सिद्धान्तस्तु
सिद्धान्तः
तात्पर्यचन्द्रिका
सिद्धान्तस्तु ॥ न तावच्छुद्धस्यात्मनो ज्ञेयत्वमेव नेति युक्तम् । सूत्र आत्मशब्द-तन्निष्ठमोक्षोपदेशादिभिर्ज्ञेयस्य शुद्धत्वोपपादनात् । त्वयापि शुद्धात्मज्ञानेनैव मोक्ष इति स्वीकृतत्वाच्च । नापि तस्य ज्ञेयत्वेऽपि लक्षणयैव तदिति युक्तम् । वाच्य-सम्बद्धतया ज्ञातस्यैव लक्ष्यत्वाद् औपनिषदस्य चाशब्देनाज्ञानात् स्वप्रकाशतया नित्यसिद्धौ च शास्त्रवैयर्थ्याद् अवाच्ये च शब्दस्य लक्षकस्यैव वक्तव्यत्वात्तत्रापि वाच्यसम्बन्धितया ज्ञानस्यापेक्षितत्वात्तदर्थं लक्षकान्तरप्रयोगेऽनवस्थानात् । टीकाया-मपीयमेवानवस्था विवक्षिता । न च वाचकशब्दस्यापि गृहीतसम्बन्धस्यैव बोध-कत्वात् सम्बन्धज्ञानस्य च सम्बन्धिज्ञानाधीनत्वात् । सम्बन्धिनश्च ब्रह्मण औपनिषदत्वाच्छब्दान्तरेणैव तद्बोध इत्यनवस्था स्यादिति शङ्क्यम् । यौगिकानां पदानां वाक्यतुल्यतया सङ्गतिग्रहणानपेक्षत्वात् । यथोक्तं ‘‘श्रोत्रियंश्छन्दोऽधीते । वाक्यार्थे पदप्रयोग’’ इति । न च शुद्धात्मनो वृत्तिव्याप्यत्वमेव न त्वीक्षण-कर्मत्वमिति वाच्यम् । वृत्तिव्याप्यत्वेनैव वाच्यत्वसिद्धेः । किञ्चानिर्गुणावाच्यादि-पदानां सगुणं न वाच्यमिति शुद्धस्यैव तद्वाच्यत्वसिद्धिः । विस्तृतं चैतदन्यत्र ।
प्रकाशिका
ईक्षणीयत्वस्य वाच्यत्वसाधकस्यावाच्यत्वे बाधकस्य सत्त्वादवाच्यत्व-श्रुतेरप्रसिद्ध्यभिप्रायकत्वेन सङ्कोच इति सिद्धान्तयिष्यन् तस्य व्यधिकरणासिद्धिं परिहरन्पक्षनिष्ठतामाह ॥ सिद्धान्तस्त्वित्यादिना ॥ ज्ञेयत्वमिति ॥ एतेन सौत्रेक्षणं नापरोक्षपरमित्युक्तं भवति । सूत्रे ‘‘गौणश्चेन्नात्मशब्दात्’’ इत्यादिगुणसूत्रेषु । ‘‘तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ । अमृतस्यैष सेतुः’’ इत्येकत्रैव श्रूयमाणैरात्म-शब्दतन्निष्ठमोक्षोपदेशहेयत्वावचनैरिति वा भाष्योक्तदिशा ‘‘आत्मन्येवात्मानं पश्येत्’’ इत्यत्रात्मशब्दः ‘‘यस्यानुवित्तः’’ इत्यत्र तन्निष्ठमोक्षोपदेशः ‘‘तमेवैकम्’’ इत्यत्र हेयत्वावचनमित्येवमात्मशब्दादिभिरिति वाऽर्थः । अत्र यद्यप्यात्मशब्द एवेक्षणीयस्य शुद्धत्वसाधकः । मोक्षोपदेशादि त्वात्मशब्दस्य गौणात्मपरत्वेनान्यथासिद्धिशङ्का-निरासार्थम् । टीकायां तथैवोक्तेर्वक्ष्यमाणत्वाच्चात्रापि तथापि तत्वप्रदीपदिशा साक्षादपि मोक्षोपदेशादेरात्मशब्दवत्तत्र हेतुत्वं योजयितुं शक्यमिति वर्णकान्तरमभिप्रेत्य वा परम्परयापि तद्धेतुत्वमस्तीति वैवमुक्तम् । आत्मशब्दे विवादेऽपि मोक्षोपदेशस्य शुद्धत्वे हेतुत्वमविप्रतिपन्नमित्याह ॥ त्वयेति ॥ अवाच्यत्वं ब्रुवतेत्यर्थः ।
हेतोरसिद्धिं निरस्य यत्प्रागस्तु वेत्यादिनाऽप्रयोजकत्वमाशङ्कितं तदनूद्य विपक्षेऽ-नवस्थारूपतर्कपराहत्या हेतूच्छित्तिरेव बाधिकेति नाप्रयोजकत्वमिति भावेन ‘‘किं तदित्यनवस्थितिः’’ इत्यनुव्याख्यानसुधोक्तानवस्थाप्रकारमुपपादयति ॥ नापीति ॥ वाच्येति ॥ ‘‘मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । लक्षणा’’ इति काव्य-प्रकाशिकाद्युक्तेरिति भावः । ततः किमिति चेत्तथा ज्ञानं किं मानान्तरेणोत स्वप्रकाशतयाऽथ लक्षकशब्दान्तरेण वेति विकल्प्याद्यं निराह ॥ औपनिषदस्य चेति ॥ द्वितीयं निराह ॥ स्वेति ॥ तृतीयेऽनवस्थामाह ॥ अवाच्ये चेति ॥ ‘‘अवाच्यस्य लक्षणायां किं लक्ष्यमिति प्रश्नापर्यवसानात्’’ इत्यादिटीकायामनवस्थाया अस्फुट-त्वादाह ॥ टीकायामपीति ॥
‘‘वाच्यत्वेऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितिरिति चेन्न । अभि-मान्यधिकरणे वक्तव्यत्वात्’’ इति सुधां विवृण्वानः प्रागुक्तप्रतिबन्दीं निरसितुमनवस्थां व्यञ्जयन्ननुवदति ॥ न चेति ॥ ‘‘शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः’’ इत्यभि-मानिनयानुव्याख्यानसुधोक्तमाह ॥ यौगिकानामिति ॥ तत्र यथा हि छन्दोऽधीते’’ इत्यनयोः पदयोर्गृहीतशक्तिकयोरर्थे संसृष्टरूपवाक्यार्थमर्यादयोपस्थिते श्रोत्रियपदं निपात्यत इति पञ्चमे द्वितीयपादे ‘‘श्रोत्रियंश्छन्दोऽधीते’’ इति सूत्रेण पाणिनिराह तथा ब्रह्मादि-पदस्यापि यौगिकत्वेन क्लृप्तावयवशक्त्याऽपूर्वार्थबोधसम्भवेनान्यानपेक्षणादित्यर्थः । ‘‘अधीते’’ इत्यन्तं सूत्रं ‘‘वाक्यार्थ’’ इत्यादि, वृत्तिवाक्यम् ।
नन्वीक्षणविषयत्वेऽपि शुद्धस्य न तत्कर्मकारकत्वम् । सर्वकारकशक्तिविधुरत्वात्तस्य । कर्मत्वं च वाच्यत्वव्याप्तमित्याशङ्क्याह ॥ न चेति ॥ एवमियता ग्रन्थेन सूत्रे कण्ठोक्ता-मीक्षणीयत्वयुक्तिं विपक्षेऽनवस्थारूपबाधकतर्कोक्त्या तस्याः प्रतिबन्दीरूपतर्का-प्रतिहत्युक्त्या चाप्रयोजकत्वनिरासेनासिद्धिनिरासेन च समर्थ्य इदानीमवाच्यपदपर्याय-सौत्राशब्दपदसूचितां ‘‘पदं च निर्गुण इति कथं गौणं वदिष्यति’’ इत्यनुव्याख्यानोक्तां युक्तिमाह ॥ किञ्चेति ॥ न वाच्यमिति ॥ व्याहतेरिति भावः । तथा चावाच्यादिपदानां वाच्यान्तराभावाच्छुद्धमेव वाच्यं स्यात् । सर्वथा वाच्यहीनस्य लक्षणया शुद्धबोधकत्वा-योगात् । अन्यथा घटादिशब्दोऽपि स्वार्थलक्षकः स्यादिति भावः । ननु निर्गुणादि-शब्दानां गुणाभावादिविशिष्टं वाच्यम् । तच्च न शुद्धं ब्रह्म । तस्य गुणाभावाद्युप-लक्षितत्वादिति चेत्तर्हि गुणाभावोपलक्षितशब्दवाच्यत्वमनिवार्यमिति भावेनाह ॥ विस्तृतमिति ॥ न्यायामृतेऽवाच्यत्वभङ्ग इत्यर्थः ।
चन्द्रिकाबिन्दु
अज्ञेयत्वमेव शुद्धस्य, ज्ञेयत्वेऽपि लक्षणमाक्षेपत्वमिति पूर्वपक्षे शरीरद्वयम् । आद्यं तावत्सौत्रहेतुभिर्निराकरोति ॥ न तावदिति ॥ द्वितीयं शरीरं भाष्यकारोक्तहेतुभिर्निराकरोति ॥ नापीति ॥ टीकायामपीति ॥ प्रश्नप्रतिवचना-नवस्थायामेव न तात्पर्यं प्रश्नाद्यकरणेनावस्थाभावप्रसङ्गात् ॥ श्रोत्रियंश्छन्दोऽधीत इति ॥ श्रोत्रियंश्छन्दोऽधीत इति सूत्रम् । तत्रादौ किञ्चिद्व्याख्यानम् । छन्दश्शब्दस्य श्रोत्रादेशः । अधीत इत्यस्मिन्नर्थे घः ॥ एवं च श्रोत्रियन्निति ॥ इदं चापरम् । वाक्यार्थे पदप्रयोग इति । वाक्यार्थाश्रये छन्दोऽध्ययनकर्तृत्वरूपवाक्यार्थाश्रये पदवचनं श्रोत्रियन्निति पदवचनम् । इदं च प्रकृतोपयुक्तम् । अन्यत्र न्यायामृते अवाच्यत्वभङ्गे ।
पाण्डुरङ्गि
अत्र किं शुद्धस्यात्मनो ज्ञेयत्वमेव नेति पूर्वपक्षिणोऽभिप्रायो लक्षणया ज्ञेयत्वमिति वा । आद्यं दूषयति ॥ न तावदिति ॥ सूत्रे ज्ञेयस्य शुद्धत्वोप-पादनादित्यन्वयः । कैर्हेतुभिरित्यत उक्तम् आत्मशब्देति । किञ्च शुद्धस्य ज्ञेयत्वाभावे विशिष्टस्य तद्वक्तव्यम् । तस्य मिथ्यात्वेन तज्ज्ञानस्य मोक्षहेतुत्वासम्भवेन शुद्धस्यैव ज्ञेयत्वं वक्तव्यमित्याह ॥ त्वयापीति ॥ द्वितीयं दूषयति ॥ नापीति ॥ वाच्यत्वाभावे लक्षणैव न स्यादिति भावः । ननु लक्ष्यत्वे वाच्यत्वं कथमुपयोगीत्यत आह ॥ वाच्यसम्बन्धि-तयेति ॥ लक्ष्यत्वे वाच्यसम्बन्धितया ज्ञानस्य तन्त्रत्वेन ब्रह्मणो लक्ष्यत्वाङ्गीकारे वाच्यसम्बन्धितया तज्ज्ञानं वक्तव्यम् । तद्धि शब्देतरेण वा शब्देन वा । नाद्य इत्याह ॥ औपनिषदस्य चेति ॥ ननु मास्तु शब्देतरेण शब्देन वा तस्य सिद्धिः । न च तर्ह्यसिद्धिरेव तस्य स्यादिति वाच्यम् । स्वप्रकाशत्वेन नित्यसिद्धत्वादित्यत आह ॥ स्वप्रकाशतयेति ॥
नन्वस्तु तर्हि शब्देन तज्ज्ञानमिति चेच्छब्देन तज्ज्ञानं हि वचनवृत्त्या भवेद् लक्षणया वा । आद्ये मदिष्टसिद्धिः । द्वितीयं प्रत्याह ॥ अवाच्ये चेति ॥ अस्त्ववाच्ये लक्षक-शब्दप्रयोगः । ततः किमित्यत आह ॥ तत्रापीति ॥ लक्षकशब्दप्रयोगेऽपीत्यर्थः । नन्वेवं पूर्वमनुपस्थितस्य लक्षणया बोधासम्भवेन लक्षणया ब्रह्मोपस्थितिं वदता तत्कारणीभूतार्थ-प्रतीतेरावश्यकत्वेन तस्याश्च शब्देनैव वक्तव्यतया तेनापि शक्त्याऽसम्भवेन लक्षणयैव तत्प्रतीतेर्वक्तव्यतया तस्या अपि पूर्वमुपस्थित्यभावेऽसम्भवेनानवस्था स्यादिति प्रतीति-मूलकानवस्थाया उक्तौ, टीकायां प्रश्नमूलकानवस्थाया उक्तत्वात्तद्विरोध इत्यत आह ॥ टीकायामपीति ॥ इयमेवेति ॥ प्रतीतिमूलैवेत्यर्थः । अन्यथा प्रश्नस्यासङ्गतत्वं स्यादिति भावः । ननु लक्ष्यत्वाङ्गीकार इव वाच्यत्वाङ्गीकारेऽप्यनवस्थादोषस्य तुल्यत्वान्न तदङ्गीकरणं युक्तमित्याशङ्कते ॥ न चेति ॥ स्वरूपेण ज्ञातमात्रशब्दादर्थबोधभावेनान्वय-व्यतिरेकाभ्यां गृहीतसङ्गतिकस्यैवार्थबोधकत्वादिति भावः । अस्तु गृहीतसङ्गतिकस्यैव बोधकत्वं ततः किमित्यत आह ॥ सम्बन्धज्ञानस्य चेति ॥ अस्तु तर्हि शब्देतरेण सम्बन्धिज्ञानमित्यत आह ॥ सम्बन्धिनश्चेति ॥ यौगिकानामिति ॥ प्रकृतिप्रत्यययोरन्यत्र सङ्गतेर्गृहीतत्वेन चित्रगुशब्दादिवत्संसर्गविशेषविशिष्टरूपेणैव ब्रह्मविष्णुनारायणादिशब्दै-रपूर्वार्थप्रतीतिसम्भवादिति भावः । न च परेणापि ब्रह्मप्रतीतेः संसर्गमर्यादयाऽङ्गी-कारेणानवस्थाऽपरिहर्तुं शक्या । ब्रह्मणोखण्डत्वहानिभयेन संसर्गसृष्टान्यतरत्वा-नभ्युपगमादिति ।
नन्वेवमनवस्थापरिहारे औपनिषदेक्षणीयत्वान्यथानुपपत्त्या ब्रह्मणो वाच्यत्वसिद्धिर्न स्यात् । वाक्यस्य शक्त्यभावेऽपि वाक्यार्थबोधकत्ववद्यौगिकपदानामप्यर्थबोधकत्वोपपत्त्ये-क्षणीयत्वस्यार्थापत्तित्वासम्भवात् । अन्यथा योगिरोगिणोरपि पीनत्वेन रात्रिभोजन-कल्पनापत्तेरिति चेन्न । पदानां सर्वथानन्विते केवले स्वार्थे शक्तौ शतमप्यन्धानां न पश्यतीति न्यायेन संसर्गस्य पदसहस्रेणाप्यबोधापत्तेः संसर्गजिज्ञापयिषया वाक्यप्रयोगा-योगेन प्रयोज्यप्रयोजकयोर्मौनमौढ्यापत्त्याऽन्विते स्वार्थे शक्तेरावश्यकत्वात् । तत्रापि विशेषतोऽन्यान्विते शक्तौ पदान्तरवैयर्थ्यापत्त्या सामान्यतो योग्येतरान्वितस्वार्थ एव शक्तेः सिद्धत्वाद् वाक्यतुल्ये यौगिकादिशब्देऽपि पदस्थानीयप्रकृतिप्रत्ययाद्यवयवशक्तिग्रहण-समयात्प्रागेवोपनिषद्वेद्यस्यापि ब्रह्मणो वाक्यतावच्छेदकावच्छिन्नतयाऽन्यतो ज्ञानाभावा-त्सम्बन्धिज्ञानविशेषापेक्षसमुदायशक्तिज्ञानासम्भवेऽपि सामान्यलक्षणप्रत्यासत्त्या वा सादृश्येन वाऽवयवार्थप्रतीत्यैव तदवच्छेदकसंसर्गरूपतया प्रतीतत्वात् प्रकृतिप्रत्यय-समभिव्याहारवशेन विशेषत एकैकावयवाप्रतीतस्यापि तत्प्रतीतिसम्भवेऽपि तस्या एव प्रतीतेर्विशेषज्ञाने सापेक्षसमुदायशक्तिग्रहणनिरपेक्षायाः सामान्यतोऽप्यवयवार्थसंसर्गरूपे ब्रह्मणि सिद्धेरविघातात् । रूढिसिद्धेस्तु श्रुत्यादिमानान्तरेणापि सम्भवात् । लाक्षणिक-पदस्य तु यौगिकस्यापि शक्यसम्बन्धितया लक्ष्यतावच्छेदकत्वेन च लक्ष्योपस्थितिं विना लक्षणया तदुपस्थापकत्वस्य क्वाप्यदर्शनान्न परमतेऽनवस्थापरिहारोपायः ।
वाक्यार्थे पदप्रयोगः क्व दृष्ट इत्यत आह ॥ यथोक्तमिति ॥ छन्दोऽधीते इति वाक्यार्थे, श्रोत्रियन्निति पदप्रयोग इत्यर्थः । ननु न ब्रह्मणो वाच्यत्वम् । ईक्षणकर्मत्व-रूपेक्षणीयत्वानङ्गीकारात् । वृत्तिव्याप्यत्वस्यैवाङ्गीकारादित्याशङ्क्य निषेधति ॥ न चेति ॥ वृत्तिव्याप्यत्वं हि वृत्तिविषयत्वम् । तत्रौपनिषदत्वाच्छब्देतरजन्यवृत्तिविषयत्वा-सम्भवेन शब्दजन्यवृत्तिविषयत्वमेव वक्तव्यम् । तद्धि न लक्षणया । अनवस्थानात् किन्तु वचनवृत्त्यैव । एवं च वाच्यत्वसिद्धिरप्रत्यूहेत्याह ॥ वृत्तिव्याप्यत्वेनैवेति ॥ ननु निर्गुणादिशब्दानां गुणाभावादिविशिष्टं वाच्यम् । तच्च न ब्रह्म । तस्य विशेषा-भावाद्युपलक्षितत्वादित्यत आह ॥ विस्तृतं चैतदिति ॥ ‘‘एवं तर्हि विशेषाभावोपलक्षित-शब्दवाच्यत्वमनिवार्यम्’’ इत्यादिना न्यायामृतेऽवाच्यत्वभङ्गे विस्तृतमित्यर्थः ।