एतेन इदमधिकरणं प्रधानादेर्जडस्य हेतुत्वनिरासकमिति केषाञ्चित्पक्षोप्यपास्तः
विशिष्टाद्वैतमतपरीक्षा
तात्पर्यचन्द्रिका
एतेन इदमधिकरणं प्रधानादेर्जडस्य हेतुत्वनिरासकमिति केषाञ्चित्पक्षोप्यपास्तः । समन्वयासङ्गत्यादेः । किञ्च न तावत्प्रधानस्य कारणत्वमुपादानत्वं वा निरसितु-मिदमधिकरणम् । तयोस्त्वन्मतेऽपि प्रधाने सत्त्वात् । उक्तं हि ‘‘तदधीनत्वात्’’ इति सूत्रे त्वयैव ‘‘न वयमव्यक्तं तत्परिणामविशेषांश्च स्वरूपेण नाभ्युपगच्छामः । अपि तु परमपुरुषशरीरतया तदात्मकत्वविरहेण’’ इति । यथा च प्रधानं केवलमकारणं तथा ब्रह्मापि । विशिष्टस्यैव कारणत्वात् । नापि प्रधानस्य वाक्यान्त-रात्कारणत्वेऽपि ‘‘सदेव सोम्येदम्’’ इत्यादिसद्विद्याया ब्रह्मकारणत्वपरत्वमिति वक्तुमिदम् । ‘‘यदि सद्विद्या ब्रह्मपरा तदा तदैकार्थ्यात्सर्वाणि कारणवाक्यानि ब्रह्मपराणि’’ इति त्वयैवोक्तत्वात् । अन्यथेक्षत्यधिकरणं कारणस्याचित्त्व-निरासकमिति त्वदभिप्रेतस्यासिद्धेः ।
न च सर्वेषां कारणवाक्यानां ब्रह्मपरत्वेपि प्रधानकारणताया मानान्तरात्सिद्धिः । कारणस्य शास्त्रयोनित्वात् । नापि प्रधानस्येश्वरनियम्यत्वादिरूपतच्छरीरत्व-निरूपणार्थमिदम् । अत्र तदप्रतीतेः । अन्तर्याम्यधिकरणे तदधीनत्वादित्यादावन्यत्रैव तन्निरूपणाच्च । नापि प्रधानस्य कर्तृत्वं वा कर्तृत्वे सत्युपादानत्वं वा निरसितुमिदम् । तयोः प्रधाने साङ्ख्येनाप्यनङ्गीकारात् । प्रकृत्यधिकरणेन पुनरुक्तेश्च । किञ्च त्वत्पक्षे शास्त्रयोनिसूत्रे वेदान्तानामनुमानप्राप्तकारणानुवादित्वेनाविचार्यत्वमिति पूर्वपक्ष-वदिहापि साङ्ख्यस्मृतिप्राप्तानुवादित्वेनाविचार्यत्वमिति पूर्वपक्षसम्भवादिदमधिकरणं चतुस्सूत्रीवच्छास्त्रारम्भसमर्थनार्थं सत्समन्वयसूत्रात्पूर्वं स्यात् ।
प्रकाशिका
॥ एतेनेति ॥ सदेवेत्यादिवाक्यबोध्यं प्रधानमुत ब्रह्मेति संशये ‘‘येनाश्रुतं श्रुतं भवति’’ इति ‘‘यथा सोम्यैकेन मृत्पिण्डेन’’ इत्याद्यनुमानाकारवाक्य-प्रतिपाद्यस्यानुमानिकत्वावगमात्प्रधानमेव । न चेक्षणायोगः । तेजःप्रभृतिगतगौणेक्षण-साहचर्येण गौणत्वादिति प्राप्ते ईक्षणान्वयाद् ब्रह्मैव । न चानुमानिकत्वावगमविरोधः । येनाश्रुतमित्यादौ हेत्वनुपादानेनानुमानाकारत्वाभावात् । न च यथा सोम्यैकेनेत्यादि-दृष्टान्तेनैवास्यानुमानाकारत्वसिद्धिः । तस्यान्यज्ञानेनान्यज्ञानासम्भवशङ्कासमाधानार्थ-तयान्यथासिद्धत्वात् ।
न चेक्षणं गौणमिति वाच्यम् । तदैक्षतेतीक्षितरि ‘‘ऐतदात्म्यमिदं सर्वः’’ इति चेतन-वाच्यात्मशब्दात् ‘‘तत्वमसि’’ इति सदात्मतया प्रत्यगात्मानुसन्धाननिष्ठस्य ‘‘तस्य तावदेवचिरम्’’ इति मोक्षोपदेशाच्च । हेयत्वावचनाच्च सद्ब्रह्मैव । प्रधानस्य मोक्षविरोधित्वेन हेयत्ववचनप्रसङ्गात् । ‘‘सता सोम्ये’’ति जीवस्य स्वकारणे सत्यप्यस्य श्रवणात् प्रधानस्य जीवकारणत्वाभावाद् अन्योपनिषत्सु ‘‘तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते’’ इति, ‘‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’’ इति च पुरुषोत्तमस्यैव हेतुत्वोक्त्या तद्गतिसामान्यादत्राप्यात्मन एवेदं सर्वमिति ब्रह्मकारणत्वस्य श्रुतत्वाच्चेति सिद्धान्त इत्याहुरित्यर्थः । एतेनेत्युक्तं व्यनक्ति ॥ समन्वयेति ॥ सूत्राक्षरार्थासामञ्जस्यादिरादि-पदार्थः ।
अधिकरणप्रमेयं निराह ॥ किञ्चेति ॥ प्रधानस्य कारणत्वं वोपादानत्वं वा वाक्यान्तरसिद्धकारणत्वेऽप्येतद्वाक्यबोध्यत्वं वा भगवदशरीरत्वं वा कर्तृत्वं वा कर्तृत्वे सत्युपादानत्वं वा निरस्यत इति विकल्प्याद्यद्वितीयौ निराह ॥ न तावदिति ॥ विशिष्टस्येति ॥ प्रधानादिना । तृतीयं निरस्यति ॥ नापीति ॥ सर्वाणीति ॥ तथा च न क्वापि प्रधानस्य कारणत्वसिद्धिरिति भावः ॥ अचित्त्वेति ॥ एतच्च कारणवाक्येषु सर्वत्र जडं नोच्यत इत्यर्थसमर्थनपरत्व एवास्याधिकरणस्य सम्भवतीति भावः ।
ननु कारणवाक्यमात्राबोध्यस्याप्यनुमानादिना कारणत्वसिद्धिरित्याशङ्क्य समाधि-माह ॥ न चेति ॥ चतुर्थं प्रत्याह ॥ नापीति ॥ पञ्चमषष्ठौ प्रत्याचष्टे ॥ नापि प्रधान-स्येति ॥ पुनरुक्तेश्चेति ॥ ‘‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’’ इत्यत्र कर्तृत्वे सत्युपादानत्वस्य ब्रह्मण एवोक्तत्वादिति भावः । अधिकरणक्रमं निराह ॥ किञ्चेति ॥ चतुरधिकरण्याः ‘‘व्युत्पत्त्यभावः प्रतिपत्तिदौस्थ्यम्’’ इत्यादिनाऽरम्भार्थत्वोक्तेरस्यापि तदन्तर्भावः । तत्रापि शास्त्रयोनिसूत्रेणैकार्थ्यात्तदानन्तर्यमेव स्यात् । तथा च पञ्चानामपि तदारम्भोपयुक्तत्वमेवोपपन्नमिति भावः ।
चन्द्रिकाबिन्दु
अपि त्विति ॥ परमपुरुषानात्मकतयैव प्रधानं नाभ्युपगच्छामस् तस्य तच्छरीरत्वात् ॥
पाण्डुरङ्गि
अतिदेशेन रामानुजमतं दूषयति ॥ एतेनेति ॥ अतिदेशार्थमाह ॥ समन्वयासङ्गत्यादेरिति ॥ समन्वयाध्याये समन्वयसूत्रोक्तलक्षणासम्भवनिरासके प्रथमपादे चातिव्याप्तिनिरासकस्यासङ्गतेः । समन्वयप्रतिपादने तु स ईक्षतेरिति निर्देशापत्तेरित्यर्थः । प्रधानस्य कारणत्वमात्रनिरासकेक्षितृत्वाद्ययोगो वाऽऽदिशब्दार्थः । ननु न समन्वया-सङ्गतिः । प्रधानकारणत्वनिरासद्वारेण ब्रह्मकारणत्वप्रतिपादनेन कारणवाक्यसमन्वय-प्रतिपादकत्वात् । नापीक्षितृत्वाद्यनुपपत्तिः । सदेवेत्यादिवाक्यं न प्रधानकारणत्वपरम् । ईक्षणप्रतिपादकत्वात् । तथा च नासङ्गत्यादिकमित्यत आह ॥ किञ्चेति ॥ किमत्र प्रधानस्य कारणत्वमेव निरस्यते किं वा सद्विद्यायां ब्रह्मकारणत्वं प्रतिपाद्यते उत प्रधान-स्येश्वरशरीरत्वं यद्वा प्रधानस्य कर्तृत्वे सत्युपादानत्वाभावः । तत्र नाद्य इत्याह ॥ न तावदिति ॥
ननु प्रधानस्वरूपमेव नाङ्गीक्रियते । तथा च कारणत्वोपादानत्वयोः कथं प्रधाने सत्त्वादित्युच्यत इत्यत आह ॥ उक्तं हीति ॥ तदात्मकत्वेति ॥ तदात्मकत्वविरहेण नाभ्युपगच्छामः किन्तु तदात्मकत्वेन । तदात्मकत्वमपि कीदृशमित्यत उक्तं परमपुरुष-शरीरतयेति । तथा च तदात्मकत्वं तत्स्वामिकत्वं तन्नियम्यत्वं तद्विरहेण स्वातन्त्र्येण साङ्ख्यवन्नाभ्युपगच्छाम इत्यर्थः ।
ननु प्रधानस्य परमपुरुषशरीरतया कारणत्वेपि केवलस्य तन्निषिध्यत इत्यत आह ॥ यथा चेति ॥ कुतो नेत्यत आह ॥ विशिष्टस्यैवेति ॥ शुद्धस्य निर्धर्मकत्वेन कारणत्वाद्यभावादिति भावः । द्वितीयं प्रत्याह ॥ नापीति ॥ यदीति ॥ तथा च वाक्यान्तरे प्रधानस्य कारणत्वेन प्रतिपादितत्वाङ्गीकारे व्याहतिरिति भावः ॥ अन्यथेति ॥ कारणवाक्यमात्रस्य ब्रह्मपरत्वानङ्गीकार इत्यर्थः ॥ न चेति ॥ तथा च मानान्तरेण प्रधानकारणतायाः सिद्धत्वान्न व्याहतिरिति भावः । तृतीयं दूषयति ॥ नापीति ॥ अत्र तदप्रतीतेरिति ॥ अस्मिन्नधिकरणे प्रधानस्येश्वरशरीरत्वप्रतिपादकत्वाद्य-प्रतीतेरित्यर्थः । ननु प्रधानस्येश्वरशरीरत्वनिरूपणाभावे तदभावापातेन शरीरत्वप्रतिपादक-श्रुत्यादिविरोध इत्यत आह ॥ अन्तर्यामीति ॥ चतुर्थं प्रत्याह ॥ नापीति ॥ तयोरिति ॥ यद्यपि साङ्ख्येन प्रधाने कर्तृत्वादिकमङ्गीकृतं तथाप्युपादानगोचरापरोक्षज्ञप्तिचिकीर्षा-कृतिमत्त्वरूपं तन्नाङ्गीकृतमित्याशयः । यद्वैतदस्वरसादाह ॥ प्रकृतीति ॥ ननु न पौनरुक्त्यं वेदान्ता न विचार्याः साङ्ख्यस्मृतिप्राप्तकारणानुवादित्वादित्यविचार्यत्वेन पूर्वपक्षिते विचार्यत्वप्रतिपादनार्थमेतदधिकरणमित्यरुचेराह ॥ किञ्चेति ॥