०६ सूत्रक्रमनिरूपणम्

सूत्रक्रमस्तु

सूत्रक्रमनिरूपणम्

तात्पर्यचन्द्रिका

सूत्रक्रमस्तु । आद्यसूत्रे साक्षाद्वाच्यत्वहेतोरीक्षणीयत्वस्योक्तिः । द्वितीये तस्य व्यधिकरणासिद्ध्युद्धारः । तृतीयचतुर्थयोस्तु तदुद्धारकस्यान्यथासिद्धिशङ्कानिरासः । तत्रापि सगुणात्मनिष्ठस्यापि परम्परया मोक्षो युक्त इति शङ्काया अपि तमेवैकमिति सावधारणाहेयत्ववचनं न स्यादिति वदता हेयत्वेत्यनेन निरासादभावरूपत्वाच्च हेयत्वावचनस्य तन्निष्ठेत्येतदानन्तर्यम् । स्वाप्ययस्य तु ‘‘श्रुत्युक्तत्वाच्च निर्गुणो वाच्य इति बहिरेवोक्ते कुतोयं निर्गुण इति शङ्कापरिहारात्मकत्वात्तत्र चशब्दाभावः’’ इति टीकोक्तरीत्या वाच्यत्वे परम्परया हेतुत्वात्, तथा ‘‘आत्मानं विलापयति’’ इत्यात्मनो नाशित्वेन हेयत्ववचनात्तदवचनमसिद्धमिति शङ्काया अपि नात्र नाश उच्यते किन्त्वेकीभाव इति वदता स्वाप्ययादित्यनेन निरासात्पञ्चमता । तत्र चशब्दाभावे टीकायामेव हेतुरुक्तः । षष्ठे तु गौणात्मन्यपि स्वाप्ययादिः शाखान्तर उच्यतामिति शङ्कानिरासः । श्रुतत्वाच्चेत्यत्र तु गतिसामान्यस्य श्रुतत्वादित्यस्यापि विवक्षितत्वात्तस्यान्त्यतेति ।

प्रकाशिका

द्वितीय इति ॥ गौणश्चेदिति सूत्रे हेतूक्त्यनन्तरमाभासोद्धार-स्यावसरादिति भावः । ईक्षणीयत्वस्य सगुणनिष्ठतया विप्रतिपन्ने शुद्धे याऽसिद्धिस्तदुद्धार इत्यर्थः । ‘‘निर्गुणज्ञापकोक्त्या हेतुसिद्धिः समर्थिता’’ इति सुधोक्तेरिति भावः ॥ तृतीयेति ॥ ‘‘तन्निष्ठस्य मोक्षोपदेशात्, हेयत्वावचनाच्च’’ इत्यनयोरित्यर्थः । तदुद्धार-कस्य असिद्ध्युद्धारकस्यात्मशब्दादेः ॥ अन्यथेति ॥ सगुण एव मुख्यत्वशङ्कानिरास इत्यर्थः । ‘‘ज्ञापकस्यान्यथासिद्धिरुत्तरसूत्रे परिह्रियते’’ इत्यादिसुधोक्तेः । टीकायां तथाऽवतारितत्वाच्चेति भावः । तत्रापि द्वयोर्मध्येऽपि । परम्परया निर्गुणज्ञानद्वारा ॥ शङ्काया अपीति ॥ न केवलं टीकाद्युक्तरीत्याऽऽत्मशब्दादेरन्यथासिद्धिशङ्काया अपि तु तन्निष्ठमोक्षोपदेशस्यान्यथासिद्धिशङ्काया अपीत्यपेरर्थः । एवमपि योजयितुं शक्यत्वादिति भावः । टीकोक्तमुपलक्षणमिति हृदयम् । टीकायामेतच्छङ्कानुक्तिस्तु चशब्दस्वारस्यानु-रोधेन । अन्यथा मुक्तोपसृप्यव्यपदेशादित्यादाविव चशब्दो न स्यादिति ध्येयम् । ओयत्वेति हेयत्वावचनादिति नञ्व्यत्यासेनार्थोक्तिः । टीकोक्तार्थेऽपि क्रमो युक्त इति भावेनाह ॥ अभावेति ॥

स्वाप्ययादित्यस्य हेयत्वेति सूत्रानन्तर्ये टीकोक्तरीत्यैकं हेतुं वदन् तन्निष्ठसूत्रटीकया तुल्यन्यायतया सूचितं स्वयं वर्णकान्तरमप्यभिप्रेत्य हेत्वन्तरं चाह ॥ स्वाप्ययस्य त्विति ॥ श्रुतीति ॥ ‘‘पूर्णमदः पूर्णमिदम्’’ इत्यादिश्रुत्युक्तत्वाच्चेत्यर्थः । तत्र स्वाप्यय-सूत्रे ॥ आत्मानमिति ॥ ‘‘स आत्मन आत्मानमुद्धृत्यात्मन्येव विलापयती’’त्यादिश्रुता-वित्यर्थः ॥ इतिशङ्काया अपीति ॥ न केवलं टीकारीत्या गौणात्मपरत्वशङ्काया इत्यपेरर्थः । तत्र सूत्रे । अर्थद्वयेऽपीति वाऽर्थः । शङ्कापरिहारात्मकत्वादित्युक्त-हेतोर्वर्णकद्वयेऽपि तुल्यत्वादिति भावः ॥ षष्ठ इति ॥ गतिसूत्रे वर्णकान्तरमभिप्रेत्यैवमुक्तम् ॥ श्रुतत्वादिति ॥ ‘‘सर्वे वेदा युक्तयः’’ इत्यादौ श्रुतत्वादिति वर्णकान्तरमभिप्रेत्यैतत् । न केवलं टीकोक्तरीत्या वाच्यत्वहेतुत्वस्येत्यपेरर्थः । टीकादावेवमेवानुक्तिस्तु चशब्द-स्वारस्यानुरोधेनेति ज्ञेयम् । सूत्राणामर्थस्तु टीकादौ स्पष्ट इति भावः ।

यदत्र कश्चिदाह ॥ इयता सूत्रसन्दर्भेणात्र नये ब्रह्मणो वाच्यत्वोक्तिस्त्वन्मते न युक्ता । त्वया हि ‘‘तथान्यत्प्रतिषेधात्’’ इत्यत्र ‘‘तदेव ब्रह्म त्वं विद्धि’’ इत्यादिश्रुत्यो-पासनाकालेषूपासकचित्ते प्रतीतप्रतिबिम्बविशेषस्यैवोपासनालम्बनत्वेनोक्त्या बिम्बभूतब्रह्मण उपास्यत्वनिषेधात् । अन्यथा मानसावलोकनरूपध्यानविषयत्वेऽव्यक्तत्वासिद्धेः । तथा चानुपास्यब्रह्मण उपासनाविधिषूपास्यसमर्पकैः पदैरवाच्यत्वतयाऽवश्यं वाच्यत्वात् । तथा सृष्ट्यादिसर्ववेदगतपदैर्ब्रह्मगुणवर्णनस्योपासनार्थत्वं ‘‘आध्यानाय प्रयोजनाभावात्’’ इत्यत्र त्वयैवोक्तमिति सर्ववेदगतानन्तपदैरुपासनाकालेषूपासकानां चित्ते प्रतीतप्रतिबिम्बविशेषस्यैव वाच्यत्वेन बिम्बभूतस्य परब्रह्मणः प्रतिबिम्बवाचिपदैर्लक्षणया प्रतिपादनमित्यवश्यं वाच्यत्वात्कथं तस्य सर्वशब्दवाच्यत्वमित्यादि ।

तत्तुच्छम् । उपासनाकालेषूपासकचित्ते प्रतीतप्रतिबिम्बरूपाद्बिम्बभूतं ब्रह्मान्य-दित्यङ्गीकारेऽपि सर्वाण्यपि श्रुतिवाक्यान्युपासनापेक्षितब्रह्मगुणसमर्पकाणीति चाङ्गी-कारेऽपि ब्रह्मणः सर्वशब्दवाच्यतानपायात् । वासनामयरूपस्य मनसाऽवलोकनं ध्यानमिति चित्ते प्रतीतप्रतिबिम्बरूपस्य वासनामयत्वोपगमात् । संस्कारापरनामकवासनायाश्च पूर्वानुभवजन्यत्वात् । औपनिषदस्य मानान्तरागोचरस्य वस्तुनोऽनुभवस्य वेदादि-शास्त्रेणैवोत्पाद्यत्वात् । उपासनाकालप्रतीतप्रतिबिम्बजनकवासनाहेत्वनुभवोत्पादनाया-खिलवेदवाक्यैर्ब्रह्मगुणवर्णनात् । तद्वर्णनस्य वचनवृत्तिं विनाऽयोगात् । सर्वस्यो-पासनार्थत्वादित्यस्याप्यखिलवेदविषयश्रवणमननजनितानुभवोत्पन्न संस्कारद्वारोपासनार्थ-त्वादित्यभिप्रायात् । एवमेव सर्वैरपि वाच्यत्वाच्च । बिम्बभूतस्य वस्तुनः साक्षादुपास्यत्वा-भावेऽपि ज्ञानार्थत्वेनापि वाच्यत्वावश्यम्भावाच्च । उपासनावज्ज्ञानस्याप्यावश्यकत्वात् । ‘‘गुणास्सर्वेऽपि वेत्तव्या ध्यातव्याश्चैव सर्वशः’’इत्यादेः । प्रतिबिम्बे सन्निहितमिति ज्ञानस्योपासनाकालेऽप्यावश्यकत्वाच्च । ‘‘ब्रह्मैव प्रतिबिम्बे यदतस्तेषां फलप्रदम्’’ इत्यादेः । उपासनाविधिवाक्यानामप्युपास्यार्पकवाक्यार्थानुभवजनितवासनामयरूपा-वलोकनाख्यध्यानं कार्यमित्यर्थस्य सर्वैरपि वाच्यत्वेन तत्रापि ब्रह्मणो नावाच्यत्वशङ्केति न किञ्चिदनुपपन्नमिति तत्त्वविद्वेषकलुषितमनीषया भाषितमिति नैतदादरणीयम् । विस्तुरस्तु कण्टकोद्धारे ।

चन्द्रिकाबिन्दु

व्यधिकरणासिद्धीति ॥ यद्यप्यसिद्ध्युद्धार इति वक्तुं शक्यते तथापि गौणश्चेदिति सूत्रक्रममभिप्रेत्य व्यधिकरणेत्युक्तम् ॥ परम्परयेति ॥ सगुणोपा-सनायाः प्रत्यक्प्रावण्यसम्पादनद्वारा मोक्षोपयुक्तता, साक्षाद्वाचकत्वसाधकत्वं त्वीक्षति-सूत्रस्येत्यर्थः । गतिसामान्यादित्यस्योक्तानुसारेणाह ॥ षष्ठे त्विति ॥ कर्तृत्वविशिष्टस्येति शेषः ॥

पाण्डुरङ्गि

नन्वीक्षतेरित्यादिसूत्राणामुक्तक्रमे नियामकाभावादन्यथापि क्रमः सम्भाव्यत इत्यत आह ॥ सूत्रक्रमस्त्विति ॥ द्वितीयसूत्रादौ परम्परया वाच्यत्वसाधक-हेतोरप्युक्तत्वात्तद्व्यावृत्त्यर्थं साक्षादिति ॥ व्यधिकरणासिद्धीति ॥ वाच्यत्वं परब्रह्मणि, तत्साधकमीक्षणीयत्वं सगुण इति व्यधिकरणासिद्धिरित्यर्थः ॥ अन्यथासिद्धीति ॥ आत्मशब्दस्य विष्णुपरत्वमिव गौणपरत्वमप्यस्त्विति याऽन्यथासिद्धिशङ्का तन्निरास इत्यर्थः । ननु तथापि तन्निष्ठमोक्षोपदेशहेयत्वावचनयोरुभयोरप्यात्मशब्दस्यान्यथासिद्धि-शङ्कानिरासकत्वसाम्यात्तन्निष्ठेत्येतदानन्तर्यं हेयत्वावचनस्यायुक्तमित्यत आह ॥ तत्रापीति ॥ सूत्रद्वयेऽपीत्यर्थः । न केवलं हेयत्वावचनस्यात्मशब्दस्य प्राप्तान्यथासिद्धि-निरासकत्वम् अपि तु तन्निष्ठस्य मोक्षोपदेशस्याप्यन्यथासिद्धिशङ्कानिरासकत्वा-त्तदानन्तर्यमिति भावेनोक्तम् इति शङ्काया अपीति ॥

ननु हेयत्वेत्यनेन तन्निष्ठमोक्षोपदेशस्य कथमन्यथासिद्धिः परिहृतेत्यत उक्तं तमेवैक-मितीति ॥ ननु स्वाप्ययादिति सूत्रस्य वाच्यत्वसाधकत्वाद्द्वितीयत्वं स्यान्न तु पञ्चमत्वमित्यत आह ॥ स्वाप्ययस्य त्विति ॥ तथापि पञ्चमत्वं कथं तृतीयत्वं किं न स्यादित्यत आह ॥ तथेति ॥ तर्हि वाच्यत्वसाधकहेतुपरत्वाच्चशब्दस्तत्र स्यादित्यत आह ॥ तत्रेति ॥ ‘‘श्रुत्युक्तत्वान्निर्गुणो वाच्य इत्युक्ते कुतोऽयं निर्णय इत्याशङ्कापरिहारात्म-कत्वात्’’ इति टीकायामेव हेतुरुक्त इत्यर्थः । ननु गतिसूत्रस्य स्वाप्ययादित्येतदानन्तर्य-मयुक्तम् । तस्य शाखान्तरेऽन्यस्यापि जगत्कर्तृत्वमुच्यत इत्याशङ्कानिरासकत्वेन स्वाप्ययादित्युक्त प्रमेयोपयोगिप्रतिपादकत्वाभावादित्यत आह ॥ षष्ठे त्विति ॥ ननु श्रुतत्वादित्यस्य गतिसूत्रानन्तर्यमयुक्तम् । तस्य साक्षाद्वाच्यत्वसाधकहेतुपरत्वेन द्वितीयत्व-स्यैव न्याय्यत्वादित्यत आह ॥ श्रुतत्वाच्चेत्यत्र त्विति ॥