०३ हेतुस्वरूपफलमुखेनान्यत्रप्रसिद्धादीनां लक्षणनिरूपणम्

श्रुत्यन्तरादिभिस्तुल्या ह्युभयस्मिन्प्रसिद्धता

हेतुस्वरूपफलमुखेनान्यत्रप्रसिद्धादीनां लक्षणनिरूपणम्

श्रुत्यन्तरादिभिस्तुल्या ह्युभयस्मिन्प्रसिद्धता

तात्पर्यचन्द्रिका

उच्यते ॥

श्रुत्यन्तरादिभिस्तुल्या ह्युभयस्मिन्प्रसिद्धता ।

श्रुत्यादितो लोकतो वाऽपीतरेषु प्रसिद्धता ॥

बलवच्छ्रुतिलिङ्गाद्यैरन्येष्वेव प्रसिद्धता ।

उभयत्र प्रसिद्धादेः क्रमाल्लक्षणमुच्यते ॥

यद्वा

येषां प्रसिद्धिरन्यत्र केवलैव विरोधिनी ।

समन्वयस्योभयत्र प्रसिद्धास्ते हि कीर्तिताः ॥

येषां ब्रह्मण्यप्रसिद्धिः प्रसिद्धिश्चान्यवस्तुषु ।

विरोधिन्यौ हि तेऽन्यत्र प्रसिद्धाः कथिता इह ॥

येषामुक्तद्वयं ब्रह्मपरत्वस्यात्यशक्यता ।

इति तिस्रो विरोधिन्यस्तेऽन्यत्रैव प्रसिद्धकाः ॥

येषां शब्दानां लोके ब्रह्मणीवान्यत्राप्यप्रयोगाद्व्यक्तिविशेषनिर्णयाय श्रुत्यन्तरा-न्वेषणे श्रुत्यन्तरेऽन्यत्रेव ब्रह्मण्यपि प्रयोगात् श्रुत्यन्तरसाधारण्यं प्रवृत्तिनिमित्तादि-साधारण्यं वा पूर्वपक्षिणोऽपि सम्मतम् । अत एव येषां विषयवाक्ये आपाततोऽ-न्योपस्थापनसमये तत्तुल्यतया च ब्रह्मोपस्थापकत्वम् अत एव च येषां ब्रह्मणि समन्वयस्यान्योपस्थितिमात्रेण प्रतिबन्धस् त उभयत्र प्रसिद्धाः । येषां तु वस्त्वन्तरे लोकप्रसिध्द्यादेः सत्त्वात्तद्विरोधेन क्वापि ब्रह्मणि वृत्त्यादिकं पूर्वपक्षिणो न सम्मतम् अत एव येषां विषयवाक्य आपाततोऽन्यमात्रोपस्थापकत्वम् अत एव च येषां समन्वयस्यान्योपस्थितिब्रह्मानुपस्थितिभ्यामेव प्रतिबन्धस् तेऽन्यत्र प्रसिद्धाः ।

येषां पुनर्वस्त्वन्तरे लोकप्रसिद्धिस्तत्परत्वे प्रबलश्रुत्यादिकमप्यस्ति । अत एव येषां विषयवाक्ये आपाततोऽत्यन्तमन्यमात्रोपस्थापकत्वम् अत एव च येषां समन्वयस्यान्योपस्थितिब्रह्मानुपस्थितिभ्यां ब्रह्मपरत्वस्यात्यशक्यकल्पनत्वशङ्कया चातितरां प्रतिबन्धस्तेऽन्यत्रैव प्रसिद्धाः । अत्र च सर्वत्र प्रत्येकं हेतुस्वरूपफलमुखेन लक्षणत्रयं विवक्षितम् । तत्र चाद्येन ‘‘येषाम्’’ इत्यादिना ‘‘अत एव’’ इत्यतः पूर्वेण हेतुमुखं लक्षणमुक्तम् । द्वितीयेन ‘‘येषाम्’’ इत्यादिना ‘‘अत एव’’ इत्यतः पूर्वेण स्वरूपमुखं, अवशिष्टेन फलमुखम् । तत्र स्वरूपमुखानि द्वितीयानि लक्षणा-न्युभयत्रान्यत्रान्यत्रैवप्रसिद्धेति शब्दावयवार्थरूपाणि भाष्ये इहापि सङ्ग्रहश्लोके तत्तच्छब्दप्रयोगादेव सूचितानि । प्रथमानि तु टीकायामाद्यादिपादेषु लोकतोऽन्यत्र प्रसिद्धेत्यादिना त्रिविधप्रसिद्धिकारणकीर्तनात्सूचितानि । तृतीयान्यपि टीकाकृतो-भयत्रप्रसिद्धेषु साधारण्यस्य सन्देहबीजतां तथाऽन्यत्रप्रसिद्धेष्वन्यकोटेरन्यत्र प्रसिद्धितः प्राप्तिं च वदता समन्वयप्रतिबन्धतारतम्यसूचनात्सूचितानि । उक्तं हि ‘‘यस्तानि प्रविभक्तानि हेतुरूपफलैः पृथक्’’ इति ।

प्रकाशिका

असङ्कीर्णलक्षणैरेव पादोपाधयोऽसङ्कीर्णा इति भावेन लक्षणानि सङ्गृह्णाति ॥ श्रुत्यन्तरेति ॥ सोपानारोहणन्यायेनायं निर्देशः । एकैकार्धेनैकैकस्य लक्षण-मिति ध्येयम् । हेतुमुखलक्षणान्यभिधाय स्वरूपमुखानि फलमुखानि च तान्याह ॥ यद्वेति ॥ एकैकेन श्लोकेनैकैकस्य लक्षणमुच्यत इति विवेकः । विरोधिन्यौ समन्वयस्ये-त्यनुषङ्गः । एवमग्रेऽपि ॥ इहेति ॥ समन्वीयमानशब्देषु ॥ उक्तद्वयमिति ॥ ब्रह्मण्य-प्रसिद्धिरन्यत्रप्रसिद्धिश्चेत्युक्तद्वयमत्यशक्यता चेत्यर्थः । कः स्वार्थे । श्रुत्यन्तरेति श्लोकोक्तलक्षणानां हेतुमुखत्वं विशदयन्नुत्तरश्लोकोक्तलक्षणानां स्वरूपमुखत्वं फलमुखत्वं च व्यञ्जयन् श्लोकान्व्याचष्टे ॥ येषां शब्दानामिति ॥ ‘‘श्रुत्यन्तर’’ इति द्युभ्वा-द्यायतनत्वाद्यभिप्रायेण, ‘‘प्रवृत्ति’’ इत्यक्षरादिशब्दाकूतेन । आदिपदादाकाशादि-शब्दप्रयोगादिसाधारण्यं चेति ग्राह्यम् । एतेन श्रुत्यन्तरेत्यर्धं विवृतम् ।

हेतुमुखलक्षणमुक्त्वा स्वरूपमुखलक्षणमाह ॥ अत एवेति ॥ साधारण्यादेवेत्यर्थः । यद्यपीदं न श्लोके कण्ठत उक्तं तथाप्युभयत्रप्रसिद्धा इति शब्दप्रयोगात्सूचितमित्यग्रे व्यक्तम् । कण्ठोक्तमेव फलमुखलक्षणं विवृणोति ॥ अत एवेति ॥ उभयोपस्थापकत्वा-देवेत्यर्थः । यद्वा साधारण्यादेवेत्यर्थः । यद्वक्ष्यति ‘‘इतरयोर्हेतुमूलत्वात्’’ इति । समन्वयस्य ब्रह्मैव शक्तितात्पर्यविषय इत्येवंरूपस्य । एतेन ‘येषां प्रसिद्धिः’ इति श्लोको विवृतः । अन्यत्र प्रसिद्धानां त्रिविधान्यपि लक्षणानि व्यनक्ति ॥ येषां त्विति ॥ लोकेति इन्द्राकाशादिशब्दाशयेन । आदिपदस्य सर्वगतत्वादेः श्रुत्यादिसाहचर्येण वस्त्वन्तरे प्रसिद्धेः सत्त्वादित्यर्थः ॥ वृत्त्यादिकमिति ॥ वृत्तितात्पर्ये इत्यर्थः । एतेन ‘‘श्रुत्यादितो लोकतो वा’’ इत्यर्धं विवृतम् । अन्यत्र प्रसिद्धपदप्रयोगसूचितं स्वरूपमुखलक्षणं विवृणोति ॥ अत एवेति ॥ ब्रह्मणि वृत्त्यभावादेवेत्यर्थः । फलमुखं तदाह ॥ अत एव चेति ॥ अन्यमात्रोपस्थापकत्वादेवेत्यर्थः । न तु ब्रह्मपरत्वस्यात्यशक्यत्वेनापीत्येवकारार्थः । एतेन ‘‘येषां ब्रह्मणि’’ इति श्लोको व्याख्यातः ।

अन्यत्रैव प्रसिद्धानां त्रिविधान्यपि लक्षणानि स्पष्टयति ॥ येषां पुनरिति ॥ तत्परत्वे वस्त्वन्तरपरत्वे । एतच्चाव्यक्तादिशब्दाभिप्रायेण । एतेन बलवदित्यर्धं विवृतम् । स्वरूप-मुखं तदाह ॥ अत एवेति ॥ अन्यपरत्वे प्रबलश्रुत्याद्युपेतत्वादेवेत्यर्थः ॥ आपातत इति ॥ विमर्शे सति विष्णुमात्रोपस्थापकत्वादिति सर्वत्र बोध्यम् । फलमुखं तदाह ॥ अत एवेति ॥ अत्यन्तमन्यमात्रोपस्थापकत्वादेवेत्यर्थः । पूर्ववद्वार्थः । एतेन येषामुक्तद्वयमिति श्लोको व्याख्यातः । नन्वत्र व्याख्याने साधारण्ये सत्यन्योपस्थापकत्वे सति ब्रह्मसमन्वय-प्रतिबन्धवत्त्वादिरूपं विशिष्टमेकैकस्योपाधेर्लक्षणं भाति । तदयुक्तम् । व्यावर्त्याभावादित्यत आह ॥ अत्र चेति ॥ सर्वत्रेति ॥ त्रिविधोपाधिलक्षणजात इत्यर्थः । मुखशब्दः प्रत्येकमन्वेति । तद्विविच्याह ॥ तत्र चेति ॥ आद्येन त्रयेणेत्यर्थः ॥ अत एवेत्यत इति ॥ आद्येभ्योऽत एवेत्येतेभ्य इत्यर्थः ॥ हेतुमुखमिति ॥ उभयप्रसिद्ध्यादौ ये हेतवः श्रुत्यन्तरादिसाधारण्यं लौकिकप्रयोगादिबलवत् श्रुत्यादिकं च ते एव मुखमुपजीव्यमेषां तानि हेतुमुखानि त्रिविधोपाधिलक्षणानीत्यर्थः । एवमग्रेऽपि । एकवचनं समुदायाभि-प्रायम् ॥ अवशिष्टेनेति ॥ द्वितीय ‘‘अत एव च’’ इत्येतैरित्यर्थः । त्रिविधलक्षणत्रये ज्ञापकं वदन् श्लोके स्वरूपमुखस्यानुक्तिशङ्कां च प्रत्याह ॥ तत्रेति ॥ प्रथमानि त्विति ॥ हेतुमुखानीत्यर्थः ॥ आद्यादीति ॥ आद्यद्वये तृतीयचतुर्थपादयोश्चेत्यर्थः । आद्ये ‘‘लोकतोऽन्यत्रप्रसिद्धाकाशनाम्नः’’ इत्यादिना, द्वितीये ‘‘लोकतोऽन्यत्र प्रसिद्धादित्य-श्रुतिसहपठितसर्वगतत्वलिङ्गात्मकशब्दस्य’’ इत्यादिना, तृतीये ‘‘रुद्रो वाव लोकाधारः लोकाश्च लोकिनश्चालोकाश्चालोकिनश्च विष्णावेवोताश्चेत्यादिनोभयत्र प्रसिद्धद्युभ्वा-द्यायतनत्वलिङ्गस्य’’ इत्यादिना, चतुर्थे ‘‘अवरत्वादिलिङ्गैर्भगवति विरुद्धतयाऽन्यत्रैव प्रसिद्धाव्यक्तादिशब्दानाम्’’ इत्यादिना त्रिविधप्रसिद्धिषु कारणभूतलोकप्रसिद्ध्यादीनां कीर्तनादित्यर्थः ॥ साधारण्यस्येति ॥ तृतीये पाद इति भावः ॥ अन्यत्रेति ॥ आद्यद्वितीयपादयोः ॥ अन्यत्रैवेति ॥ चतुर्थपादे ।

चन्द्रिकाबिन्दु

श्रुत्यन्तरेति ॥ विषयवाक्यातिरिक्ता श्रुतिः श्रुत्यन्तरम् । आदि-पदेन प्रवृत्तिनिमित्तकारणत्वयोर्ग्रहणम् । श्रुत्यन्तराद्यन्यतमेनोभयत्र प्रसिद्धिर्यस्य शब्दस्य स उभयत्रप्रसिद्धः । अन्यत्रप्रसिद्धिलक्षणमाह ॥ श्रुत्यादित इति ॥ आदिपदेन लिङ्गादीनां ग्रहणम् । श्रुत्यादिलोकान्यतरेण इतरत्र प्रसिद्धत्वमन्यत्रप्रसिद्धलक्षणम् । इदमपि हेतुमुखम् । अन्यत्रैवप्रसिद्धशब्दलक्षणमाह । बलवच्छ्रुतीति ॥ त्रयाणां फलमुखं लक्षणमाह ॥ यद्वा येषामिति ॥ येषां शब्दानां ब्रह्मणि प्रसिद्धावपि केवलमन्यत्रैव प्रसिद्धिः समन्वय-विरोधिनी ते उभयत्रप्रसिद्धाः, येषां शब्दानां ब्रह्मण्यप्रसिद्धिर् अन्यवस्तुषु प्रसिद्धिश्च समन्वयविरोधिनी तेऽन्यत्रप्रसिद्धाः । येषां ब्रह्मण्यप्रसिद्धिर् अन्यवस्तुषु प्रसिद्धिर् ब्रह्म-परत्वेऽत्यशक्यता तेऽन्यत्रैवप्रसिद्धा इति सङ्ग्रहार्थः । अत्र सङ्ग्रहे उभयत्रप्रसिद्धा इत्यनेन विषयवाक्ये उभयोपस्थितिजनकत्वम् उभयत्रप्रसिद्धस्य लक्षणम् । अन्यत्रप्रसिद्धा इत्यनेन विषयवाक्येऽन्योपस्थितिमात्रजनकत्वमन्यत्रप्रसिद्धलक्षणम् । अन्यत्रैव प्रसिद्धा इत्यनेन अत्यन्तमल्पमात्रोपस्थितिजनकत्वमन्यत्रैव प्रसिद्धस्य लक्षणं सूचितं भवतीत्यत्र स्वरूप-लक्षणकथनसमये स्वरूपलक्षणमिति कथ्यते ।

आदिशब्दार्थकथनपूर्वकं श्लोकार्थं कथयति ॥ येषामित्यादिना ॥ हिशब्दार्थमाह ॥ सम्मतमिति ॥ इदमपि लक्षणशरीरे निवेश्यम् । उभयत्र प्रसिद्धस्य स्वरूपलक्षणं दर्शयति ॥ अत एवेति ॥ तस्यैव फलमुखं लक्षणं दर्शयति ॥ अत एव चेति ॥ अन्यत्रप्रसिद्धस्य स्वरूपं लक्षणतो दर्शयति ॥ येषां त्विति ॥ तस्यैव स्वरूपफलमुखे लक्षणे कथयति अत एव इति द्वयेन ॥ अन्यत्रैवप्रसिद्धानां क्रमेण लक्षणत्रयं दर्शयति ॥ येषां पुनरित्यादिना ॥ किं लक्षणं केन भागेनोक्तमित्यतस्तं भागं स्वयमेव दर्शयति ॥ तत्र चाद्येनेत्यादिना ॥ स्वरूपलक्षणं भाष्ये स्वकृतसङ्ग्रहभाष्ये च सूचितमित्याह ॥ तत्र स्वरूपेति ॥ प्रथमानि हेतुमुखानि लक्षणानि । समन्वयप्रतिबन्धे तारतम्यं सूचयतष् टीकाकारस्य फलमुख-लक्षणान्यभिप्रेतानीत्याह ॥ तृतीयान्यपीत्यादिना । त्रिविधलक्षणकथनस्यापि शक्यतां वार्तिकसम्मत्या आह ॥ उक्तं हीति ॥ हेतुरूपफलैर् हेतुस्वरूपफलैः । पृथक् प्रविविक्तानि लक्षणानि यः वेद स तत्स्वरूपं सम्यग्जानातीत्यर्थः ।

पाण्डुरङ्गि

लक्षणासम्भवमुक्तं परिहरति ॥ उच्यत इत्यादिना ॥ नन्वन्यत्र प्रसिद्धानां समन्वयस्य प्रथमपादे उक्तत्वात्तत्क्रमेणैव लक्षणानि वक्तव्यानि । एवं चादा-वुभयत्र प्रसिद्धानामन्यत्रान्यत्रैव प्रसिद्धानामिति क्रमोल्लङ्घने को हेतुरिति चेन्न । उभयत्र प्रसिद्धानामन्यत्रप्रसिद्धिसाङ्कर्यस्य पश्चादुक्तत्वेन बुद्धिस्थत्वात्तल्लक्षणस्य प्रथमत उक्तिः । यद्वा उभयत्र प्रसिद्धानामन्यत्र प्रसिद्धत्वस्य सत्त्वात्तेषां साङ्कर्यं दुष्परिहरमिति प्रथमं शिष्यजिज्ञासाविषयत्वात् प्रथमतस्तदुक्तिरिति । हेतुमुखानि लक्षणान्युक्त्वा फलमुखान्याह ॥ यद्वेति ॥

ननु नोभयत्रप्रसिद्धानामन्यत्रप्रसिद्धैः साङ्कर्यपरिहारः । अन्यत्रप्रसिद्धानामपि पूर्वोत्तर-पक्षश्रुत्यादिनोभयत्रप्रसिद्धत्वात् । किञ्चाव्यक्तादिशब्दानामप्यन्यत्र प्रसिद्धिसाधकश्रुत्यादे-रुक्तस्य विष्णावसम्भाव्यमानत्वरूपबलवत्त्वस्यान्यत्र प्रसिद्धेष्वपि पूर्वपक्ष्युक्तरीत्या सत्त्वेन न तेषामप्यन्योन्यमसाङ्कर्यम् । श्रुत्यन्तरादिभिरित्यत्रादिपदश्च व्यर्थ इत्यतः कारिकां व्याचष्टे ॥ येषामिति ॥ व्यक्तिविशेषनिर्णयायेति ॥ अस्य शब्दस्य वाच्यो व्यक्ति-विशेषोऽयमिति निर्णयायेत्यर्थः । आदिपदेन प्रयोगकारणत्वादिपरिग्रहः ॥ अत एवेति ॥ उभयत्र प्रयोगादेवेत्यर्थः ॥ अत एवेति ॥ अन्यमात्रोपस्थितेर्विरोधित्वादेवेत्यर्थः । तथा चोभयत्रप्रसिद्धेषु श्रुत्या तौल्यस्योभयसिद्धत्वात्तेषु सम्मत्यभावान्न साङ्कर्यमिति भावः ॥ अत एवेति ॥ ब्रह्मणि वृत्तेरसम्मतत्वादेवेत्यर्थः ॥ अत एव चेति ॥ अन्यमात्रोप-स्थापकत्वादेवेत्यर्थः ॥ अत एवेति ॥ अन्यत्र प्रबलश्रुतेः सत्त्वादेवेत्यर्थः ॥ अत एवेति ॥ अत्यन्तमन्यमात्रोपस्थापकत्वादेवेत्यर्थः ।

नन्वेतेषामेकैकमेव लक्षणीयमिति प्रतीयते । तथैवेति चेन्न । व्यर्थविशेषणत्वापत्तेरित्यत आह ॥ अत्र चेति ॥ सङ्ग्रहव्याख्यान इत्यर्थः । ‘‘प्रवृत्तिनिमित्तादिसाधारण्यम्’’ इत्यनेन सङ्ग्रहश्लोकस्थश्रुत्यन्तरादिभिस्तुल्येत्यादिशब्दस्यार्थ उक्तो भवति । हेतुरूपफलमुखानि कियता ग्रन्थेनोक्तानीत्यत आह ॥ तत्र चेति ॥ ननु भाष्यटीकासङ्ग्रहेष्वनुक्तानि कथमेता-न्युच्यन्त इत्यत आह ॥ तत्रेति ॥ अत्राभियुक्तसम्मतिमाह ॥ उक्तं हीति ॥ य इति ॥ हेतुस्वरूपफलप्रविभक्तानि तानि लक्षणानि यो वेदेति पूर्वेण वाक्यशेषगतेन वेदेत्यनेनान्वयः ।