यद्यपि ‘‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’’
सूत्रक्रमहेतुनिरूपणम्
तात्पर्यचन्द्रिका
यद्यपि ‘‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’’ इति वचनात्तादात्म्ये मयट्स्वीकारे प्रतियोगिनो दुःखस्येषदनुवृत्त्यादिशङ्कानवकाशस् तथापि ‘‘यतो वाचो निवर्तन्ते को ह्येवान्यात्’’ इत्यादिश्रुत्यनुसारेणानन्दादेः पूर्णत्वसिद्ध्यर्थं स्वार्थिकत्वे मयटो वैयर्थ्यपरिहारार्थं च प्राचुर्यार्थतोक्ता ।
प्रकाशिका
एवमाद्यसूत्रं प्रतिज्ञाहेतुसमर्थनेन समर्थ्येदानीमन्नमयादीनां ब्रह्मत्वे यानि बाधकानि विकारप्रत्ययान्यत्वान्तरत्वशरीरत्वादीनि साधारणानि यान्यानन्दमयान्नमययो-र्ब्रह्मत्वे विशेषबाधकानि प्रकृतदेहपरामर्शित्वेनेदमिति प्रत्यक्षनिर्देशब्रह्मपुच्छत्वोक्त्यादीन्युप-लक्षणत्वेनैतत्सर्वबाधकनिरासार्थं सूत्रं ‘‘विकारशब्दान्नेति चेन्न प्राचुर्यात्’’ इति । ‘‘इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः’’ इत्येतद्व्याख्याने सुधायां तथैवोक्तेः । तत्र प्राचुर्यार्थत्वमाक्षिप्य समाधत्ते ॥ यद्यपीति ॥ वचनादिति ॥ गीताभाष्योक्तात् ॥ प्रतियोगिन इति ॥ तादात्म्यस्य प्राचुर्यवदितरानिरूप्यत्वादिति भावः ॥ यतो वाच इति श्रुतौ हि ब्रह्मानन्दस्यापरिच्छिन्नत्वाभिप्रायेणावाङ्मनसगोचरत्वमुच्यते । तथैव प्राक्समर्थ-नात् । को ह्येवान्यादित्यत्राकाशनयन्यायेनाकाशपदवाच्यस्य विष्णोरानन्दमयत्वरूपपूर्णा-नन्दत्वे विश्वचेष्टकत्वरूपहेतुर्व्यपदिश्यते तदुभयानुसारेणेत्यर्थः । स्वार्थिकत्वे तादात्म्या-र्थत्वे । यन्मयटो वैयर्थ्यं तत्परिहारार्थमित्यर्थः । उक्ता सूत्रकृतेति शेषः । एतेन तद्व्याख्यानपरभाष्यटीकादिग्रन्थोऽपि समर्थितो ध्येयः । तेन ‘‘निरवकाशब्रह्मशब्द-बलात्सावकाशस्य मयटः प्राचुर्यार्थत्वोपपत्तेः’’ इति सुधावाक्यमुपपन्नं भवति ।
चन्द्रिकाबिन्दु
आद्यसूत्रं शोधयित्वा द्वितीयसूत्रं शोधयति । यद्यपि ‘तादात्म्यार्थे विकारार्थ’ इति ॥ सूत्रकृता मयटस् तादात्म्यार्थकत्वमेव स्वीकार्यमित्यत्र नियामकमाह ॥ प्रतियोगिन इति ॥
पाण्डुरङ्गि
ननु तथापि द्वितीयसूत्रे मयटः प्राचुर्यार्थत्वं किमर्थमङ्गीकार्यम् । न च तदनङ्गीकारेऽनानन्दस्यापि प्राप्तिः स्यादिति वाच्यम् । तादात्म्याङ्गीकारेणाप्यनानन्दप्राप्तेः परिहर्तुं शक्यत्वादित्यत आह ॥ यद्यपीति ॥