पादक्रमस्तु
पादक्रमोपपादनम्
तात्पर्यचन्द्रिका
पादक्रमस्तु । चतुर्थपादीयसमन्वयस्यासर्वाधिकारिकत्वात् तथा पादत्रयेण श्रुतिलिङ्गादिभिर्ब्रह्मणि समन्वय उक्ते तर्हि तैरेव श्रुतिलिङ्गादिभिरन्यपरताऽस्त्विति शङ्कायास्त्रितयानन्तरमेवोदयात् तत्तच्छब्दप्रवृत्तिनिमित्तगुणमात्रसिद्धफलकत्वेन कारणत्वादिसिद्धिफलकत्वाभावाच्चान्त्यता । इतरयोरपि महामल्लभङ्गन्यायेनान्यत्र प्रसिद्धसमन्वयस्य प्राथम्यम् । तदुक्तमनुव्याख्याने
तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः ।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ॥
इत्यादि । यद्वा अन्यत्र प्रसिद्धेष्वन्यपरत्वस्य प्रसिद्धिमात्रमूलत्वेन स्थूलत्वाद् उभयत्र प्रसिद्धेषु ‘‘रुद्रो वाव लोकाधारः’’ इत्यादिश्रुत्यादिमूलत्वेन सूक्ष्मत्वाद् अन्यत्रैव प्रसिद्धेषु पुनः प्रसिद्धिः श्रुतिलिङ्गादिकं चेत्युभयमूलत्वात्तन्निरासकपादक्रमः। अयं च पक्षो भाष्येऽन्यत्रप्रसिद्धादिशब्दप्रयोगादेव सूचितः । केचित्तु उभयत्र प्रसिद्धे-रन्यत्रप्रसिद्धनिरूप्यत्वादन्यत्रैव प्रसिद्धेश्चैवकारव्यावर्त्यतया तदुभयनिरूप्यत्वात्पादक्रम इत्याहुः । तन्न । उभयत्र प्रसिध्द्यादेरुक्तरीत्याऽन्यत्र प्रसिद्धिनिरूप्यत्वा(द्यभावा)त् । अन्यत्रप्रसिद्धेष्वपि नाम्नां प्रधानभूतधर्मिणि साक्षाद्धीजनकत्वाद् यौगिकस्यावयवार्थे रूढ्यपेक्षावद्रूढस्य योगापेक्षाया अभावाच्च प्राथम्यम् । यद्वा लिङ्गैर्नामसमन्वय उक्ते सन्दिग्धब्रह्मपरत्वेषु हेतूकृतलिङ्गेष्वेव वा तज्जातीयत्वेन बुद्धिस्थेषु लिङ्गान्तरेषु वा कथं ब्रह्मपरत्वमिति शङ्कायां तन्निरासाल्लिङ्गानामानन्तर्यम् । लिङ्गसमन्वयस्तु प्रायेण निर्णीतलिङ्गान्तराधीनो न तु नामाधीन इति वैषम्यम् । तस्माद्युक्तः पादक्रमः ।
प्रकाशिका
प्रागाक्षिप्तं पादक्रमं च साधयति ॥ पादक्रमस्त्विति ॥ असर्वेति ॥ ‘‘महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि’’ इत्युक्तेरिति भावः । हेत्वन्तरमाह ॥ तथेति ॥ निमित्तान्तरं चाह ॥ तत्तदिति ॥ एतच्च निमित्तद्वयं ‘‘इन्द्रादिशब्दानां श्रुतिलिङ्गादिबलाद्विष्णौ समन्वयः प्राक् प्रतिपादितः । इदानीं श्रुतिलिङ्गादिभिरेवान्यत्र प्रसिद्धानाम्’’ इत्यादिकया ‘‘पूर्वं स्रष्टृत्वादिगुणाभिधायकानाम्’’ इत्यादिकया च चतुर्थ-पादीयटीकया लब्धमिति बोध्यम् ॥ इतरयोरिति ॥ अन्यत्रोभयत्र प्रसिद्धशब्दसमन्वययो-रित्यर्थः । तदुक्तम् उपासनापाद इत्यर्थः । तत्र प्रथमेऽध्याये । प्रथमत उभयत्र प्रसिद्ध-शब्दसमन्वयात्पूर्वम् । शब्दानां नामलिङ्गात्मकानाम् । अत्र विष्णौ ॥ महामल्लेति ॥ यथाऽनेकेषु मल्लेषु प्रत्यर्थितयाऽवस्थितेष्वपि कृष्णेन प्रधानत्वाच्चाणूरादिमल्लानामेवादौ भङ्गो विहितस्तथेत्यर्थः । उभयत्र प्रसिद्धानां हि समन्वयेऽन्यत्रप्रसिद्धिनिरासमात्रे यत्नो ऽन्यत्र प्रसिद्धानां तु विष्णौ प्रसिद्धिरप्युपपादनीयेति तत एषां प्राथम्यमित्यर्थः । आदिपदेन
इतोऽप्यभ्यधिकत्वेन तुर्यपादोदितस्य तु ।
महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ।
इति गृह्यते । एतेन ‘‘तेष्वन्यत्रैव प्रसिद्धसमन्वयस्य’’ इत्यादि टीकाऽनुव्याख्यान-मूलेति व्याख्याता । एवमनुव्याख्यानोक्तं क्रममुक्त्वाऽधुनैकरूप्याय समन्वयत्रयस्यापि सोपानारोहणन्यायेन भाष्यसूचितं क्रममाह ॥ यद्वेति ॥ स्थूलत्वादिति ॥ प्रसिद्धे-र्भ्रमत्वेऽप्युपपत्त्या दुर्बलत्वादिति भावः ॥ सूक्ष्मत्वादिति ॥ श्रुतेः प्राबल्येन तन्निरासस्य क्लेशसाध्यत्वेनोभयत्र प्रसिद्धेः प्राबल्यादित्यर्थः ॥ उभयेति ॥ प्रसिद्धिमूलत्वात् श्रुतिलिङ्गादिमूलत्वाच्चेत्यर्थः । ऋजूनां मतमनूद्य निराह ॥ केचित्त्विति ॥ उक्तरीत्येति ॥ श्रुत्यन्तरादिभिरित्यादिनेति भावः । पूर्वं ‘‘तत्रे’’त्यनुव्याख्यानं ‘‘ग्रन्थोऽयमपि बह्वर्थः’’ इत्युक्त्या स्वयमर्थान्तरमभिप्रेत्यान्यत्रोभयत्रप्रसिद्धसमन्वययोः क्रमे सम्मतित्वेनोदाहृतम् । इदानीं तस्यैव ‘‘तत्र प्रथमेऽध्याये, प्रथमतः प्रथमे पादे, शब्दानां नामात्मकानाम्’’ इति सुधोक्तमेवार्थमभिप्रेत्य ‘‘अन्यपराणां मध्ये लिङ्गात्मकानाम्’’ इत्यादिटीकां विवृण्वान आद्यद्वयस्यापि महामल्लभङ्गन्यायेन क्रममाह ॥ अन्यत्र प्रसिद्धेष्वपीति ॥ यौगिकस्य लिङ्गस्य । तथा च सुधोक्तदिशा नाम्नामन्यबुद्धिजनकत्वं साक्षादेव । लिङ्गानां तु व्यवधानेनेति नामसमन्वये यत्नगौरवमिति महामल्लभङ्गन्यायेन नाम्नां प्राथम्यमित्यर्थः ।
तेषामन्यगतत्वे तु न स्यात्सम्यक् समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥
आह’’ इत्यनुव्याख्यानं हृदि कृत्वा सङ्गत्यन्तरमाह ॥ यद्वेति ॥ सन्दिग्धेति बहुव्रीहिः । ज्योतिश्चरणेत्यादौ हेतूकृतानामदृश्यत्वादीनां च द्वितीये समन्वयोक्तेरिति भावः । ननु प्राग्घेतूकृतलिङ्गानामेव लिङ्गपादे समन्वयानुक्तेः कथमेवमित्यत आह ॥ तज्जातीयत्वेनेति ॥ तल्लिङ्गोपेतवाक्यगततयैकवाक्यस्थत्वादिना तज्जातीयत्वं ध्येयम् । नामपादे हि सर्वश्रुतिगतान्यन्यत्र प्रसिद्धनामानि सर्वाण्यपि तत्र तत्र स्थितैः सर्वैर्लिङ्गैर्ब्रह्म-निष्ठानीति प्राक् साधिते सति तत्रासन्दिग्धलिङ्गग्रहणेनेतरेषां लोकतोऽन्यत्र प्रसिद्ध-श्रुत्यादिसाहित्येन सन्दिग्धब्रह्मपरत्वेष्वब्रह्मपरत्वशङ्कानिरासादानन्तर्यमित्यर्थः । ननु लिङ्गसमन्वयस्य नामाधीनत्वे लिङ्गानामेव प्राथम्यं स्यादित्यत आह ॥ लिङ्गसमन्वय-स्त्विति ॥ क्वचिद्ब्रह्मादिनामाधीनोऽप्यस्तीति प्रायेणेत्युक्तम् । एतेनानवस्था च प्रत्युक्ता ।
चन्द्रिकाबिन्दु
अन्यत्रैव प्रसिद्धशब्दानां चतुर्थपादसमन्वये अनुव्याख्यानोक्तं नियामकं दर्शयित्वा नियामकान्तरं दर्शयति ॥ तथा पादत्रयेणेति ॥ अन्यपरतेति ॥ अन्यपरतैवेत्यर्थः । नियामकान्तरमाह ॥ तत्तच्छब्देति ॥ कारणत्वादीत्यादिपदेन तच्छब्दवाच्यगुणस्यापि ग्रहणम् । इतरयोरपि अन्यत्रोभयत्रप्रसिद्धयोरपि । ‘‘भङ्गवद् इत्यादि’’ इत्यादिपदेन चतुर्थपादीयसमन्वयस्यासार्वाधिकारिकत्वाद्युक्तार्थप्रतिपादक-श्लोकान्तरग्रहणं सूचयति । पूर्वपूर्वदौर्बल्यक्रमेण पादक्रम इत्याह ॥ यद्वेति ॥ अन्यत्र प्रसिद्धा लौकिकप्रसिद्धिमात्रमूला अल्पायासेनैव ब्रह्मणि समन्वेतुं योग्याः । लोका-पेक्षया, प्रबलश्रुत्या उभयत्र प्रसिद्धाः सूक्ष्मा बहुप्रयत्नेन ब्रह्मणि समन्वेतुं योग्याः । लोकप्रसिद्धाः श्रुत्यादिना चान्यत्रैव प्रसिद्धा उभयापेक्षयाऽतिसूक्ष्मा बहुतरप्रयत्नेन ब्रह्मणि समन्वेतुं योग्याः ।
स्वोत्प्रेक्षितं पक्षं दूषयितुमनुवदति ॥ केचित्त्विति ॥ उभयनिरूप्यत्वादिति ॥ अन्यत्रोभयत्रप्रसिद्धिनिरूप्यत्वादित्यर्थः ॥ उक्तरीत्येति ॥ श्रुत्यन्तरादिभिरित्यादि-स्वोक्तलक्षणवतामुभयत्रप्रसिद्धादीनामन्यत्र प्रसिद्धाद्यनुपजीवनेनैव स्वरूपस्य प्रदर्शित-त्वादिति भावः । नामलिङ्गपादयोः क्रमेण हेतुमाह ॥ अन्यत्रप्रसिद्धेष्वपीति ॥ साक्षाद्धर्मप्रतीतिमजनयित्वा यौगिकधर्मप्रतीतिजननद्वारा धर्म्युपस्थापकत्वादिति भावः । नाम्नां प्राथम्ये हेत्वन्तरमाह ॥ यौगिकस्येति ॥ यद्वेति ॥ नाम्नां हि सर्वेषां भगवति समन्वयः लिङ्गैः प्रतिपादितः । तेषामेव तज्जातीयानां वा लिङ्गानामेव ब्रह्मण्यसत्वे सन्दिग्धनाम्नामपि समन्वयोऽसाधितप्रायः स्यादतः नामान्वयानन्तरमेव ब्रह्मणि लिङ्ग-समन्वयः समर्थितो द्वितीये पादे । ‘‘अन्तस्तद्धर्मोपदेशात्’’ इत्यत्रादृश्यत्वादिलिङ्गे-नेन्द्रादिनाम्नां भगवति समन्वयः प्रतिपादितः । तदेव चादृश्यत्वलिङ्गम्, ‘‘अदृश्यत्वादि-गुणको धर्मोक्तेः’’ इत्यत्रापि भगवति द्वितीये प्रदर्शितमित्यभिप्रायेण ‘‘तेषामेव’’ इत्युक्तम् । एवं लिङ्गान्तरमप्यूह्यम् ॥ प्रायेणेति ॥ क्वचिन्नाम्नामपि लिङ्गसमन्वयस्य व्युत्पादनात् ‘‘प्रायेण’’ इति ।
पाण्डुरङ्गि
ननु तथाप्यादावन्यत्र प्रसिद्धनामात्मकानां तदनन्तरमन्यत्र प्रसिद्ध-लिङ्गात्मकशब्दानां तत उभयत्र प्रसिद्धनामलिङ्गात्मकानां ततोऽन्यत्रैव प्रसिद्धानामिति क्रमः कुत इत्यतः ‘‘तत्र प्रथमतोऽन्यत्र’’ इत्याद्यनुव्याख्यानानुसारेण पादक्रममाह ॥ पादक्रमस्त्विति ॥ ननु चतुर्थपादीयसमन्वयस्य कारणत्वादिसिद्धिफलकत्वाभाव आनर्थक्यं स्यादित्यत उक्तं तत्तच्छब्देति ॥ ब्रह्मशब्दोक्तगुणपूर्तिसम्भावककारणत्वा-प्रतिपादनेऽसम्भावनाग्रस्तत्वात्स्वरवर्णपदात्मकाशेषशब्दसमन्वयेन गुणपूर्णत्वरूपफला-सिद्धेः कारणत्वोक्त्या कतिपयगुणसिद्धावपेक्षितगुणपूर्त्यसिद्धेरित्यर्थः । तर्ह्यन्यत्रोभयत्र प्रसिद्धयोरुभयत्र प्रसिद्धानामेव सोपानारोहणन्यायेन प्राथम्यमस्त्वित्यत आह ॥ इतरयो-रपीति ॥ ननु ‘‘कारणत्वेन चाकाशादिषु’’ इत्यादेः कारणत्वादियसिद्धिफलकत्वेन तत्र प्रवृत्तिनिमित्तगुणमात्रसिद्धिफलकत्वाभावात्कथं चतुर्थपादीसमन्वयः स्यादित्यस्वरसादाह ॥ यद्वेति ॥ यद्वा पूर्वमनुव्याख्यानानुसारेण पादक्रममुपपाद्य भाष्यानुसारेण पादक्रममाह ॥ यद्वेति ॥ तथा च स्थूलत्वसूक्ष्मत्वातिसूक्ष्मत्वैः पादक्रम इति भावः ॥
केचित्त्विति ॥ स्वयूथ्या इत्यर्थः । विशिष्टप्रतीतौ विशेषणज्ञानस्य कारणत्वा-दित्यर्थः । तदुभयनिरूप्यत्वाद् अन्यत्रोभयत्र प्रसिद्धिनिरूप्यत्वादित्यर्थः । किमुभयत्र प्रसिद्ध्यादेरन्यत्रप्रसिद्ध्यादिनिरूप्यत्वं नियतमनियतं वा । नाद्यः । अन्यत्र प्रसिद्धत्वे सति तत्रप्रसिद्धत्वमुभयत्रप्रसिद्धत्वमित्येवंरूपेण तन्निरूप्यत्वेऽपि विष्णुतदितरयोः प्रसिद्धत्व-मुभयत्र प्रसिद्धत्वमित्यादिरूपेण तन्निरूप्यत्वाभावादित्याह ॥ तन्नेति ॥ उक्तरीत्येति ॥ उभयोपस्थापकत्वमुभयत्र प्रसिद्धत्वमित्याद्युक्तरीत्येत्यर्थः । नेतरः । अनियतनिमित्तेन नियतपादभेदे विनिगमकाभावेन वैपरीत्यस्यापि सुवचत्वादिति भावः ।
नन्वन्यत्रप्रसिद्धानामुभयात्मकानामविशेषान्नामात्मकानां प्राथम्यं किं निमित्तमित्यत आह ॥ अन्यत्रप्रसिद्धेष्विति ॥ ननु नाम्नां धर्मिणि साक्षाद्धीजनकत्ववल्लिङ्गानामपि धर्मे साक्षाद्धीजनकत्वात्कथं तेषां विशेष इत्यत उक्तं प्रधानेति ॥ प्रायेण धर्मिद्वारेणैव धर्मस्य क्रियान्वयित्वेन साक्षाद्धर्मिण एव तदन्वयित्वेन तस्यैव प्राधान्यं, लिङ्गस्य तु तदभावेना-प्राधान्यमिति भावः । निरपेक्षत्वमुपपादयति ॥ यौगिकस्येति ॥ नन्वेवं धर्मिवाचका-नामन्तर्याम्यादिशब्दानां नामता स्यात् । धर्मिवाचिनां चानन्दमयादिशब्दानां लिङ्गता च स्यादित्यस्वरसादाह ॥ यद्वेति ॥ स्वरूपप्राधान्यादि कथं पादक्रमे निमित्तमित्यतो वाऽऽह ॥ यद्वेति ॥ सन्दिग्धं ब्रह्मपरत्वं येषामिति बहुव्रीहिः । ननु नामसमन्वयस्य लिङ्गाधीनत्वा- ल्लिङ्गसमन्वयस्यापि नामसमन्वयाधीनत्वान्नामसमन्वयसिद्धौ लिङ्गसमन्वयसिद्धिस्तत्सिद्धौ तत्सिद्धिरित्यन्योन्याश्रयः स्यादित्यत आह ॥ लिङ्गसमन्वयस्त्विति ॥ सर्वगतत्वाधिकरणे ब्रह्मश्रुत्या सर्वगतत्वलिङ्गसमन्वयस्य प्रतिपादितत्वात्कथं लिङ्गसमन्वयो लिङ्गेनैवेत्युच्यत इत्यत उक्तं प्रायेणेति ॥ न चैवं तदंश एव पौनरुक्त्यं स्यादित्याशङ्क्यम् । येनैव लिङ्गेन यस्य नाम्नः समन्वयो न तेनैवाम्नातस्यैव लिङ्गस्य समन्वयः । किन्तु लिङ्गान्तरेण नामान्तरेणेति न दोष इति भावः ।