१६ रामानुजमतपरीक्षा

केचित्तु फलाभावापातात्सिद्धपरत्वं नेति प्राप्ते..

रामानुजमतपरीक्षा

तात्पर्यचन्द्रिका

केचित्तु फलाभावापातात्सिद्धपरत्वं नेति प्राप्ते पुत्रस्ते जात इत्यादौ सिद्धपरत्वेपि फलदर्शनान्न दोष इति सिद्धान्तयित्वा ‘‘समन्वयश्च पुरुषार्थस्य ब्रह्मणोऽभिधेयत्वेन सम्बन्धः । तथा च तत्शास्त्रयोनित्वं, समन्वयात्’’ इति सूत्रार्थ इत्याहुः । तन्न । फलसद्भावेन सिद्धपरसर्ववाक्यविचारोपपादकस्यास्य सिद्धे व्युत्पत्तिप्रतिपादनेन तदुपपादकाद्यसूत्रानन्तर्यस्यैव युक्तत्वात् । त्वन्मते हि जन्मादिशास्त्रयोनिसूत्रे कारण-वाक्यस्यैव विचारोपपादके । किञ्च समन्वयाध्याये या तात्पर्यलिङ्गैर्ब्रह्मपरतो-पपादयिष्यते सैवेह सूत्रे समन्वयशब्देन निर्देष्टव्या । यद्यपीह सूत्रे मन्मते शास्त्रयोनी-त्यनुषञ्जनीयम् । त्वन्मते तु न । तथापि मन्मते तच्छब्देन प्रकृतब्रह्मपरामर्शा-त्तस्यानन्दमयादिष्वनुषक्तस्याऽऽध्यायसमाप्तिविधेयसमर्पकतयाऽन्वयः । त्वन्मते तु शास्त्रयोनित्वपरामर्शादुत्तरसूत्रेषु ब्रह्मशब्दोऽध्याहार्यः स्यात् । यच्चोक्तं चतुस्सूत्र्याः शास्त्रारम्भसाधकत्वादुपोद्घातत्वम् । यथोक्तं–

व्युत्पत्त्यभावः प्रतिपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम् ।

एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराचकार ॥ इति ।

तदपि न । जन्मादिसूत्रे लक्षणोक्त्या शास्त्रयोनिसूत्रादौ च प्रमाणाद्युक्त्या ब्रह्मणो विचार्यमाणत्वेनोपोद्घातत्वायोगात् । टीकाक्षरार्थस्तु । मुख्यस्येति । अप्राप्त-स्येत्यर्थः । भगवद्वाक्ये ‘‘इत्यहम्’’ इत्यत्रत्यस्येतिशब्दस्य ‘‘हृदयम्’’ इत्यनेनान्वय इत्याह । इत्यभिप्रायमिति ॥

प्रकाशिका

रामानुजमतं निराह ॥ केचित्त्विति ॥ फलदर्शनादिति ॥ पुत्रजन्म-श्रवणजनितसुखस्य फलत्वादिति भावः ॥ शास्त्रयोनित्वमिति ॥ आद्यसूत्रात् षष्ठ्यन्तं ब्रह्मपदमनुवर्त्य योज्यमिति भावः । एवं तर्ह्यस्याधिकरणद्वयव्यवधानं न स्यादित्याह ॥ तन्नेति ॥ तदुपपादकेति ॥ सर्ववाक्यविचारोपपादकेति हेतुगर्भं विशेषणम् । त्वन्मत इति ॥ एतच्च पूर्वाधिकरणद्वये स्पष्टम् । सूत्रार्थमपि निराचिकीर्षुः समन्वयशब्दार्थं दूषयति ॥ किञ्चेति ॥ सैवेति ॥ अत्र हेतुत्वेनोक्तस्यैव समन्वयाध्याय उपपादयिष्यमाणत्वादिति भावः । तच्छब्दस्य शास्त्रयोनित्वपरत्वमयुक्तमित्याह ॥ यद्यपीति ॥ विधेयेति ॥ आनन्दमयस्तद् ब्रह्म अन्तस्तदित्यादिरूपेणेत्यर्थः ॥ अध्याहार्य इति ॥ तथा चानेका-ध्याहारदोषः स्यादित्यर्थः । उपलक्षणमेतत् । समासनिर्दिष्टब्रह्मपदानुषङ्गश्चेति ध्येयम् । चतुस्सूत्र्या इति ॥ ‘‘द्विगोः’’ इति ङीप् । आद्येऽधिकरणे सिद्धेऽर्थे व्युत्पत्त्यभावाद् वेदान्तानां ‘सिद्धे ब्रह्मणि न प्रामाण्यमिति न तद्विचारारम्भ इत्युक्तम् ।

द्वितीये जन्मादिकं विशेषणतया ब्रह्म प्रत्याययत्युतोपलक्षणतया । नोभयथापि । अतस्तत्प्रतिपत्तेर्दुस्थतया न कारणवाक्यविचारारम्भ इति । तृतीये जगत्कारणत्वस्याऽऽनु-मानिकतया वेदान्तानां तदनुवादित्वेन न विचारारम्भ इति । अत्र तु सिद्धब्रह्मबोधकानां वेदान्तानामफलत्वान्न विचारारम्भ इत्युक्तमित्यर्थः । एतानि चोद्यानि । सूत्रकार इति शेषः ॥ ब्रह्मण इति ॥ स्वरूपसाधनफलजिज्ञासाया ब्रह्मविचारत्वात्साधनफल-विचाराध्यायद्वय इव स्वरूपविचारस्य लक्षणप्रमाणाभ्यां विनाऽयोगात्तद्विचारेण ब्रह्मणो विचार्यमाणत्वादित्यर्थः ॥ यदत्र कश्चिदुपक्रमादिना शिव एव वेदान्ततात्पर्यावधारणमत्र प्रतिज्ञायत इत्याह । तत्तु पूर्वाधिकरणोदाहृतवचनैः, प्रत्यधिकरणं भाष्योक्तश्रुत्यादिभिः, विष्णुपरोपक्रमादितात्पर्यलिङ्गैर् विष्णावेव तात्पर्यावधारणोपपादनेन ‘‘मां विधत्तेऽभिधत्ते माम्’’ इत्यादिस्मृत्या च विरुद्धत्वादपेशलं बोध्यम् । एकत्र बहुवारोक्तादपि मुख्यस्य प्राबल्यादित्यत्र मुख्यपदार्थमाह ॥ मुख्यस्येतीति ॥ ‘‘एवम्भूताया अस्याः श्रुतेरित्यभि-प्रायमहमेव वेद’’ इत्यत्र व्यवहितान्वयप्रदर्शनेनाभिप्राय इति हृदयशब्दार्थ इति सूचयन्नाह ॥ भगवद्वाक्य इति ॥ अनेनाहंशब्दार्थो भगवानित्युक्तं भवति ॥

चन्द्रिकाबिन्दु

फलदर्शनात् सुखावाप्तिलक्षणफलदर्शनात् ॥ पुरुषार्थस्येति ॥ ब्रह्मण एव पुरुषार्थत्वमभिप्रेत्योक्तजन्मादिशास्त्रयोनित्वसूत्रयोर्भिन्नो विचारस्त्वन्मत इत्याह ॥ त्वन्मत इति ॥ परेण समन्वयशब्दार्थः ब्रह्मणोऽभिधेयत्वेन सम्बन्ध इत्युक्तं, तद्दूषयति ॥ किञ्चेति ॥ त्वन्मते तु नेति ॥ तदिति ॥ शास्त्रयोनित्वपरामर्शानङ्गीकारादिति भावः । व्युत्पत्त्यभावः प्रथमाधिकरणेन निराकृतः । द्वितीयेन प्रतिपत्तिदौस्थ्यमित्यादि द्रष्टव्यम् । जगत्कारणत्वादिना ब्रह्म ज्ञातव्यमित्युक्ते किं जगत्कारणत्वादीनि विशेषणानि आहोस्विदुपलक्षणानि । आद्ये जगत्कारणादीनां भेदप्रसङ्गः । द्वितीये उपलक्ष्यता-वच्छेदकाभाव इत्यादिनोपपादितं प्रतिपत्तिदौस्थ्यं द्रष्टव्यम् ॥ उपोद्घातत्वायोगादिति ॥ चतुस्सूत्र्या अपि ब्रह्मविचारात्मकत्वेन तद्विचारोपोद्घातत्वायोगादिति भावः ॥

पाण्डुरङ्गि

अस्येति ॥ समन्वयाधिकरणस्येत्यर्थः । तदुपपादकेति ॥ सिद्ध-परसर्ववाक्यविचारोपपादकेत्यर्थः । ननु जन्मादिशास्त्रयोनित्वसूत्रयोरपि वाक्यविचारोप-पादकत्वान्मध्येऽनयोर्निवेश इत्यत आह ॥ त्वन्मत इति ॥ तथा चास्य सर्ववाक्य-विचारोपपादकत्वादाद्यानन्तर्यं स्यादेवेति भावः । नन्वस्य सर्ववाक्यविचारात्मकत्वात्तयोश्च कतिपयवाक्यविचारोपपादकत्वात्सूचीकटाहन्यायेनास्य त्रितयानन्तर्यमित्यत आह ॥ किञ्चेति ॥ अन्यथाऽध्यायशेषेण प्रप(ञ्च्य)ञ्चप्रपञ्चकभावो न स्यादिति भावः । सौत्रतच्छब्दस्य पक्षमात्रपरामर्शकत्वमित्यभिप्रेत्याह ॥ यद्यपीति ॥ परोक्तं चतुस्सूत्र्या उपोद्घातत्वं दूषयितुमनुवदति ॥ यच्चोक्तमिति ॥ व्युत्पत्त्यभाव इति ॥ कार्य एव शब्दानां व्युत्पत्तेः सिद्धे ब्रह्मणि व्युत्पत्त्यसम्भवं प्रथमेन, न ब्रह्म लक्षयितुं शक्यत इति लक्षणा-भावेन ब्रह्मप्रतिपत्त्यभावं द्वितीयेन, अनुमानेन सिद्धत्वं तृतीयेन, फलाभावं शास्त्रानारम्भणीयत्वप्रतिपादकं चतुर्थेन सूत्रेण निराचकारेत्यर्थः ।

॥ समन्वयाधिकरणं सम्पूर्णम् ॥ ४ ॥