०७ अद्वैताभिमतपूर्वपक्षसिद्धान्तपरीक्षा

तत्र किं विशिष्टस्य परिणामित्वमेतद्वाक्यबोध्यमिति

अद्वैताभिमतपूर्वपक्षसिद्धान्तपरीक्षा

तात्पर्यचन्द्रिका

तत्र किं विशिष्टस्य परिणामित्वमेतद्वाक्यबोध्यमिति सिद्धान्त्यते किं वा कर्तृत्वं बोध्यमिति । यद्वा शुद्धस्य भ्रमाधिष्ठानत्वं बोध्यमिति । नाद्यद्वितीयौ । विशिष्टे सदेवेत्यादिवाक्योक्तसत्त्वाद्ययोगात् । पूर्वसूत्रेऽखण्डे समन्वयस्यैव प्रतिज्ञातत्वेनात्रा-खण्डस्यैव वक्तव्यत्वाच्च । द्वितीये वैयधिकरण्यं च । न हि प्रधानं परिणामीति प्राप्ते ब्रह्म कर्त्रिति सिद्धान्तो युक्तः । अत एव न तृतीयः । प्रधानं परिणामीति प्राप्ते ब्रह्माधिष्ठानमित्यस्य व्यधिकरणत्वात् । कथञ्चिदवैयधिकरण्येऽपि ‘‘तदैक्षत सेयं देवतैक्षत नामरूपे व्याकरोत्’’ इत्यादिकमयुक्तं स्यात् । तस्य लक्षणया चिन्मात्रपरत्वे च सर्वमपि लक्षणया प्रधानपरं स्यात् । सूत्र ईक्षतेरित्यादि हेतूक्तिश्च न स्यात् । न च तात्पर्याविषयेणेक्षणेन प्रधाननिरासः । अपि चात्र सदेवेत्यादिवाक्यसमन्व योक्तिश्चेदानन्दमयोऽभ्यासादित्यादिवत् ‘सदीक्षतेः’ इति सूत्रं स्यात् । प्रधानस्य शाब्दत्वनिरासमात्रं चेदिदमधिकरणं तन्निरासके चतुर्थपादे स्यात् ।

प्रकाशिका

तत्र सूत्रार्थमग्रे निरसिष्यन् सिद्धान्तप्रमेयं निराचिकीर्षुर्विकल्पयति ॥ तत्रेति ॥ बहुस्यामिति ऐक्षतेति च श्रवणात्पक्षद्वयम् । बहुस्यामिति श्रुतमुपादानत्वं न परिणामित्वम् । अविकारित्वात् किन्त्वारोपाधिष्ठानत्वमेव वाच्यमिति भावेनाह ॥ शुद्धस्येति ॥ सत्त्वादीति ॥ आदिपदेनाद्वितीयत्वादेर्ग्रहः । विशिष्टस्य मिथ्यात्वादिति भावः। नन्वत्र सत्त्वं न पारमार्थिकमिति चेन्न । लयकालीनत्वात्तदाव्यावहारिकस्य सर्वस्य विलयाद् अद्वितीयत्वादेरयोगाच्च । दोषान्तरमाह ॥ पूर्वसूत्र इति ॥ अत्र सदेवेति वाक्ये एतदधिकरणे च । अन्यथा प्रतिज्ञाव्याकोप इत्यर्थः । कर्तृत्वपक्षे दोषान्तरं चाह ॥ द्वितीय इति ॥ तद्व्यनक्ति ॥ न हीति ॥ पूर्वपक्ष्युक्तस्यानिरासादिति भावः । अतः शब्दार्थमेवाह ॥ प्रधानमिति ॥ ब्रह्मपरिणामीत्यस्यैव वाच्यत्वादिति भावः ।

ननु प्रधानं कारणतयैतद्वाक्यबोध्यमिति प्राप्ते ब्रह्मैवात्रेक्षणश्रवणादिति सिद्धान्त्यते । अतो न दोष इत्यत आह ॥ कथञ्चिदिति ॥ अयुक्तमिति ॥ शुद्धस्येक्षणरूपतयैक्षते-त्युक्तेक्षितृत्वं नामादिव्याकर्तृत्वं चायुक्तमित्यर्थः । ननु इयं श्रुतिर्नेक्षितृत्वपरा । येनायुक्तता । किन्तु लक्षणया चिन्मात्रपरेत्याशङ्क्य तर्हि पूर्वपक्षभङ्ग इत्याह ॥ तस्येति ॥ सूत्रार्थानपि निराचिकीर्षुराह ॥ अपि चेति ॥ तत्राद्यसूत्रं स्वपक्षसाधकं परपक्षनिरासकं वेति विकल्प्य क्रमेण निराह ॥ अत्रेति ॥ सदिति ॥ सच्छब्दस्यैव समन्वयादिति भावः ॥ प्रधानस्येति ॥ ‘‘प्रधानं न जगत्कारणम् अशब्दं हि तत् तदेव कुत ईक्षतेः’’ इत्युक्तेरिति भावः ॥ तन्निरासक इति ॥

चन्द्रिकाबिन्दु

विशिष्ट इति ॥ तस्य मिथ्यात्वादिति भावः । वैयधिकरण्यमेवाह ॥ न हीति ॥ ननु सदेवेत्यादिवाक्यं प्रधानस्य जगदुपादानत्वप्रतिपादकमिति पूर्वपक्षे प्राप्ते ब्रह्मणः प्रपञ्चारोपाधिष्ठानत्वं प्रतिपादयतीत्युक्ते सामानाधिकरण्यमेव एकवाक्यनिष्ठत्वा-द्विचारस्येत्यत आह ॥ कथञ्चिदिति ॥ न चेति ॥ वस्तुतो ब्रह्मणीक्षणसम्भवादिति भावः ।

पाण्डुरङ्गि

सत्त्वाद्ययोगादिति ॥ आदिपदेन ‘‘एकमेवाद्वितीयम्’’ इत्यादि-वाक्योक्ताद्वितीयत्वादिपरामर्शः । ननु विशिष्टे वस्तुतः सत्त्वाद्यभावेऽपि कल्पितं तदस्तीति वाक्यस्य तत्परत्वं स्यादित्यत आह ॥ पूर्वसूत्रेति ॥ तथा च क्रमासङ्गतिरिति भावः ॥ वैयधिकरण्यं चेति ॥ परिणामित्वेन कारणत्वं प्रधानस्येति प्राप्ते परिणामित्वेन कारणत्वं विशिष्टस्येति प्रथमपक्षे वैयधिकरण्यासम्भवेऽपि द्वितीये कर्तृत्वं ब्रह्मण इति सिद्धान्तकरणे वैयधिकरण्यं स्यादित्यर्थः ।

ननु शुद्धस्य भ्रमाधिष्ठानत्वेऽप्यविद्यावशेन तस्यैव परिणामाङ्गीकारेण मायासम्बन्धेन कर्तृत्वसार्वज्ञाङ्गीकारेण परिणामित्वेन कारणत्वस्य कर्तृत्वेन भ्रमाधिष्ठानत्वस्य च शुद्ध एव सत्त्वान्न वैयधिकरण्यमित्यत आह ॥ कथञ्चिदिति ॥ यद्वा ननु कारणवाक्ये परिणामि-त्वेन प्रधानं प्रतिपाद्यमिति प्राप्ते भ्रमाधिष्ठानत्वेन ब्रह्मैव तत्प्रतिपाद्यमिति सिद्धान्तः क्रियते । तत्कथं वैयधिकरण्यमित्यत आह ॥ कथञ्चिदिति ॥ प्रकारभेदान्न सामानाधि-करण्यमिति कथञ्चिच्छब्दः । अविद्यासम्बन्धे शुद्धत्वहानेः पुनर्वैयधिकरण्यं तदवस्थमिति वा कथञ्चिच्छब्दः । नन्वीक्षणस्य विशिष्टनिष्ठत्वात् शुद्धस्य तदधिष्ठानत्वेन लक्षण-येक्षणादिव्यपदेश इत्यत आह ॥ तस्येति ॥ सूत्र इति ॥ ईक्षणस्य शुद्धेऽभावादिति भावः । ननु प्रधाननिरासार्थं हेतूक्तिरित्यत आह ॥ न चेति ॥ ननु न हेतूक्तिवैयर्थ्यम् । समन्वयार्थत्वात्प्रधानस्य शाब्दत्वनिरासार्थत्वाच्च । ईक्षणेऽवान्तरतात्पर्यसत्त्वेन तन्निरासो-पपत्तेः । न च तात्पर्यविषयत्वे सत्यत्वं स्यादिति वाच्यम् । महातात्पर्यविषयस्यैव सत्यत्वाङ्गीकारादित्यत आह ॥ अपि चेति ॥


किञ्चास्मन्मते आनन्दमयस्तद् ब्रह्मैवेत्यादिरूपेण ..

तात्पर्यचन्द्रिका

किञ्चास्मन्मते आनन्दमयस्तद् ब्रह्मैवेत्यादिरूपेण विधेयार्पणायानुषञ्जनीयस्य तत्पदस्येह तदशब्दं न ईक्षतेरित्युद्देश्यसमर्पकतयाऽन्वयो हेतुसाध्ययोः सामानाधि-करण्यं च । तव तु अशब्दं प्रधानं कारणं न, कारणस्येक्षितृत्वादिति वदतो हेतु-विभक्तयभावेन साध्यत्वयोग्यश्रुताशब्दत्वरूपसाध्यत्यागेन साध्यकल्पनार्थमध्याहृतस्य कारणपदस्य विभक्तिपरिणामेनाऽऽवृत्तिर्वैयधिकरण्यं च । कारणमशब्दं प्रधानं नेति कारणस्योद्देश्यत्वे च ‘‘अशब्दं हि तत्’’ इति हेतूकृतस्याशब्दत्वस्य कारणेऽसिद्धिः । किञ्चाशब्दत्वमवाच्यत्वं वा शब्दवृत्तिमात्राविषयत्वं वा वेदासिद्धत्वं वा कारणत्वेन वेदासिद्धत्वं वा । चतुष्टयमपि ब्रह्मण एव । त्वन्मते शास्त्रप्रतिपाद्यस्य शुद्धस्या-वाच्यत्वात्, अवाच्ये च वृत्त्यन्तरायोगात् । न तु प्रधानस्य । साङ्ख्यमते तस्य वाच्यत्वात् । कारणत्वेनैवाजामित्यादिश्रुतिसिद्धत्वाच्च । त्वयापि त्रिगुण-स्योपादानतया ‘‘मायां तु प्रकृतिम्’’ इत्यादिश्रुतिसिद्धत्वाङ्गीकाराच्च । त्रिगुणस्य पारमार्थिकत्वादावेव हि तव विवादः ।

ननु ‘‘आनुमानिकमप्येकेषाम्’’ इत्यत्रानुमानिकशब्देन साङ्ख्यानुमानकल्पितं यत्त्वया विवक्ष्यते तदेव मयाऽत्राशब्दशब्देन लक्ष्यत इति चेन्न । साङ्ख्यो-त्प्रेक्षितानुमानगम्यत्वस्य प्रधानं सदेवेत्यादिवाक्यार्थो नेत्यत्राहेतुत्वात् । अन्यथा तार्किकोत्प्रेक्षितानुमानगम्यत्वादीश्वरस्यापि सदेवेत्यादिवाक्यार्थत्वं न स्यात् । त्वया च ‘‘अशब्दं हि तत्’’ इति तस्य तत्र हेतुत्वोक्तेः । किञ्च त्वयाऽ-त्रोक्ताशब्दत्वसिध्द्यर्थं चतुर्थपादेऽव्यक्ताजादिशब्दानां सूक्ष्मशरीरादिपरतामुक्त्वा प्रधानपरतां निषेधता तस्य सर्वथा वेदासिद्धत्वमेवाशब्दत्वं वाच्यम् । तच्चाशक्यमित्युक्तम् । एतेन स्वप्रधानतया वेदाप्रतिपाद्यत्वमशब्दत्वमिति निरस्तम् । तदेतदभिप्रेत्योक्तं भाष्ये ‘‘न चाशब्दत्वमितरसिद्धम्’’ इति । अनुव्याख्याने च ‘‘न ह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ’’ इति ।

प्रकाशिका

पररीत्या सूत्राक्षरार्थासामञ्जस्यं स्वमते स्वारस्यपूर्वमाह ॥ किञ्चेति ॥ तदित्यस्यार्थो ब्रह्मेति । तोरर्थ एवेति । अशब्दमवाच्यं नेत्यर्थः ॥ हेतुविभक्तीति ॥ प्रधानं कुतो न कारणमित्याशङ्क्याशब्दं हि तदित्यशब्दमित्यस्य हेतुत्वेन त्वयोक्तत्वात्तत्र च तृतीयापञ्चम्यादिलक्षणहेतुविभक्त्यभावेन साध्यत्वयोग्यमित्यर्थः ॥ असिद्धिरिति ॥ शास्त्रयोनित्वात्तस्येति भावः । प्रधानोद्देश्यत्वपक्षेऽप्यसिद्धिरित्याह ॥ किञ्चेति ॥ चतुष्टयमपि ब्रह्मण एवेत्युक्तं व्यनक्ति ॥ त्वन्मत इति ॥ वृत्त्यन्तरेति ॥ प्रागुक्ता-नवस्थापत्तेरिति भावः । तत एव वेदासिद्धत्वं कारणत्वेन वेदासिद्धत्वं च बोध्यम् । वृत्तिमात्राविषये वेदसिद्धत्वाभावात् ॥ वाच्यत्वादिति ॥ प्रधानादिशब्दैः । तत एव वृत्त्यन्तरविषयत्वादिकमपीति भावः । एतेन ‘‘अशब्दत्वं नाम शब्दागोचरत्वं वा शब्दा-वाच्यत्वं वाऽवैदिकत्वं वा कारणतयाऽवैदिकत्वं वा’’ इत्यादिसुधा विवृता । ननु ‘‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्’’ इत्यादावजादिशब्दाः सूक्ष्मशरीरपरा इत्यत आह ॥ त्वयापीति ॥ तथा च स्वमतेनायं हेतुरित्यपि प्रत्युक्तमिति भावः ।

ननु अशब्दमिति शब्दान्यानुमानकल्पितत्वं हेतुतया विवक्ष्यते । यथा त्वन्मत आनुमानिकमित्यनेनेत्याशङ्कामनूद्य निराह ॥ नन्विति ॥ सदेवेति ॥ प्रधानं कारणं नेत्यस्य सदेवेत्यादिकारणवाक्यप्रतिपाद्यं नेत्यर्थस्याभिमतत्वादिति भावः ॥ त्वया चेति ॥ मन्मते आनुमानिकशब्देन तस्याहेतुत्वोक्तेर्न दोष इति भावः । अशब्दमित्यस्य साङ्ख्यानुमान-कल्पितत्वविवक्षामुपेत्य दोष उक्तः सा विवक्षैवायुक्तेत्याह ॥ किञ्चेति ॥ प्रधानस्येति शेषः ॥ इत्युक्तमिति ॥ ‘‘त्वयापि त्रिगुणस्य’’ इत्यादिनेति भावः । एतेन अशक्यमित्युक्त-त्वेनेत्यर्थः ॥ इतरेति ॥ साङ्ख्यस्य मायिनश्चेत्यर्थः । असौ साङ्ख्यो मायी च ।

चन्द्रिकाबिन्दु

अनुषञ्जनीयस्येति ॥ आनन्दमयः, तद्ब्रह्मेति विधेयसमर्पणार्थ-मावश्यकः स्यात् । तच्छब्दस्य ईक्षतेर्नाशब्दमित्यादौ तद्ब्रह्म अशब्दं नेति उद्देश्य-समर्पकत्वमित्येतावतैव वैषम्यमस्मन्मत इति भावः । तव त्विति । अशब्दं प्रधानं कारणं न कारणस्येक्षितृत्वादिति सूत्रार्थे उच्यमाने साधनत्वख्यापकविभक्त्यभावेन साध्यत्व-योग्यस्य अशब्दत्वस्य साध्यत्वं परित्यज्य साध्यार्थकारणं नेति कारणपदमध्याहृत्य तस्य कारणपदस्य कारणस्येक्षितृत्वादित्यत्र ण्यन्ततया विभक्तिविपरिणामाङ्गीकारेऽपि वैयधिकरण्यमिति भावः ॥ हेतूकृतस्येति ॥ कारणस्य विशिष्टस्य समत्वादिति भावः ॥ नन्विति ॥ तथा चानुमानिकत्वेनैव कारणत्वनिरास इति भावः ।

पाण्डुरङ्गि

ननु प्रधानशब्दत्वनिरसनमुखेन समन्वयस्यापि प्रतिपादनान्नासङ्गति-रित्यत आह ॥ किञ्चेति ॥ परमते श्रुतस्य साध्यत्वयोग्यस्याशब्दमित्यस्य साध्यत्व-परित्यागो ऽश्रुतस्य कारणमित्यस्य साध्यस्य कल्पना तस्यैव चावृत्तिर् आवृत्तस्य कारणमिति प्रथमान्तस्येक्षतेरित्यनेन हेतुवचनेनान्वयानुपपत्त्या षष्ठ्यन्तत्वेन विभक्ति-विपरिणामः कारणत्वाभावरूपसाध्यं प्रधाननिष्ठम् ईक्षतेरिति हेतुश्च कारणनिष्ठ इति वैयधिकरण्यं चेत्यनेकानि दूषणानि । ननु भवन्मतेऽप्यश्रुतकल्पना । अशब्दं नेत्यत्रोद्देश्य-समर्पकपदस्याश्रुतस्य कल्पनीयत्वादित्यत उक्तम् आनन्दमयस्तद्ब्रह्मेत्यादि । तथा चानन्दमयसूत्रे श्रुतस्य तदित्यस्यात्रोद्देश्यसमर्पकतयाऽन्वयान्नाश्रुतकल्पनेति भावः । नन्वानन्दमयसूत्रे तदित्यस्याश्रवणादुभयत्रापि तत्कल्पने कल्पनागौरवमित्यत उक्तं विधेयार्पणायेति । अयं भावः । तत्तु समन्वयादित्यत्र तदिति पदं श्रूयते । तस्यैवानन्द-मयस्तद्ब्रह्मेति विधेयसमर्पकतयानुक्तस्यात्र पुनरुद्देश्यसमर्पकतयानुषङ्ग इति नाश्रुत-कल्पनेति । ननु कारणस्योद्देश्यत्वान्नावृत्तिर्वैयधिकरण्यं चेति चेन्न । तथात्वेऽशब्दमित्यस्य वैयर्थ्यं स्यात् । ननु तस्य हेतूकृतत्वान्न वैयर्थ्यमित्यत आह ॥ कारणमिति ॥

ननु नाशब्दत्वस्य प्रधानेऽसिद्धिः । मया ब्रह्मण एव सर्ववेदप्रतिपाद्यत्वाङ्गीकारेण प्रधानस्य कुत्राप्यप्रतिपाद्यत्वादित्यत आह ॥ किञ्चेति ॥ ननु शुद्धस्य लक्षणया शब्दप्रवृत्तिविषयत्वादिकं भविष्यतीत्यत आह ॥ अवाच्य इति ॥ नन्वस्तु ब्रह्मणो वाच्यत्वम् । प्रधानेऽवाच्यत्वसत्त्वादशब्दत्वं सिद्धमेवेत्यत आह ॥ न त्विति ॥ ननु तथापि कारणत्वेन वेदासिद्धत्वान्नाशब्दत्वासिद्धिरित्यत आह ॥ कारणत्वेनेति ॥ ननु त्रिगुणात्मकप्रधानस्याङ्गीकारे साङ्ख्येन विवादो न स्यादित्यत आह ॥ त्रिगुणस्येति ॥ नन्विति ॥ तथा च नासिद्धिरिति भावः ॥ साङ्ख्येति ॥ अप्रयोजकत्वादिति भावः ।

ननु तार्किकोत्प्रेक्षितानुमानगम्यत्वेऽपि सदेवेत्यादिवाक्यार्थत्वाभावः कुत इत्यत आह ॥ त्वया चेति ॥ तस्य वाद्युत्प्रेक्षितानुमानगम्यत्वस्य ॥ तच्चाशक्यमित्युक्तमिति ॥ त्वयापि त्रिगुणस्योपादानताया मायां तु प्रकृतिमित्यादिश्रुतिसिद्धत्वाङ्गीकारेण सर्वथा शब्दावाच्यत्वं वक्तुमशक्यमित्यर्थः ॥ एतेनेति ॥ अव्यक्तादिशब्दानां सूक्ष्मशरीरादि-परत्वमुक्त्वा प्रधानपरत्वं निषेधता सर्वथा वेदप्रतिपाद्यत्वस्यैव वक्तव्यत्वोपपादनेनेत्यर्थः ।

अथवा मायां तु प्रकृतिमित्यादौ स्वप्रधानतया प्रतिपाद्यत्वोपपादनेनेत्यर्थः । स्वोक्त-मशब्दत्वस्यासिद्धत्वं भाष्यानुव्याख्यानाभ्यां संवादयति ॥ तदेतदित्यादिना ॥ ‘‘तदैक्षते-तीक्षणश्रवणादशब्दं हि तत्’’ इति टीकाया अयमर्थः । प्रधानं कारणत्वेन कारण-वाक्यप्रतिपाद्यं न भवति । कारणवाक्ये प्रधानबोधकशब्दाभावात् । न च सदेवेत्यादि-वाक्येषु सच्छब्दस्यैव प्रधानबोधकत्वात्कथं तत्प्रतिपादकशब्दाभाव इति शङ्क्यम् । तत्र सच्छब्दोक्तस्यैवोत्तरत्र तदैक्षतेतीक्षणकर्तृत्वोक्त्या सच्छब्दस्य प्रधानपरत्वे तस्याचेतनत्वे-नेक्षणकर्तृत्वासम्भवेन तच्छब्दस्य प्रधानपरत्वासम्भवादिति । टीकायाम् ‘‘अश्रौतत्वम्’’ इति ॥ कारणवाक्ये तत्प्रतिपादकशब्दाभाव इत्यर्थः ॥ तेनेति ॥ साङ्ख्येन सदादि-शब्दानामेव प्रधानपरत्वाभ्युपगमात् कारणवाक्ये प्रधानपरशब्दाभावः साङ्ख्यमतेऽसिद्धः । न चोक्तदोषः । सत्त्वात्सञ्जायते ज्ञानम्’’ इत्युक्तेस् तस्येक्षणोपादानत्वेनेक्षण-कर्तृत्वोपचारोपपत्तेरिति भावः ॥ स्वन्यायेनेति ॥ मायिन्यायेनेत्यर्थः ॥ श्रुतत्वादिति ॥ ‘‘अजामेकाम्’’ इत्यादिकारणवाक्येष्वजादिशब्दानां प्रधानपरत्वेन स्वन्यायेनापि कारणवाक्येषु प्रधानपरत्वाभावो नेत्यभिप्रायः ।