याकाराणि सूत्राणि स्युरित्यत आह ॥ सूत्राणि त्विति ॥