०९ यादवप्रकाशीयमतपरीक्षा

यादवप्रकाशीये तु ‘‘स्वाप्ययात्’’ इत्यस्य ..

यादवप्रकाशीयमतपरीक्षा

तात्पर्यचन्द्रिका

यादवप्रकाशीये तु ‘‘स्वाप्ययात्’’ इत्यस्य ‘‘सता सोम्य तदा सम्पन्नो भवति’’ इति वाक्यं विषयः । ‘‘गतिसामान्यात्’’ इत्यस्य तु ‘‘सति सम्पद्य न विदुः सति सम्पत्स्यामहे’’ इति वाक्यं विषय इत्युक्तम् । तन्न । वाक्यभेदेन सूत्रभेदेऽति-प्रसङ्गात् ॥ टीकाक्षरार्थस्तु ॥ न तच्छब्दगोचरमिति युक्तमिति ॥ उपलक्षणं चैतत् । शब्दानां गवां ज्ञानानां च चरश्चरणं वृत्तिर्यस्मिन् तच्छब्दगोचरमिति व्यधिकरणबहुव्रीहिं वा, चरश्चरणमस्यास्तीति मत्वर्थीयाच्प्रत्ययान्तत्वं वाऽऽश्रित्य शब्दगोचरमित्यस्य साधुत्वं द्रष्टव्यम् । ततश्च ‘‘यतो वाचः’’ इत्यादिश्रुतौ मनसा सहेत्यदृश्यत्वस्याप्युक्तत्वादीक्षणीयत्वमसिद्धमिति पूर्वपक्ष्यभिप्रायः ।

पूर्वमर्थापत्तिपरतया व्याख्यातम् । इदानीं परिशेषपरतया व्याचष्टे ॥ परिशेष-प्रमाणेन वेति ॥ यद्यपि स्वमतेऽर्थापत्तिपरिशेषयोरनुमानता तथापि तयोर्भेदमुपेत्य वाऽनुमानत्वावान्तरभेदमाश्रित्य वा पक्षान्तरोक्तिः ॥ श्रुतिस्मृती चाहेति ॥ श्रुतावामनन्तीति साक्षाद्वाच्यत्वोक्तेः । स्मृतौ चाहमेवेत्यवधारणोपपत्तये मुख्यतया वेद्यत्वस्य विवक्षणीयत्वात् । तस्य च वाच्यत्वं विनाऽयोगात् । सर्ववेदलक्षणाया अयोगाच्च वाच्यत्वसिद्धिरिति भावः ।

प्रकाशिका

उक्तमतद्वयदूषणेनैव यादवप्रकाशाधिकरणप्रमेयमपि निरस्तप्रायं मन्वानोऽधिकं वक्तुमाह ॥ यादवेति ॥ एकार्थकवाक्यभेदमात्रेण सूत्रभेदे जिज्ञासादि-सूत्रभेदः स्यात् । जिज्ञासावाक्यानां कारणादिवाक्यानां च नानात्वादित्यर्थः । एतेन ‘‘सदेव’’ इत्यादौ ‘‘बहुस्याम्’’ इति परिणामश्रवणात्साङ्ख्योक्तं प्रधानमिति प्राप्ते ईक्षणात्मशब्दादेः शिव एव सत्पदवाच्यं कारणमिति सिद्धान्त इति केनचिदुक्तं निरस्तम् । समन्वयासङ्गतेः । सदीक्षतेरिति विन्यासापत्तेश्च । शिवकारणत्वस्योक्तवक्ष्यमाणानेकमानैः पत्युरधिकरणेन च विरोधाच्च । ईक्षतिकर्मेत्यत्रास्य वाक्यस्य विष्णुपरताया वक्ष्यमाण-त्वाच्च । ‘‘सर्वोत्तमत्वात्सन्नामा हरिर्नारायणः प्रभुः’’ इत्यादिना छान्दोग्यभाष्ये षष्ठे प्रमाणेनैवास्य वाक्यस्य विष्णुपरतया व्याख्यातत्वाच्च ।

‘‘तेजोभिमानवान् ब्रह्मा वायुश्चाबभिमानवान् ।

रुद्रः क्षित्यभिमानी चाप्येतन्मयमिदं जगत् ॥

इत्यादिना ‘‘इत्यादि ब्रह्माण्डे’’ इत्यन्तेन बृहदारण्यकभाष्ये प्रथमेऽध्यायेऽस्य प्रकरणस्य विष्णुपरतया स्पष्टमुक्तत्वाच्च । ‘‘साधुत्वात्सन् हरिः स्मृतः’’ इत्याद्यनेक-मानोदाहरणेनास्य प्रकरणस्य विष्णुपरतायास्तत्वनिर्णयेऽप्युक्तत्वाच्च । कारणत्वोपा-दानत्वयोः प्रधाने सत्त्वेन तन्निरासायोगाच्च । कर्तृत्वस्य साङ्ख्येनानङ्गीकाराच्च । केवलप्रधाने तयोरभावे केवले शिवे तदभावस्य सुवचत्वाच्च । अशब्दमानुमानिकं न प्रधानं जगत्कारणमित्यध्याहाराद्यापाताच्च । गौण इति पुल्लिङ्गायोगाच्च । प्रागुक्तवचनैर्भाष्योक्त-दिशा चात्मशब्दस्य विष्णावेव मुख्यतया शिवपरत्वायोगाच्च । यदपि मास्त्वचेतनं सत्पदवाच्यम् । जीवस्तु स्यात् । ईक्षणात्मशब्दादेस्तत्र सम्भवादित्यतस्तन्निष्ठस्येति सूत्रमिति तदपि न । बहुस्यामिति प्रथमश्रुतबहुभवनविरोधेन जीवशङ्कानुदयात् । साङ्ख्येन जीवकारणत्वानङ्गीकाराच्च । शिवस्यापि प्रागुक्तदिशा जन्मादिमत्तया जीवत्वेन ‘‘परो हि पुरुषो विष्णुस्तस्मान्मोक्षः’’ इति भाष्योक्तस्मृतिविरोधेन तन्निष्ठस्य मोक्षायोगाच्च । सूत्रान्तराण्यप्युक्तदिशा दूषितप्रायाणीति यत्किञ्चिदेतत् ।

न केवलं टीकोक्तदिशा प्रयोगवशादेव साधुत्वं किन्तु ‘‘यदि तत्स्यादगोचरम्’’ इत्यनु-व्याख्यानसुधोक्तदिशाऽवयववृत्त्या विशेष्यनिघ्नतयापीति भावेनाह ॥ उपलक्षणमिति ॥ गवामित्यस्यार्थो ज्ञानानामिति ॥ चरश्चरणमिति ॥ चरतेस्तृतीये ‘‘ग्रहवृदृनिश्चिगमश्चे’’ति सूत्रे ‘‘घञर्थेकविधान’’मिति वार्तिकोक्त्या कप्रत्यये रूपम् । ‘‘गोचरसञ्चरवहव्रज-व्यजापणनिगमाश्च’’ इति सूत्रे मञ्जर्यां ‘‘रूढशब्दोऽयं विषयपर्यायः । तस्य यथा-कथञ्चिन्निर्वचनम्’’ इत्युक्तेरिति भावः ॥ व्यधिकरणेति ॥ ‘‘सप्तमीविशेषणे बहुव्रीहौ’’ इत्यत्र द्वितीये ज्ञापितत्वादिति भावः ॥ अच्प्रत्ययेति ॥ ‘‘अर्शआदिभ्योऽच्’’ इति सूत्रादिति भावः । तेन ‘‘गवां ज्ञानानां चरो वृत्तिरस्मिन्निति गोचरम्’’ इति सुधावाक्यं द्वेधा योज्यमित्युक्तं भवति ।

एवमाश्रयणस्य फलान्तरमप्याह ॥ ततश्चेति ॥ अत एव सिद्धान्तेऽज्ञेयत्वस्य गत्युक्तिर्भाष्य इति भावः । एतेन कस्यचिदसाधुत्वकल्पनं प्रत्युक्तं बोध्यम् । अकुशलता च भाष्यकृतो निरस्ता । एतत्प्रयोजनाशयेन तदुक्तेरिति । ‘‘परिशेष’’ इत्यादेरुद्ग्रन्थत्वभ्रमं निराह ॥ पूर्वमिति ॥ ‘‘औपनिषदत्वात्’’ इति भाष्यमिति शेषः ॥ भेदमिति ॥ पररीत्येति भावः । नन्ववाच्यत्वनिरासाय ‘‘श्रुतिस्मृती चाह’’ इति टीका न युक्ता । श्रुत्यादौ वाच्यत्वस्यावाच्यत्वनिरासस्य वाऽप्रतीतेरित्यत आह ॥ श्रुतीति ॥ आङो मुख्यार्थत्वादिति भावः ॥ अवधारणेति ॥ स्वस्यामुख्यत्वे मुख्यान्तरे वा सति तदयोगादित्यर्थः । ननु सर्वैर्वेदैरहमेव लक्षणया वेद्य इत्यर्थः स्यादित्यत आह ॥ सर्वेति ॥ अनवस्थापातादिति भावः ।

चन्द्रिकाबिन्दु

यादवप्रकाशीये त्विति ॥ सूत्रद्वये विषयवाक्यप्रदर्शनमेव विशेषः । अन्यत्सर्वं रामानुजमतसमानम् । व्यधिकरणबहुव्रीहेर्दूषितत्वात् पक्षान्तरमाह ॥ चरश्चरणमिति ॥ एवं व्युत्पत्त्याश्रयणे गोचरत्वं ज्ञेयत्वं लब्धम् । शब्दगोचरं नेति निषेधे तु शब्दवाच्यत्वं च ज्ञानार्थत्वं च लभ्यते । न ज्ञानविषयत्वमपि भाष्यकारसम्मतमित्यत्र ज्ञापकमाह ॥ ततश्चेति ।

पाण्डुरङ्गि

ननु गोचरशब्दस्य नित्यपुल्लिङ्गत्वेन न शब्दगोचर इति भाष्ये वक्तव्यम् । शब्दगोचरमिति कथमुक्तमित्यतस् तत्समाधानार्थं टीकायां ‘‘त्रयी न श्रुतिगोचरेति गोचरशब्दस्य विशेष्यलिङ्गतया प्रयोगात् ‘‘न तच्छब्दगोचरम्’’ इति युक्तम्’’ इत्युक्तम् । तथा च सिद्धान्त्यभिप्रेतवाच्यत्वसाधकेक्षणीयत्वस्यासिद्धिः कथं शब्देनेक्षणासम्भवेऽपि मनसेक्षणीयत्वसम्भवादित्यत ईक्षणीयत्वासिद्धिकथनपरतया तद्व्याचष्टे ॥ उपलक्षणं चैतदिति ॥ वृत्तिरिति ॥ शब्दपरत्वे वृत्तिर्वाच्यवाचकभावसम्बन्धः, ज्ञानपक्षे विषयविषयिभाव इति भावः ।

नन्वत्र शब्दवाच्यत्वमात्रस्यैव वक्तव्यत्वेन ‘शब्दगोचरं न’ इत्यनेन ज्ञानाविषय-त्वोपपादनमसङ्गतं, पूर्वपक्ष्यनभिप्रेतत्वादित्यत आह ॥ ततश्चेति ॥ ननु ‘‘परिशेषप्रमाणेन वाच्यत्वं साध्यत’’ इति टीकायां वाच्यत्वसाधनार्थं स्वयमेव प्रमाणान्तरमुच्यत इति प्रतीयते । तदयुक्तम् । भाष्यानारूढस्य स्वेन वक्तुमनुचितत्वादित्यतो भाष्यारूढ-मेवैतदित्याह ॥ पूर्वमिति ॥ ‘‘श्रुतिस्मृती चाह’’ इति टीकायां भाष्यकारेण वाच्यत्व-समर्थनार्थं श्रुतिस्मृती उदाहृते इत्युक्तम् । तत्र श्रुतौ वाच्यत्वप्रत्यायकपक्षाभावात् स्मृतावप्युक्तस्य वेद्यत्वस्य लक्षणयापि सम्भवात्कथं तयोरुदाहरणमित्यत आह ॥ श्रुताविति ॥ आङ्पूर्वकम्नाधात्वर्थस्य सम्यगभ्यसनस्य वाच्यत्वं विनाऽसम्भवादिति भावः । तथा च स्मृतावपि लक्ष्यत्वेऽन्यस्य वाच्यत्वं वक्तव्यं, तथा चावधारणानुपपत्तिरिति भावः । ननु लक्ष्यत्वेऽपि वेदतात्पर्यविषयत्वान्मुख्यवेद्यत्वं भविष्यतीत्यत आह ॥ सर्वेति ॥