११ सङ्गतिपञ्चकनिरूपणम्

अत्र च ‘‘सर्वे वेदा यत्पदमामनन्ति’’..

सङ्गतिपञ्चकनिरूपणम्

तात्पर्यचन्द्रिका

अत्र च ‘‘सर्वे वेदा यत्पदमामनन्ति’’ इत्यादिश्रुत्युक्तस्यापि समन्वयस्य बाधकोद्धारादिना स्थापनार्थमयमध्यायः सफलः । यथा ‘‘स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशुः सोमः’’ इत्यादिश्रुति-सिद्धाग्निहोत्रादिपदनामधेयत्वस्थापनार्थं नामधेयपादः ॥

प्रकाशिका

एवं पादोपाधीन्स्वाभिमतान्समर्थ्य पराभिमतांश्च निरस्येदानीं श्रुता-वेवोक्तस्य समन्वयस्य व्युत्पादनं व्यर्थमित्यतोऽध्यायस्य फलमाह ॥ अत्र चेति ॥ अस्मिन् शास्त्र इत्यर्थः । विशिष्य न्यायैः प्रपञ्चनमादिपदार्थः । अत एव सुधायां ‘‘श्रौतस्य प्रयोजनस्य न्यायेनोपपादनार्थमाद्यं सूत्रम्’’ इत्युक्तत्वेनैतच्छङ्कासमाधिरप्युक्तप्राय इति ‘‘सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः’’ इत्येतद्व्याख्यावसरे पृथगेतच्छङ्कासमाधी द्वावपि नोक्ताविति भावः ॥ यथेति ॥ तत्तत्कर्मवाक्योपात्तानामग्निहोत्रादिशब्दानां धर्मे प्रामाण्यादिप्रकारापेक्षायामैतरेयादौ ‘‘स एषः’’ इत्यादियज्ञविभाजकवाक्येषु नामधेयत्वेन निर्देशे सत्यपि तन्निर्वाहाय बाधकोद्धारादिना व्यवस्थापनार्थमाद्याध्यायचतुर्थपादारम्भो यथा पूर्वतन्त्रे तथाऽत्रापीत्यर्थः । सोमशब्दो यद्यपि द्रव्यवचनस् तथापि ‘‘अव्यक्तासु तु सोमस्य’’ इत्यादाविव लक्षणया कर्मविषयत्वेन निर्देश इति ध्येयम् ।

चन्द्रिकाबिन्दु

ननु समन्वयस्य श्रुतिसिद्धत्वात् तत्प्रतिपादकाध्यायवैयर्थ्यमित्यत आह ॥ अत्र चेति ॥

पाण्डुरङ्गि

नन्वध्यायोऽयमनारम्भणीयः । प्रयोजनाभावात् । न च समन्वयसिद्धिरेव प्रयोजनमिति वाच्यम् । तस्य ‘‘सर्वे वेदाः’’ इत्यादिश्रुत्यैव प्रमितत्वात् । न हि श्रौतेऽर्थे कश्चिदपि प्रतिपद्यत इत्यत आह ॥ अत्र चेति ॥ तथाचाध्यायस्य साक्षात्समन्वय-प्रतिपादकत्वेऽपि श्रुत्युक्तसमन्वये बाधकोद्धारेण तत्स्थापकत्वान्न वैयर्थ्यमिति भावः । यद्वा एवं परोदीरितपादार्थं तत्क्रमं चानूद्य दूषयित्वा स्वमतेन पादार्थमुक्त्वा तत्क्रमश्च व्युत्पादितः । इदानीमध्यायस्य साफल्यं दृष्टान्तपूर्वकमुपपादयति ॥ अत्र चेति ॥ आदिपदेन साधकान्तरोक्तिग्रहणम् ।