०७ कैमुत्यन्यायेनान्यत्रप्रसिद्धशब्दसमन्वयशङ्कानिरासः

न चैवमन्यत्रैव प्रसिद्धादीनां..

कैमुत्यन्यायेनान्यत्रप्रसिद्धशब्दसमन्वयशङ्कानिरासः

तात्पर्यचन्द्रिका

न चैवमन्यत्रैव प्रसिद्धादीनां समन्वयेनैव कैमुत्यन्यायेनान्यत्र प्रसिद्धादिसमन्वय- सिद्धेस्तदुक्तिवैयर्थ्यम् । ‘‘आत्मन आकाशस्सम्भूतः’’ इत्यादौ भूताकाशस्य सम्भूतत्ववदस्य लोकस्येत्यादावाकाशस्य लोकगतित्वादिप्रसङ्गात् पादत्रयसिद्धान्त-मुपेत्य चतुर्थपादे विशेषहेतुभिः पूर्वपक्षोदयेन पादत्रयपूर्वपक्षदशायां चतुर्थपादीय-सिद्धान्तानुन्मेषाच्च । अन्यथा स्वर्गकामाधिकरणसिद्धफलान्वयमुपेत्य किं भावार्थस्य फलकरणता किं वा नामार्थस्येति विचारात्मकभावार्थाधिकरणसिद्धान्तेन फलाभाव-शङ्कारूपस्वर्गकामाधिकरणपूर्वपक्षानुदयः स्यात् । ननु यथाऽन्यत्रैव प्रसिद्धानां ब्रह्मपरता तथा तत्रैव प्रसिद्धानामपि ‘‘जनितोत विष्णोः’’ इत्यादाविवान्यपरत्वा-शङ्कायां समन्वयो व्युत्पाद्य एवेति चेन्न । तत्र प्रसिद्धा इत्यनेनान्यपरत्वशङ्का-राहित्यस्य विवक्षितत्वात् । अन्यत्तु स्वस्वस्थाने वक्ष्यते ॥

प्रकाशिका

न चैवमिति ॥ उभयत्रान्यत्रान्यत्रैव प्रसिद्धानामुत्तरोत्तरप्राबल्ये सतीत्यर्थः । अन्यत्रैव प्रसिद्धानां तत्रोक्तप्रबलहेतुभिः समन्वये ततोऽपि दुर्बलानामन्यत्र प्रसिद्धानाञ्च ब्रह्मणि समन्वयसिद्धेराद्यपादद्वये तेषां तदुक्तिवैयर्थ्यम् । तथाऽन्यत्र प्रसिद्धानां पादद्वयोक्तहेतुभिर्ब्रह्मणि समन्वये सति तैरेव ततोऽपि दुर्बलोभयत्रप्रसिद्धानां समन्वयसिद्धे-स्तृतीये तेषां तदुक्तिवैयर्थ्यमित्यर्थः ॥ आत्मन इति ॥ चतुर्थपादीयन्यायानुसरणे हि ‘‘कल्पनोपदेशात्’’ इति सूत्रोक्तन्यायेनान्यपरत्वमुपेत्य तदधीनत्वादिन्यायैः शब्दानां तत्र ब्रह्मपरत्वोक्तेराद्यादिपादोदाहरणेष्वपि तथात्वापत्त्या भूताकाशेन्द्रादेरपि तत्तद्वाक्यबोध्यत्वं स्यात् । तच्चानिष्टम् । ब्रह्मलक्षणस्यातिव्याप्त्यापत्तेः । अतस्तन्निरासेन ब्रह्मैकपरत्वं व्युत्पादयितुं त्रिपादी सार्थिकेति भावः । तर्ह्याद्यपादद्वयेनैव सिद्धत्वात्तृतीयवैयर्थ्यमिति चेन्न । पादद्वयापादितोभयत्र प्रसिद्धानां शब्दानामन्यनिष्ठत्वनिरासेन तस्य सार्थक्यात् । उक्तं च–

‘‘आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।

इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ।

शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।

समन्वयो हरावेव’’ इत्याचार्यैः ।

पादत्रयेति ॥ त्रिपाद्यां जन्मादिसूत्रे कण्ठोक्तकारणत्वतत्सङ्गतानन्दमयत्वादि-गुणान्तरप्रतिपादकवाक्यस्थशब्दानां श्रुतिलिङ्गादिभिरुक्तं ब्रह्मपरत्वं स्वीकृत्य तर्हि तैरेव तारतम्यकर्मक्रमादिपरिलोपापत्तिरूपबलवत्तर्कानुगृहीतैर्बलवद्भिरन्यपरत्वं स्यात् । एवं च समन्वयसूत्रोक्तसर्वशब्दसमन्वयो न युक्त इति शङ्कायां कृतायां ततोऽपि प्रबलहेतुभि-स्तन्निरासाय चतुर्थपादप्रवृत्तेस् ततः पूर्वं तत्सिद्धान्तन्यायानुपस्थितेर्न तेन वैयर्थ्यमित्यर्थः ॥

अन्यथेति ॥ स्वर्गकामाधिकरणमुक्तमाद्यसूत्रे । भावार्थस्य धात्वर्थस्य । नामार्थस्य उपपाद्यार्थस्य द्रव्यादेरित्यर्थः । द्वितीयाध्यायाद्यपादे ‘‘भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते’’ इति द्वितीयेऽधिकरणे ‘‘उद्भिदा यजेत सोमेन यजेते’’त्यादौ किं सोमादिरूपद्रव्यादेः फलसाधनत्वं यजिरूपधात्वर्थस्य वेति संशये साध्यमानस्य फलस्य सिद्धरूपसाधनापेक्षत्वाद्द्रव्यादेश्च तादृशत्वेनापेक्षापूरणशक्तत्वाद्धात्वर्थस्य तु स्वयं साध्यत्वेनातादृशत्वाद्द्रव्यादिरेव फलसाधनमिति प्राप्ते द्रव्यादेः फलहेतुत्वे तत्रैकमपूर्वं कल्प्यम् । धात्वर्थस्य द्रव्यादिशेषत्वावश्यम्भावात्तत्र दृष्टासम्भवेनापूर्वान्तरं कल्प्यमिति गौरवात् । फलसाधनस्य भावनाकरणत्वात्तस्यां च प्रत्ययोपात्तायां पदान्तरोपात्तद्रव्यापेक्षया प्रकृत्युक्तधात्वर्थस्य सन्निहितत्वेन करणत्वात्साध्यमानस्यापि स्वसाधनसाधितस्य करणत्वोपपत्तेस्स एव फलसाधनमिति सिद्धान्तितत्वादिति भावः ।

‘‘तेषु न तत्र प्रसिद्धानां समन्वयो वाच्यः’’ इति टीकामाक्षिप्य समाधत्ते ॥ नन्विति ॥ तत्रैवेति ॥ तत्र प्रसिद्धानामित्यस्य तत्रैवेति विवक्षायाः प्रागेवोक्तेरेवमनुवादः । अत एवाग्रे तत्रप्रसिद्धा इत्येवाह ॥ अन्यपरत्वेति ॥ ‘‘जनितोत विष्णोः’’ इत्यत्र तु विष्णु-शब्दस्यान्यपरत्वादिति भावः । उक्तं च सुधायां ‘‘अदोषवचनाच्चैव नियमेन हरेः श्रुतौ’’ इति जन्माधिकरणस्थानुव्याख्यानव्याख्यावसरे ‘‘विष्णुरिति यजमानस्य यज्ञस्य वा नाम । तौ सोमाद्भवतः’’ इति ‘‘सोमो जनितोत विष्णोः’’ इत्युच्यत इत्यादिव्याख्येयम्’’ इति । नन्वेवमप्याद्यपादेऽन्तस्थत्वलिङ्गस्य द्वितीये वैश्वानरनाम्नस्तृतीये वज्रशब्दस्य स्वप्नद्रष्टृत्व-लिङ्गस्य चान्यत्र प्रसिद्धस्य समन्वयेन साङ्कर्यम् । किञ्चान्तरधिकरणोक्तन्याय-स्यैवाकाशादिनयेषूक्तेर्गतार्थता । तथा ‘‘गुहां प्रविष्टौ’’ इत्यादेः ‘‘न सङ्ख्योपसङ्ग्रहात्’’ इति नयेन गतार्थत्वम् । तथा पूर्वोत्तरप्रस्थानयोस्तत्र तत्र विरोधश्चोपलभ्यते । अधिकरणानां सङ्गतिश्च नान्योन्यमुपलभ्यत इत्यादिचोद्यानि हृदि कृत्वाऽऽह ॥ अन्यत्त्विति ॥

चन्द्रिकाबिन्दु

लोकगतित्वादिप्रसङ्गादिति ॥ चतुःपादसमन्वेतव्यानाममुख्यया वृत्त्याऽन्यपरत्वमप्यभिमतम् । एवम् ‘‘अस्य लोकस्य’’ इत्यादिवाक्यानामप्यन्यत्र-प्रसिद्धान्तर्भावेन चतुर्थपादसमन्वेतव्यत्वेऽन्यपरत्वाङ्गीकारापत्त्या प्रसिद्धाकाशस्यापि-(लोका)आधारत्वप्रसङ्गः । अतोऽन्यत्रप्रसिद्धानां पृथग्ब्रह्मण्येव समन्वयः प्रतिपाद्यत इति भावः ॥ अन्यथेति ॥ षष्ठे स्वर्गकामाधिकरणे यजेतेति भावनां प्रति समान-पदोपात्तयागस्यैव भाव्यत्वेनान्वयो वा भिन्नपदोपात्तस्वर्गस्य वेति सन्दिह्य समान-पदोपात्तयागस्यैवेति पूर्वपक्षयित्वा यागस्य स्वयं क्लेशरूपत्वेन भाव्यत्वाभावाद् भिन्न-पदोपात्तस्वर्गस्यैव भाव्यत्वमित्युक्तम् । एवं स्वर्गकामाधिकरणलब्धं फलान्वयमङ्गीकृत्य भावार्थाधिकरणे नामार्थस्य द्रव्यस्य फलकरणता वा भावार्थस्य यागस्यैवेति सन्दिह्य, सिद्धत्वाद् द्रव्यस्यैव फलकरणतेति पूर्वपक्षयित्वा यागस्यैव फलकरणतेति सिद्धान्तः कृतः । एवं च भावार्थाधिकरण एव यागस्य फलकरणत्वेन सिद्धत्वात् स्वर्गकामाधिकरणे भावनां प्रति यागस्य भाव्यत्वमिति पूर्वपक्षोदयो न स्यादित्यर्थः ॥ जनितोत विष्णो-रिति ॥ अत्रत्यविष्णुशब्दः यजमानवैश्वानराधिकरणव्यावृत्त्यर्थवाचित्वादिति भावः ॥

पाण्डुरङ्गि

ननु तत्र प्रसिद्धानामिवान्यत्र प्रसिद्धानां समन्वयो न वक्तव्यः । न च तर्हि कथं तत्सिद्धिरिति वाच्यम् । अन्यत्रैव प्रसिद्धसमन्वयेनैव कैमुत्यन्यायेनान्यत्र प्रसिद्धसमन्वयसिद्धौ पुनस्तत्समन्वयकथने वैयर्थ्यापत्तेरित्याशङ्क्य निषेधति ॥ न चैव-मिति ॥ किं तन्न्यायविषयविषयत्वेन त्रिपाद्या वैयर्थ्यं कैमुत्यमात्रेण वा । नाद्य इत्याह ॥ आत्मन इति ॥ तत्करणानन्तरमन्यत्रैव प्रसिद्धशब्दसमन्वयन्यायेनान्यत्र प्रसिद्धशब्द-समन्वयश्चेदिति शेषः । तथा चान्यत्र प्रसिद्धानां पृथगवचने बाधकसद्भावात्तत्समन्वय-प्रतिपादनमिति भावः । नेतरः । यो दुष्करमेकं करोति सोऽन्यत्सुकरमपीति व्याप्तेरभावात् । अथ तदविशिष्टमिति विशेषणमुपादीयते तत्राह ॥ आत्मन इति ॥ ननु न वियद-श्रुतेरित्यत्र सूत्रकृतैवाकाशस्योत्पत्तेः समर्थितत्वात्सम्भूतत्वस्य तत्र सम्भवात् । प्रकृते तु लोकगतित्वादेराकाशादेराकाशे प्रमाणबाधितत्वेनासम्भवात् । तथा च बाधकसद्भावात्त-न्न्यायेन समन्वयकथनमयुक्तमित्याह ॥ पादत्रयेति ॥ यद्वा अङ्गीकृत्य चतुर्थीयसमन्वयस्य प्राचीनत्वमेतदुक्तमित्याशयेनाह ॥ पादेति ॥ एवं च चतुर्थपादसमन्वेतव्यस्य शब्द-प्रवृत्त्यर्थमुपोद्घातत्वेन पादत्रयमावश्यकमेव । अन्यथा चतुर्थपादीयसिद्धान्तारम्भ एव न स्यात् । तथा च यत्सिद्धान्तमुपजीव्य यस्य प्रवृत्तिस्तत्सिद्धान्तेन तस्य नान्यथासिद्धिरिति भावः ॥ अन्यथेति ॥ यदधिकरणसिद्धान्तसिद्धार्थमभ्युपगम्य प्रवृत्तं यदधिकरणं तदधि-करणसिद्धान्तस्य तदधिकरणपूर्वपक्षविरोधित्वे । न च दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यम् । चतुर्थपादीयसिद्धान्ते पादत्रयसिद्धान्तस्योपजीव्यत्ववद्दृष्टान्ते भावार्थाधिकरणसिद्धान्तस्य स्वर्गकामाधिकरणसिद्धान्त उपजीव्यभावादिति वाच्यम् । उक्तसामान्यन्यायस्य तत्रापि सत्त्वेन वैषम्याभावात् ।

तथा हि । सफलत्वरूपस्वर्गकामाधिकरणसिद्धान्तमुपजीव्य भावार्थाधिकरणसिद्धान्त-प्रवृत्तिरिति न तेन तस्यान्यथासिद्धिरिति । तथा च स्वर्गकामाधिकरणपूर्वपक्षे भावार्थाधिकरणसिद्धान्तस्यानुन्मेषवत्प्रकृतेऽपि पादत्रयपूर्वपक्षदशायां चतुर्थपादीय-सिद्धान्तस्याप्रवृत्तेर्न तेन तस्यान्यथासिद्धिरिति भावः ॥ नन्विति ॥ अन्यत्रैव प्रसिद्धाना-मित्यनन्तरम् अन्यपरत्वशङ्कायामिति शेषः । ब्रह्मपरतेत्यनन्तरं व्युत्पाद्यत इति शेषः ।

ननु तत्रैव प्रसिद्धानामन्यपरत्वशङ्काया एवाभावान्न तत्समन्वयो व्युत्पाद्य इत्यत उक्तम् ॥ जनितोतेत्यादि ॥ तत्रेति ॥ जनितोतेत्यत्र तु बाधकेनान्यपरत्वमिति भावः । नन्वत्रै-तदध्यायगताधिकरणानां सङ्गत्यादिकं कुतो न कथ्यत इत्यत आह ॥ अन्यत्त्विति ॥ ननु तत्रैव प्रसिद्धानां कथमन्यपरत्वशङ्काराहित्यमित्यतो वाह ॥ अन्यत्त्विति ॥