०२ पूर्वपक्षः

पूर्वपक्षस्तु

पूर्वपक्षः

तात्पर्यचन्द्रिका

पूर्वपक्षस्तु ॥ न ब्रह्मणि समन्वयो युक्तः । ‘‘यतो वाचो निवर्तन्ते’’ इत्यादि-श्रुतिभिस्तस्यावाच्यत्वात् । ननु ‘‘पुरिशयं पुरुषमीक्षते’’ इति ब्रह्मण ईक्षणीयत्वं श्रुतम् । तच्च न शब्देतरेण । ब्रह्मण औपनिषदत्वात् । शब्देनेक्षणं च वाच्यत्वं विना न युक्तमिति चेन्न । तत्रेक्षणीयत्वेनोक्तो हि सगुण आत्मा । स च वाच्य एव । यश्चावाच्यः शुद्धो न तस्येक्षणीयत्वम् । ‘‘यत्तदद्रेश्यम्’’ इत्यादि-श्रुतिभिस्तस्या-दृश्यत्वात् । अस्तु वा शुद्धस्येक्षणीयत्वम् । तथापि न वाच्यत्वसिद्धिः । लक्षणया शब्दबोध्यत्वात् । नन्ववाच्यत्वे लक्षणापि न स्यात् । सर्वशब्दावाच्यस्य लक्षणा-योगात् । तथा हि । किमस्य शब्दस्य लक्ष्यमिति प्रश्नेऽवाच्ये लक्षकं पदान्तरमेव प्रयोक्तव्यम् । तत्रापि किमस्य लक्ष्यमिति प्रश्नापर्यवसानादनवस्थेति चेन्न । वाचकपदप्रयोगेऽपि किमस्य वाच्यमिति प्रश्नापर्यवसानेनानवस्थापातादिति ।

प्रकाशिका

‘‘न ब्रह्मणः’’ इत्यादिटीकां व्याचष्टे ॥ न ब्रह्मणीति ॥ ननु श्रुतीनामीक्षणीयत्वरूपबाधकवशादप्रसिद्धत्वाभिप्रायेण सङ्कोचस्स्यादिति भावेनेक्षणीय-त्वस्यावाच्यत्वे बाधकत्वं व्यक्तीकुर्वन् शङ्कते ॥ नन्विति ॥ औपनिषदत्वाद् उपनिषदेक-गम्यत्वात् । शास्त्रयोनिनयोक्तन्यायेनेति भावः । शुद्धं वाच्यमीक्षणीयत्वाद्धर्मादिवदित्युक्तं भवति । गौणश्चेदिति सूत्रस्थशङ्कांशसूचितं परिहारमाह ॥ नेति ॥ आत्मशब्दादिश्च जीव एव मुख्यः। अद्यापि स भगवति मुख्य इत्यनुक्तेरिति भावः । ‘‘औपनिषदत्वं तु लक्षणयापि सम्भवन्न वाच्यतामपेक्षत’’ इति सुधोक्तं ‘‘अवचनेनैव प्रोवाच’’ इति भाष्योक्तश्रुत्याऽऽपातप्राप्तं परिहारान्तरमाह ॥ अस्तु वेति ॥ तथा च वाच्यत्वे ईक्षणीयत्वमप्रयोजकमिति भावः । ‘‘सर्वशब्दावाच्यस्य लक्षणाऽयुक्तेः’’ इति सिद्धान्त-भाष्योक्तं बाधकमाशङ्क्य प्रतिबन्द्योत्तरमाह ॥ नन्विति ॥ टीकोक्तं लक्षणाऽयोग-प्रकारमाह ॥ तथा हीति ॥ तथा च ‘‘यश्चोभयोः समो दोषः’’ इति न्यायेन नाहं पर्यनुयोज्यः । तथा च प्रतिकूलतर्कहतिरिति भावः ।

पाण्डुरङ्गि

अवाच्यत्वरूपहेत्वसिद्धिमाशङ्कते ॥ नन्विति ॥ न च तर्हि श्रुतेः का गतिरिति वाच्यम् । तस्यार्थान्तरपरत्वोपपत्तेरिति भावः । ननु सर्वथा ब्रह्मणोऽदृश्यत्वे तद्विषयकज्ञानाभावान्मोक्षो न स्यात् । न च गौणात्मज्ञानादेव मोक्ष इति वाच्यम् । तस्यातत्वेन तद्विषयकज्ञानस्यातत्वज्ञानत्वेन मोक्षसाधनत्वाभावात् । सर्वथाप्यदृश्यत्वे यत्तदित्यादिनिर्देशायोगाच्चेत्यरुचेराह ॥ अस्तु वेति ॥ ननु सर्वथाऽवाच्यत्वमभिप्रेतमुत केनचिच्छब्देन । द्वितीयेनावाच्यत्वोपपत्तिः । आद्यमुत्थापयति ॥ नन्विति ॥ ननु लक्षणायां वाच्यत्वं कथमुपयोगीत्यत आह ॥ तथा हीति ॥ अनवस्थाभिया लक्षणा-परित्यागेन वाच्यत्वाङ्गीकरणमयुक्तम् । अनवस्थादोषस्य वाच्यत्वेऽपि तुल्यत्वादित्याशयेन समाधत्ते ॥ वाचकपदप्रयोगेऽपीति ॥ उपलक्षणमेतत् । किमत्र लक्ष्यमिति प्रश्नस्या-सार्वत्रिकत्वेन प्रश्नाकरणे पदान्तरप्रयोगस्यानवश्यकत्वाच्चेत्यपि द्रष्टव्यम् ।