अत्र चेतरयोर्हेतुमूलत्वाद्धेतुः प्रदर्श्यते
हेतुमुखलक्षणादीनामसाङ्कर्यनिरूपणम्
अत्र चेतरयोर्हेतुमूलत्वाद्धेतुः प्रदर्श्यते
तात्पर्यचन्द्रिका
अत्र चेतरयोर्हेतुमूलत्वाद्धेतुः प्रदर्श्यते । उभयत्र प्रसिद्धानां हि द्युभ्वाद्याय-तनत्वादीनां ‘‘रुद्रो वाव लोकाधारः विष्णावेवोताश्च प्रोताश्च’’ इत्यादि श्रुत्यन्तर-साधारण्येन अक्षरादिशब्दानां प्रवृत्तिनिमित्तसाधारण्येन सदादिशब्दानां विषय-वाक्यस्थकारणत्वादिधर्मसाधारण्येन ‘‘आकाशोऽर्थान्तरत्वादि व्यपदेशात्’’ इति सूत्रविषये ‘‘आकाशो हवै नाम नामरूपयोर्निर्वहिता’’ इति वाक्यस्थाकाशशब्दे ‘‘आकाशस्तल्लिङ्गात्’’ इत्यत्र ब्रह्मण्यपि प्रयोगस्योक्तत्वात् प्रयोगसाधारण्येनोभयत्र प्रसिद्धिः । न तु पूर्वपक्षसिद्धान्तन्यायाभ्याम् । येन साङ्कर्यं स्यात् । तदुक्तेस्तु प्राक् ‘आकाशस्तल्लिङ्गात्’ इति सूत्रविषयवाक्ये ‘‘अस्य लोकस्य का गतिरित्याकाश इति होवाच’’ इत्यत्रान्यत्र प्रसिद्धिः । ‘‘कारणत्वेन चाकाशादिषु’’ इति सूत्रविषयवाक्ये ‘‘आत्मन आकाशस्सम्भूतः’’ इत्यत्र तु ब्रह्मलिङ्गाभावेन लोकतोऽन्यत्र प्रसिद्धेर-बाधात्सम्भूतत्वादिविपरीतलिङ्गाच्चान्यत्रैव प्रसिद्धिरित्येकस्यैव प्रयोगभेदेन दशाभेदा-त्त्रितयं युक्तम् । यद्वा ‘‘कारणत्वेन’’ इत्यत्रावान्तरकारणत्वस्यैव समन्वय इति वक्ष्यते । एवं ज्योतिश्शब्दस्यापि ‘‘ज्योतिश्चरण’’ इत्यत्रान्यत्र प्रसिद्धता ‘‘ज्योति-र्दर्शनात्’’ इत्यत्रोभयत्र प्रसिद्धता ‘‘ज्योतिरुपक्रमात्’’ इत्यत्रान्यत्रैव प्रसिद्धतोह्या ।
प्रकाशिका
॥ अत्र चेति ॥ त्रिविधोपाधीनां प्रत्येकं त्रिविधलक्षणत्रिकमध्ये उत्तरद्विकत्रयस्याद्यत्रिकमूलकत्वस्य ‘‘अत एव’’ इत्यादिना प्राग्विवृतत्वादाद्यत्रिकं तत्त-त्पादीयोदाहरणनिष्ठतया प्रदर्श्यते इत्यर्थः । तत्प्रदर्शने च पश्चात्तनद्विकत्रयस्यापि तज्ज्ञानं सुशकमिति भावः ॥ विष्णाविति ॥ ‘‘लोकाश्च लोकिनश्चालोकाश्चालोकिनश्च’’ इति पूर्वशेषः । ‘‘साधारण्येन’’ इत्यस्य सर्वस्य ‘‘उभयत्र प्रसिद्धिरिति वक्ष्यमाणेनान्वयः ॥ प्रवृत्तीति ॥ अविनाशित्वरूपप्रवृत्तीत्यर्थः । अक्षरनये तथोक्तेः’’ इति भावः ॥ सदिति ॥ ‘‘ईक्षतिकर्मव्यपदेशात्सः’’ इत्यत्र ‘‘तत्तेजोऽसृजत’’ इत्यादिकारणत्वसाधारण्येनेत्युक्ते-रित्यर्थः । आदिपदादबाधितत्वाख्यसत्त्वरूपधर्मग्रहः । ब्रह्मप्रधानयोस्साधारण्येनेत्यर्थः । आकाशनये आकाशब्रह्मणोः प्रयोगसाधारण्येनेत्यर्थः । पूर्वोक्तं निराह ॥ न त्विति ॥ कम्पनादित्यत्र टीकायामेवमुक्तिं तु विवरिष्याम इति भावः । येनेति ॥ उक्तरीत्या तथा सर्वत्रोभयप्रसिद्धेर्वक्तुं शक्यत्वादिति भावः । आकाशशब्दस्यान्यत्र प्रसिद्धत्वमप्युपपादयति ॥ उक्तेरिति ॥ आकाशनयसिद्धान्तन्यायेन ब्रह्मण्याकाशपदप्रयोगोक्तेः पूर्वमन्यत्र प्रसिद्धेरेव सत्त्वादिति भावः । अन्यत्रैव प्रसिद्धत्वं चाह ॥ कारणत्वेनेति ॥ सम्भूत-त्वेति ॥ उत्पत्तिमत्त्वस्वजन्यत्वादिरूपेत्यर्थः । एतेन यदि प्रयोगसाधारण्येनोभयत्र प्रसिद्धिस्तर्हि पूर्वमाकाशशब्दस्य ब्रह्मण्यपि प्रयोगस्योक्तत्वाच्चतुर्थपादीयस्य तथात्वं स्यादिति निरस्तम् । ‘‘अन्यत्र प्रसिद्धेरबाधाद्विपरीतलिङ्गाच्च’’ इत्युक्तेः । एतेन ‘‘उत्पत्तिमत्त्वलिङ्गेनान्यत्रैव प्रसिद्धानामाकाशादिशब्दानाम्’’ इति तत्रत्यं टीकावाक्यं समर्थितं ध्येयम् ।
‘‘अवान्तरं कारणं च’’ इत्यणुभाष्यानुरोधेन पक्षान्तरमाह ॥ यद्वेति ॥ तथा चाकाशपदस्य ब्रह्मणि प्रयोगसाधनात्पूर्वमन्यत्र प्रसिद्धता । तदनन्तरमुभयत्र प्रसिद्धतेति द्वैविध्यमेवेति भावः । ज्योतिश्शब्देऽपि त्रैविध्यं प्रयोगभेदेन दशाभेदाद्युक्तमित्याह ॥ एवमिति ॥ ‘‘उक्तेः प्राक्’’ इत्याद्युक्तरीतिरेवंशब्देन परामृश्यते । ननु ‘‘ज्योतिश्चरण’’ इत्यतः पूर्वं ज्योतिश्शब्दस्य विष्णौ प्रयोगासिद्धेः ‘‘ज्योतिर्हृदय आहितं यत्’’ इत्यग्नि-सूक्तस्थज्योतिश्शब्दस्यान्यत्र प्रसिद्धत्वेऽपि ‘‘ज्योतिर्दर्शनात्’’ इत्यत्र ‘‘प्राणेषु हृद्यन्त-र्ज्योतिः’’ इति काण्वश्रुतिस्थज्योतिश्शब्दस्य नोभयत्र प्रसिद्धता । तत्पूर्वपक्षे ज्योतिश्चरणेत्यत्रोक्तज्योतिषो विष्णुत्वाक्षेपेण विष्णौ प्रयोगस्य पूर्वपक्षिणोऽसम्मतेः । ‘‘आकाशोऽर्थान्तरत्वात्’’ इत्यत्र तु पूर्वपक्षे तल्लिङ्गादित्यत्रोक्तस्य आकाशशब्दस्य विष्णुत्वानाक्षेपेण तत्राकाशशब्दस्योभयत्र प्रसिद्धत्वोपपत्तेरिति चेन्न । प्रयोगसाधारण्येनो-भयत्र प्रसिद्धत्वाभावेऽपि तत्साधारण्येनेव प्रवृत्तिनिमित्तसाधारण्येनाप्युभयत्र प्रसिद्ध्युप-गमात् । जीवेशयोर्ज्ञानत्वरूपप्रवृत्तिहेतुसाधारण्येन तथात्वस्य च तत्र वक्ष्यमाणत्वात् ।
नन्वथापि ‘‘ज्योतिरुपक्रमात्’’ इत्यत्र पूर्वं विष्णौ प्रयोगस्योक्तत्वात्तस्य च तत्पूर्व-पक्षेऽनाक्षेपात्तत्रत्यज्योतिश्शब्दस्य पूर्वं विष्णौ प्रयोगस्य पूर्वपक्षिणोऽपि सम्मतेरुभयत्र प्रसिद्धता स्यादिति चेन्न । ‘‘वसन्ते वसन्ते ज्योतिषा’’ इत्यत्र ब्रह्मलिङ्गाभावेन लोकतोऽन्यत्र प्रसिद्धेरबाधात्कर्मक्रमादिलोपप्रसङ्गरूपप्रबलबाधकाच्चान्यत्रैव प्रसिद्धिरित्युक्त- प्रायत्वात् । ज्योतिष्टोमवसन्तादिशब्दानामपि तत्र समन्वयेन ज्योतिश्शब्दमात्रसमन्वया-नुक्तेरिति भावः । वक्ष्यते चैतत्पादान्त्यप्राणनये । एवमक्षरशब्दस्याक्षरनय एव समन्वयः । अदृश्यत्वनये तु तत्साहित्येनान्यत्र प्रसिद्धलिङ्गानामेव समन्वय इति बोध्यम् । ‘‘अदृश्यत्वादिगुणकमक्षरम्’’ इति चन्द्रिकायां धर्मित्वेनाकरोपादानं तु विशेष्य-प्रदर्शनार्थम् । तात्पर्यं तु गुणजात एव । अक्षरनये तस्य विष्णौ समन्वयेऽपीह ‘‘अक्षरा-त्सम्भवति’’ इत्युक्तविश्वोपादानत्वरूपबाधकेन प्रकृतौ ‘‘कूटस्थोऽक्षर उच्यते’’ इत्यादि-स्मृतिसिद्धप्रसिद्धिबाधो न युक्त इत्यादियुक्तिं वक्तुं वेति ।
चन्द्रिकाबिन्दु
उदाहरणनिष्ठतया लक्षणानि दर्शयितुमारभते ॥ अत्र चेति ॥ इतरयोः स्वरूपफलमुखलक्षणयोः ॥ प्रवृत्तिनिमित्तेति ॥ एवं च ‘‘अविनाशित्व-साम्येन’’ इति टीका प्रवृत्तिनिमित्ताविनाशित्वसाम्येनेति व्याख्येया । यद्यपि तृतीये बहून्यधिकरणानि सन्ति तथापि तत्र सर्वत्र श्रुतिप्रवृत्तिनिमित्तकारणत्वादिधर्मसाधारण्यमेव प्रवृत्तिनिमित्तमिति न पृथग्गृहीतानि । आकाशशब्दस्यान्यत्रान्यत्रैव उभयत्रप्रसिद्धत्वं दर्शयति ॥ आकाशोऽर्थान्तरत्वादीत्यादिना ॥ उक्तत्वादिति ॥ ‘‘आकाशस्तल्लिङ्गात्’’ इति पूर्वपादीयाधिकरण इति शेषः ॥ तदुक्तेरिति ॥ आकाशास्तल्लिङ्गादिति सूत्रोक्तेः प्रागित्यर्थः ॥ ब्रह्मलिङ्गाभावेनेति ॥ ब्रह्मलिङ्गस्य अन्यत्र प्रसिद्धिबाधकस्याभावेनान्यत्र प्रसिद्धिर्भवति । सम्भूतत्वादिविपरीतलिङ्गेन अन्यत्रैव प्रसिद्धिर्भवतीति भावः । ननु यदा ‘‘आकाशस्तल्लिङ्गात्’’ इत्यत्र आकाशशब्दस्य ब्रह्मणि प्रयोगस्समर्पितस् तदा उभयत्र-प्रसिद्धत्वमेवागतं न त्वन्यत्रैव प्रसिद्धत्वमिति यद्याग्रहस्तदा ‘‘अवान्तरं कारणं च’’ इति सङ्क्षेपानुसारेण चतुर्थपादीयाकाशाधिकरणे लिङ्गसमन्वय इत्याह ॥ यद्वेति ॥
पाण्डुरङ्गि
हेतुमूलमेव लक्षणं प्रदर्श्यते । तत्र किं निमित्तमित्यत आह ॥ अत्र चेति ॥ इतरयोः स्वरूपफलमुखलक्षणयोरित्यर्थः । नन्वेवमेकस्यैवाकाशशब्दस्या-न्यत्रोभयत्रान्यत्रैव प्रसिद्धता स्यादित्युक्तबाधकं परिहरन्नेवोभयत्र प्रसिद्धानामन्यत्र प्रसिद्धेभ्यो भेदमुपपादयितुं श्रुत्यन्तरसाधारण्यादेरुभयत्र प्रसिद्धिसाधकत्वं तावद्दर्शयति ॥ उभयत्र प्रसिद्धानां हीत्यादि ॥ अत्र लक्षणकथनक्रमेणोपपादनान्न विरोधः । यद्वा नन्वेवमुभयत्र प्रसिद्धानां लक्षणानि । तथाप्युभयत्र प्रसिद्धानां नान्यत्र प्रसिद्धेभ्यो भेदः । पूर्वपक्षसिद्धान्तोक्तरीत्योभयत्र प्रसिद्धेस्तुल्यत्वादित्यत उभयवादिसम्मतश्रुत्यन्तर-साधारण्यादिनैवोभयत्र प्रसिद्धिरित्याह ॥ उभयत्र प्रसिद्धानां हीत्यादि ॥ श्रुत्यन्तर-साधारण्येनोभयत्र प्रसिद्धिरित्यन्वयः । एवमुत्तरत्रापि । न चाकाशशब्दस्य कथमुभयत्र प्रसिद्धिरिति वाच्यम् । लोकतोऽन्यत्र प्रसिद्धेस्तल्लिङ्गादिति न्यायेन ब्रह्मण्यपि प्रयोगा-दित्याह ॥ आकाश इति ॥ एवमाकाशशब्दस्योभयत्र प्रसिद्धिमुपपाद्य कथं तर्हि तस्यान्यत्र प्रसिद्धत्वं, तल्लिङ्गादिति न्यायेन ब्रह्मण्यपि प्रसिद्धत्वेनोभयत्र प्रसिद्धत्वादित्यत आह ॥ तदुक्तेरिति ॥ तथा चैतदधिकरणप्रवृत्त्यनन्तरं ब्रह्मण्यप्याकाशशब्दस्य प्रसिद्धत्वेऽप्याकाशस्तल्लिङ्गादिति न्यायप्रवृत्तेः पूर्वं तत्सूत्रपूर्वपक्षदशायामन्यत्र प्रसिद्धत्वेन ब्रह्मण्यप्रसिद्धत्वेनान्यत्र प्रसिद्धत्वोपपत्तेरिति भावः ।
कथं तर्ह्यन्यत्रैव प्रसिद्धत्वं पूर्वोक्तन्यायेन ब्रह्मण्यपि प्रसिद्धत्वेन येषामुक्तद्वयमित्यादि-नोक्तस्यान्यत्र प्रसिद्धलक्षणानाक्रान्तत्वात्तस्यान्यत्र प्रसिद्धत्वेऽपि ब्रह्मण्यप्रसिद्धत्वा-भावादित्यत आह ॥ कारणत्वेनेत्यादि ॥ अयं भावः । आकाशशब्दोऽप्यन्यत्रैव प्रसिद्धः । न च ब्रह्मण्यप्रसिद्धिर्नास्तीति वाच्यम् । तस्यापि ब्रह्मण्यप्रसिद्धत्वात् । न च तल्लिङ्गादिति न्यायेन ब्रह्मणि प्रसिद्धिरुक्तेति वाच्यम् । सति हि ब्रह्मलिङ्गे ब्रह्मपरत्वमिति हि तन्न्यायः । अत एवाकाशो वै नामरूपेत्यादौ नामरूपनिर्वाहकत्वरूपब्रह्मलिङ्ग-सद्भावेनाकाशशब्दस्य ब्रह्मपरत्वमाश्रितम् । न चात्र ब्रह्मलिङ्गमस्ति । किन्तु तल्लिङ्गादिति न्यायात्प्रागिवात्राप्यबाधितान्यत्रप्रसिद्धेः सम्भूतत्वादिलिङ्गसाहित्येन बलवत्त्वादन्यत्रैव प्रसिद्धत्वमिति । एवमन्यत्रैव प्रसिद्धिसम्पादिके तत्राप्रसिद्ध्यन्यत्रप्रसिद्धी उपपाद्य ब्रह्म-परत्वेऽन्यशक्यत्वमप्याह ॥ सम्भूतत्वादीति ॥ प्रयोगभेदेनेति ॥ विषयवाक्यभेदेनेत्यर्थः ।
ननूभयत्र प्रसिद्धिप्रयोजकीभूतप्रयोगसाधारण्यस्योक्तन्यायेनात्रापि सत्त्वादुभयत्र प्रसिद्धत्वं स्यादेव । अन्यथा विषयवाक्यगताकाशशब्दस्य ब्रह्मणि प्रयोगाभावस्य च सिद्धान्ते क्वाप्यसम्भवात्, ब्रह्मलिङ्गाभावस्य च सिद्धान्ते क्वाप्यभावात् पूर्वपक्षे तु सर्वत्र सत्वात्पूर्वपक्षसिद्धान्तानुदयात् । अत एव विपरीतलिङ्गानां पूर्वपक्षे सर्वसाधारण्यात्सिद्धान्ते तदभावस्यापि साधारण्यात्पूर्वत्राप्युत्तरत्र प्रसिद्ध्योपपत्तेरिति चेन्न । श्रुत्यादेः प्राबल्यं हीत्यादिवक्ष्यमाणन्यायेन तृतीयपादे भूताकाशप्रापकवैनामेति निपातद्योतितलोक-प्रसिद्ध्यापन्नाकाशश्रुतेः सिद्धान्तेऽमुख्ययापि वृत्त्याऽन्यपरत्वाभावेऽनुपपत्त्यभावेन दुर्बल-त्वात् । चतुर्थे तु तस्याप्राबल्यादुभयत्र प्रयोगाविशेषेऽतिव्याप्त्यभावात् । एतदेवाभिप्रेत्य विपरीतलिङ्गाच्चेति प्रोक्तमिति ज्ञातव्यम् ।
नन्वेवमन्यत्रैव प्रसिद्धलक्षणाक्रान्तत्वेनान्यत्रैव प्रसिद्धत्वेऽपि ब्रह्मण्यपि प्रसिद्धत्वा-दुभयत्र प्रसिद्धता स्यादेवेत्यत आह ॥ यद्वेति ॥ यद्वा एवं पूर्वोत्तरपक्षयोः श्रुत्यादीनां प्राबल्यतदभावविवक्षया परस्परमतिव्याप्तिपरिहारेऽपि पक्षान्तरमाह ॥ यद्वेति ॥ भूत-पराकाशशब्दस्येव ज्ञानवाचकज्योतिश्शब्दस्य प्राक् समन्वयाप्रतिपादनात्कथं तस्य तृतीये उभयत्र प्रसिद्धत्वं कथं च विरुद्धमन्यत्रान्यत्रैव प्रसिद्धत्वं चेत्यभ्यधिकाशङ्कायामुक्तमेवाति-दिशति ॥ एवमिति ॥ ज्योतिश्शब्दस्य पूर्वं समन्वयापादितप्रयोगाभावे ज्ञानरूप-प्रवृत्तिनिमित्तसाधारण्येनोभयत्र प्रसिद्धेर्वक्ष्यमाणत्वात्साधारण्यमात्रांशेऽतिदेशः । एवं कर्मवाचकस्य पूर्वमसमन्वितस्यैव ज्योतिश्शब्दस्यावान्तरकारणस्येव प्रतिपादना-त्सिद्धान्तेऽप्यन्यपरत्वाद्वाऽतिदेशः ।
अन्यत्रप्रसिद्धानां त्विन्द्रादिशब्दानां..
अन्यत्रप्रसिद्धानां त्विन्द्रादिशब्दानां
तात्पर्यचन्द्रिका
अन्यत्रप्रसिद्धानां त्विन्द्रादिशब्दानां लोकतः सर्वगतत्वादिलिङ्गानां च लोकतोऽ-न्यत्र प्रसिद्धादित्यादिश्रुत्यादिसाहचर्येणान्यत्र प्रसिद्धिः । न तूभयत्र प्रसिद्धानामिव ब्रह्मसाधारणश्रुत्यन्तरादिनाऽन्यत्र प्रसिद्धिः । तच्च श्रुत्यादिकं चतुर्थपादीयश्रुत्यादिवन्न प्रबलम् । श्रुत्यादेः प्राबल्यं हि प्रवृत्तिनिमित्तस्य तदधीनत्वादिना ब्रह्मणि शब्दस्य परममुख्यत्वेऽपि तस्य शब्दस्य तद्युक्तवाक्यस्य वाऽपरममुख्यवृत्त्याऽन्यपरत्वं विनाऽनुपपद्यमानत्वम् । न त्वापाततो ब्रह्मण्यसम्भवमात्रम् । येन द्वित्वादिकमपि बलवत्स्यात् । नापि सर्वथाऽसम्भवः । येन सिद्धान्तानुदयः स्यात् । न हि ‘‘गुहां प्रविष्टौ’’ इत्यादिषु द्विवचनं तद्युक्तवाक्यं वाऽपरममुख्यवृत्त्याऽप्यन्यपरम् । अन्यत्रैव प्रसिद्धेषु च ‘‘अव्यक्तात्पुरुषः परः, वसन्ते वसन्ते ज्योतिषा यजेत’’ इत्यादिष्व-व्यक्तादिशब्दस्तद्युक्तं वाक्यं वाऽपरममुख्यवृत्त्याऽन्यपरमेव । अन्यथा देवतातारतम्य-कर्मादि न सिद्ध्येत् । वाक्यान्तरस्याप्येतत्तुल्यत्वात् । अत एव ‘‘कामादितरत्र तत्र चायतनादिभ्यः’’ इत्यधिकरणेऽपरममुख्यवृत्त्या श्रीतत्वपरत्वेन भाष्योदाहृतं ‘‘सैषा प्रकृतिरविकृतिः’’ इति वाक्यमेव प्रकृत्यधिकरणे टीकायामुदाहृतम् । एवं च ‘‘एतेन सर्वे व्याख्याताः’’ इत्यत्राप्यपरममुख्यवृत्त्याऽन्यपरवाक्यस्था एवासदादिशब्दा उदाहार्याः । प्रकरणात्, भाष्ये वाक्यविशेषानुपादानाच्च ।
प्रकाशिका
एवमुभयत्र प्रसिद्धानां श्रुत्यन्तरादिसाधारण्यरूपहेतुमुखलक्षणं लक्ष्य-निष्ठतया प्रदर्श्यान्यत्र प्रसिद्धानामपि तद्दर्शयति ॥ अन्यत्रेति ॥ लोकत इति ॥ अन्यत्र प्रसिद्धिरित्यन्वयः । श्रुत्यादिसाहचर्येणान्यत्र प्रसिद्धत्वे उभयत्र प्रसिद्धसाङ्कर्यं स्यादित्यतो विशेषणव्यावर्त्यमाह ॥ न त्विति ॥ अन्यत्रैव प्रसिद्धसाङ्कर्यमपि नेत्याह ॥ तच्चेति ॥ ननु प्राबल्यसाङ्कर्यमपि प्रागुक्तमित्यत आह ॥ प्राबल्यं हीति ॥ द्वित्वादिकमपीति ॥ तथा च ‘‘ऋतं पिबन्तौ’’ इत्यादीनामन्यत्र प्रसिद्धत्वसिद्धिरिति भावः ॥ नापीति ॥ ब्रह्मणी-त्यनुषङ्गः । विवक्षितं प्राबल्यं द्वित्वादियुक्तवाक्ये नास्ति वसन्तादिवाक्येष्वस्तीत्युपपादयति ॥ न हीति ॥ अन्यत्रैवेति च ॥ एतेन ‘अन्यत्रैव प्रसिद्धानां बलवच्छ्रुतीत्यादिनोक्तं हेतुमुखलक्षणं लक्ष्यनिष्ठत्वेनोपदर्शितं भवति ॥ अन्यथेति ॥ अव्यक्तनयोदाहरणे ‘‘इन्द्रियेभ्यः परा ह्यर्थाः’’ इत्यादिश्रुताविन्द्रियादिपदानां केवलब्रह्मपरत्वे इन्द्रियार्थादि-देवतातारतम्यं न सिध्येत् । एवं वसन्तादिवाक्येऽपि कर्मक्रमादिसिद्धिर्न स्यात् । देवता-तारतम्यकर्मादिबोधकवाक्यान्तरस्यापि ब्रह्मपरत्वावश्यम्भावादित्यर्थः ॥ अत एवेति ॥ मुख्यामुख्यवृत्त्याऽर्थद्वयस्यावश्यकत्वादेवेत्यर्थः । उपासनापादे ‘कामात्’ इति चतुर्विंशति-तमेऽधिकरणे श्रीरुपासनायामधिकारिणी न वेति सन्देहे सीतारुक्मिण्यादिरूपेण श्रियोऽपि जन्ममरणादिदृष्ट्या संसारित्वेन साधुत्वे सति संसारित्वादधिकारिणीति प्राप्ते ‘‘सर्वायतना सर्वकाला सर्वस्थानबद्धा बन्धिका सैषा’’ इति श्रुतौ सर्वगतत्वनित्यत्वाद्यभिधानेन जननादेरवतारादित्वेन संसारित्वाभावान्न श्रीरधिकारिणीति तत्परतयोदाहृतं वाक्यं प्रकृत्यधिकरण उदाहृत्य विष्णुपरत्वं समर्थितमित्यर्थः । नन्वेवं चतुर्थपादान्त्याधिकरणे कथञ्चिदप्यन्यपरत्वशून्यवाक्यस्य टीकायामुदाहृतेः कथमेवमित्यत आह ॥ एवं चेति ॥ प्रकरणादिति ॥ पूर्वाधिकरणेषु तादृशानामेवोदाहरणादिति भावः ।
चन्द्रिकाबिन्दु
अन्यत्र प्रसिद्धत्वलक्षणश्रुत्यादिलोकान्यतरेणान्यत्रप्रसिद्धत्वमुक्तं भवति । तच्च चतुर्थपादसमन्वेतव्येषु बलवच्छ्रुति लोकादिभिरन्यत्रैवप्रसिद्धेष्वस्तीत्यति-व्याप्तिरित्यत आह ॥ तच्चेति ॥ बलवत्त्वरहितश्रुतिलिङ्गादिभिरन्यत्रैव प्रसिद्धत्वमन्यत्र प्रसिद्धलक्षणं, तच्च नातिव्याप्तमिति भावः । बलवत्त्वं निर्वक्ति ॥ प्राबल्यं हीति ॥ तस्येति ॥ यस्य मुख्यवृत्त्या ब्रह्मपरत्वं तस्य शब्दस्य तच्छब्दयुक्तवाक्यस्य अमुख्यया वृत्त्याऽप्यन्यपरत्वं विनाऽप्यनुपपद्यमानत्वम् । अत एव ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इत्यस्येन्द्रियाद्यभिमानिदेवतापरत्वम् । अन्यथा देवतातारतम्याद्यसिद्धेरिति भावः । प्रकारान्तरेण बलवत्त्वविवक्षायां द्वित्वादिलिङ्गेऽपि समानम् । ब्रह्मण्यसम्भवमात्रस्य द्वित्वेऽपि वक्तुं शक्यत्वात् । तथा च गुहाप्रविष्टत्वलिङ्गस्यापि बलवल्लिङ्गेनान्यत्र प्रसिद्ध-त्वेन अन्यत्रैव प्रसिद्धलक्षणस्यातिप्रसङ्गात् । तस्मात्प्रकारान्तरं सर्वथा न सम्भवतीत्याह ॥ न त्वापातत इत्यादिना ॥ विवक्षितबलवत्त्वं च द्विवचनादिलिङ्गेषु नास्तीत्याह ॥ न हीति ॥
ननु ‘‘अव्यक्तात्पुरुषः परः’’ इत्यादिवाक्येन तारतम्यसिद्धावपि वाक्यान्तरेण तत्सिद्धिरित्यत आह ॥ वाक्यान्तरस्यापीति ॥ तस्याप्यनेन न्यायेन हरौ समन्वितत्वा-दमुख्यया वृत्त्याऽन्यपरत्वमेवावश्यकमिति भावः ॥ अत एवेति ॥ चतुर्थपादीय-वाक्यस्यान्यपरत्वस्यावश्यकत्वादेवेत्यर्थः । अध्यायान्तिमाधिकरणे एतेनेत्यादिसूत्रे असदादिशब्दानुदाहृत्य (विचिन्तितम् । न च) तेषामसदभावादिशब्दानां सिद्धान्ते शून्यपरत्वं विनाऽनुपपद्यमानत्वमस्ति । येन बलवत्त्वं स्यादित्याशङ्क्याह ॥ एवं चेति ॥ कथम् ‘‘असतस्सज्जायेत’’ इति वाक्यं सिद्धान्ते शून्यपरतां विनाऽनुपपद्यमानमेव । अतस्तद्वाक्यमुदाहृतम् । प्रकरणाद् अमुख्यया वृत्त्याऽन्यपरशब्दप्रकरणात् ।
पाण्डुरङ्गि
नन्वेवमप्युभयत्र प्रसिद्धवत्साधारणश्रुत्यादिना प्रसिद्धेरन्यत्र प्रसिद्धेष्वपि सत्त्वेन साङ्कर्यं स्यादेवेत्यत आह ॥ अन्यत्र प्रसिद्धानां त्विति ॥ ननु तथाप्यन्यत्र प्रसिद्धानां नान्यत्रैव प्रसिद्धेभ्यो भेदः । तेषामन्यत्र प्रसिद्धिसाधकश्रुत्यादेरुभयत्र तुल्यत्वा-दित्यतोऽन्यत्रैव प्रसिद्धिसम्पादकश्रुत्यादिप्राबल्यवन्नान्यत्र प्रसिद्धिसम्पादकश्रुत्यादेः प्राबल्यमित्याह ॥ तच्चेति ॥ अन्यत्र प्रसिद्धिसम्पादकश्रुत्यादिकमित्यर्थः । ननु श्रुत्यादेः प्रबलत्वं किमापाततो ब्रह्मण्यसम्भवमात्रं सर्वथाऽसम्भवो वा । नाद्यः । द्वित्वादीनां प्रबलत्वापातात् । नांत्यः । सिद्धान्तानुदयापातादित्यत आह ॥ श्रुत्यादेः प्राबल्यं हीति ॥ तथा च यथाकथञ्चिदन्यपरत्वं विनाऽनुपपद्यमानत्वमेव श्रुत्यादेः प्राबल्यं विवक्षितम् । न तूभयविधमिति नातिप्रसङ्ग इति भावः । ननु विवक्षितं प्राबल्यं द्वित्वादावप्यस्त्येवेत्यत आह ॥ न हीति ॥ ननु यथाकथञ्चिदन्यपरत्वं विनाऽनुपपद्यमानत्वमन्यत्र प्रसिद्धेषु नास्तीत्यसम्भव इत्यत आह ॥ अन्यत्रैव प्रसिद्धेष्विति ॥ अन्यथेति ॥ ‘‘अव्यक्तात् पुरुषः परः, वसन्ते वसन्ते ज्योतिषा यजेत’’ इत्यादेरमुख्यवृत्त्याऽन्यपरत्वानङ्गीकारे इत्यर्थः । तत्र ‘अव्यक्तात्पुरुषः परः’ इत्यस्य वाक्यस्यामुख्यवृत्त्याऽन्यपरत्वाभावे तारतम्यं न सिद्ध्येत् । वसन्ते इत्यादेरमुख्यवृत्त्याऽन्यपरत्वाभावे कर्मादिर्न सिद्ध्येदिति सम्बन्धो बोद्धव्यः ।
ननु ‘अव्यक्तात्पुरुषः परः’ ‘वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यादेरमुख्यवृत्त्याऽन्य-परत्वाभावेऽपि न देवतातारतम्याद्यसिद्धिः । वाक्यान्तरेण तत्सिद्ध्युपपत्तेरित्यत आह ॥ वाक्यान्तरस्येति ॥ तथा चाव्यक्तात्पुरुषः पर इत्यादिवद्वाक्यान्तरस्यापि ब्रह्मपरत्वेना-व्यक्तादिवाक्यानामन्यपरत्वाभावे वाक्यान्तरस्याप्यन्यपरत्वाभावापातेन तेनापि सिद्धेर-सम्भवात्तस्याप्यमुख्यवृत्त्याऽन्यपरत्वमाश्रीयते चेदव्यक्तादेरपि तदस्तु लाघवादिति भावः ॥ अत एवेति ॥ परममुख्यया वृत्त्या ब्रह्मपरत्वेऽप्यमुख्यया वृत्त्याऽन्यपरत्वस्य विद्यमान-त्वादेवेत्यर्थः । ननु तस्यान्यपरत्वाभावादेव तदुदाहरणमित्यत आह ॥ कामादितरत्रेति ॥ नन्वेवमन्यत्रैव प्रसिद्धनामलिङ्गात्मकशब्दानां समन्वयप्रतिपादके चतुर्थपादे ‘‘एतेन सर्वे व्याख्याताः’’ इत्यधिकरणप्रवेशो न स्यात् । तद्विषयवाक्यस्थासदादिशब्दानां परम-मुख्यया वृत्त्या ब्रह्मपरत्वे सत्यन्यपरत्वरूपबलवत्त्वाभावेन बलवच्छ्रुतिलिङ्गादिभिरन्यत्र-प्रसिद्धत्वरूपान्यत्रैव प्रसिद्धत्वाभावादित्यत आह ॥ एवं चेति ॥ ननु तर्ह्यसद्वा इत्यादि-
वाक्योदाहरणं न स्यादित्यतः किं भाष्ये न स्याट्टीकायां वा । नाद्य इत्याह ॥ भाष्य इति ॥