१५ भामत्याद्युक्ताद्वैतमतपरीक्षा

अत्र परैर्वेदान्ता ब्रह्मणि न प्रमाणं सिद्धवस्तुबोधने ..

भामत्याद्युक्ताद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

अत्र परैर्वेदान्ता ब्रह्मणि न प्रमाणं सिद्धवस्तुबोधने प्रवृत्त्याद्यभावेन फलाभावा-त्सापेक्षत्वप्रसङ्गाच्चेति प्राप्ते ‘‘द्विविधं हीप्सितम् । किञ्चिदप्राप्तम् । यथा ग्रामादि । किञ्चिच्च प्राप्तमपि विभ्रमवशादप्राप्तमित्यवगतम् । यथा कण्ठमण्यादिकम् । एवं जिहासितं द्विविधम् । किञ्चिदहीनं जिहासति । यथा वलयितचरणं फणिनम् । किञ्चिच्च हीनमेव । यथा चरणाभरणनूपुरे आरोपितं फणिनम् । तत्र ब्रह्मात्मैक्य-ज्ञानात्प्राप्तब्रह्मप्राप्तिः कल्पितत्वेन नित्यहीनसंसारहानिश्च सम्भवतीति फलवत्त्वम् । सिद्धस्यापि ब्रह्मणो मानान्तरागोचरत्वान्न सापेक्षत्वं च’’ इति सिद्धान्तयित्वा ‘‘समन्वयश्च लक्षणयाऽखण्डार्थपरत्वम् । ततश्च तद्ब्रह्म शास्त्रप्रतिपाद्यं समन्वयादिति सूत्रार्थः’’ इत्युक्तम् । तत्र पूर्वपक्षो निर्दलः । निष्प्रयोजनत्वशङ्कायास्त्वन्मते आद्यसूत्र एव जिज्ञासाशब्देन परिहृतत्वात् । लौकिकार्थपरवाक्येऽपि सापेक्षत्वदर्शनेन पौरुषेयत्वस्यैव सापेक्षत्वप्रयोजकत्वाच्च ।

प्रकाशिका

शुद्धबुद्धोदासीनस्वभावतयोपेक्षणीयं ब्रह्मभूतमभिदधतां वेदान्तानाम-पुरुषार्थोपदेशिनामप्रयोजनत्वापत्तेरित्यादिभामत्युक्तमनुवदति ॥ सिद्धेति ॥ सापेक्षत्वेति ॥ सिद्धार्थत्वे च प्रत्यक्षादिभिः समानविषयतया लौकिकवाक्यवत्तदर्थानुवादकत्वेन प्रत्यक्षादिसापेक्षत्वेनाप्रामाण्यप्रसङ्गादित्यर्थः । प्राप्तब्रह्मैक्यप्राप्तिः कल्पितानर्थहानिश्च सिद्धब्रह्मबोधने फलमिति तयोः फलत्वं लोकरीत्या भामत्युक्तमक्षरशोऽनुवदति ॥ द्विविधमिति ॥ अहीनम् अत्यक्तं विद्यमानमिति यावत् । जिहासति त्यक्तुमिच्छति ॥ वलयितेति ॥ वलयितो वेष्टितश्चरणो येनासौ वलयितचरणः । ‘‘वेष्टितं स्याद्वलयितम्’’ इत्यमरः । हीनं त्यक्तम् आरोपितमिति यावत् । यत्तु सापेक्षत्वप्रसङ्गादिति तन्नेत्याह ॥ सिद्धस्येति ॥ परिनिष्ठितस्येत्यर्थः । परैः सिद्धान्तयित्वा इत्युक्तमित्यन्वयः । पूर्वपक्षो द्विविधः । फलाभावादप्रामाण्यमित्येकः । सापेक्षतापत्त्याऽप्रामाण्यमित्यपरः । अत्राद्यं निराह ॥ निष्प्रयोजनत्वेति ॥ जिज्ञासाशब्दस्य मुख्यवृत्त्या ज्ञानेच्छापरत्वमुपेत्य ‘‘ज्ञातुमिच्छा हि सन्दिग्धे विषये निर्णयाय भवति’’ इति विषयप्रयोजनसूचन-स्याभ्युपगमादिति भावः । द्वितीयं निराह ॥ लौकिकेति ॥ सङ्केतग्रहणादिसापेक्षत्वेन सिद्धार्थकवत्तस्याप्यप्रामाण्यं स्यादित्यर्थः । पौरुषेयस्य वक्तृज्ञानपूर्वकत्वेन तत्सापेक्षत्वा-त्पौरुषेयत्वमेव प्रयोजकम् । न तु सिद्धार्थपरत्वम् । व्यभिचारात् । वेदे च तन्नास्ति । अत एव भामत्यां ‘‘किं पुंवाक्यानां सापेक्षता किं भूतार्थत्वेनाहोस्वित्पौरुषेयत्वेन’’ इत्यादिनाऽऽद्यं दूषयित्वा द्वितीय एव स्थापित इति भावः ।

चन्द्रिकाबिन्दु

प्रवृत्त्याद्यभावेनेति ॥ कार्यत्वाभावादिति भावः । सापेक्षत्वं नाम प्रमाणान्तरप्राप्यत्वम् । तथा च सिद्धबोधकस्य प्रमाणान्तरसापेक्षत्वमिति परस्याशयः । अहीनं सम्बन्धित्वेन विद्यमानम् । हीनं वस्तुतोऽविद्यमानमारोपितम् । परोक्तसूत्रार्थं दर्शयति ॥ समन्वयश्चेति ॥ लौकिकेति ॥ तथा च सिद्धार्थप्रतिपादकत्वं सापेक्षत्व-प्रयोजकं न । कार्यपरवाक्येऽपि सापेक्षत्वदर्शनात् किन्तु पौरुषेयत्वमेव । तच्च वेदान्तेषु नास्त्येवेति भावः ।

पाण्डुरङ्गि

परोक्ताधिकरणरचनायाः स्वोक्ताधिकरणरचनया साम्यप्रतीतिनिरासार्थं तामनूद्य दूषयति ॥ अत्र परैरिति ॥ सापेक्षत्वप्रसङ्गाच्चेति ॥ प्रमाणान्तरजन्यज्ञप्तिविषयत्वं तादृशार्थबोधने प्रमाणान्तरापेक्षायां सापेक्षत्वमिति भावः । न प्रवृत्तिनिवृत्त्योः फलत्वं किन्त्वनिष्टनिवृत्तीष्टप्राप्त्योरेव फलत्वम् । तयोश्च प्रकृते सद्भावान्न फलाभाव इति भावेनेष्टानिष्टयोर्विभागमाह ॥ द्विविधं हीत्यादिना ॥ अहीनं विद्यमानम् ॥ सिद्ध-स्यापीति ॥ तथा च न प्रमाणान्तरजन्यज्ञप्तिविषयत्वं सिद्धत्वं किन्तु स्वत एव निष्पन्नत्वमिति भावः । अस्त्वेवमधिकरणरचना तथापि सूत्रार्थः कथमित्यत आह ॥ समन्वयश्चेति ॥ समन्वयादिति ॥ लक्षणयाऽखण्डार्थत्वपरवेदतात्पर्यविषयत्वादित्यर्थः ॥ आद्यसूत्र एवेति ॥ ‘‘निश्चिते जिज्ञासायोगात्सन्दिग्धत्वेन ब्रह्मैव विषयो ज्ञानमेवेच्छा-विषयत्वेन प्रयोजनमिति जिज्ञासापदेनैव विषयप्रयोजनमिति जिज्ञासापदेनैव विषयप्रयोजने सूचिते’’ इति भामत्यां ‘‘अथशब्देनाधिकारी जिज्ञासापदेनेच्छा विषयत्वेन ब्रह्मज्ञानं प्रयोजनमर्थादधिकारिविशेषणं मोक्षो ब्रह्मज्ञानफलं विषयश्च सूचितः’’ इत्यादि विवरणे तथोक्तत्वादित्यर्थः ।

किञ्च प्रमाणान्तरसिद्धत्वेऽपि न सापेक्षत्वम् । पौरुषेयत्वस्यैव प्रयोजकत्वादित्याह ॥ लौकिकेति ॥ सिद्धार्थबोधकत्वे सापेक्षत्वापादनमयुक्तम् । स्वाभावव्याप्याभावप्रतियोगिन एव स्वप्रयोजकत्वस्य धूमप्रयोजके वह्न्यादौ दृष्टत्वात् । प्रयोजकाभावेन प्रयोज्या-भावस्यापादनीयत्वात् । प्रकृते च तदभावात् । व्याप्येनैव व्यापकस्यापादनीयत्वात् । प्रकृते च सिद्धबोधकत्वे निरपेक्षत्वे बाधकाभावोनाप्रयोजकतया व्याप्तेरेवाभावात् सामग्य्राः कार्यप्रयोजकत्वात् सामग्य्रा कार्यापादनवत्प्रयोजकेन प्रयोज्यस्यापादनीयत्वे परिशेषाद्वाच्ये लौकिककार्यपरवाक्येऽसत्यपि सिद्धबोधकत्वे सापेक्षत्वदर्शनेन तदप्रयोजकत्वान्न प्रयोजकेन प्रयोज्यस्यापादनमपि युक्तमिति भावः । ननु वेदस्य सिद्धार्थबोधकत्वे मानान्तरावगतार्थ-वाक्यरचनाया एवापत्त्याऽपौरुषेयत्वाभावस्यैवापाद्यमानत्वात्कथं पूर्वपक्षस्य निर्दलत्वमिति चेन्न । सिद्धार्थबोधकत्वाभावेऽपि लौकिककार्यपरवाक्ये पौरुषेयत्वस्य दर्शनेन सिद्धार्थ-बोधकत्वेऽस्यापि पौरुषेयत्वापादनासम्भवाद्विपक्षे बाधकशून्यत्वेनाप्रयोजकतया धूमेन वह्नेरिव सिद्धार्थबोधकत्वेन पौरुषेयत्वापादनस्यायुक्तत्वादिति भावः ।


सिद्धान्तोप्ययुक्तः

तात्पर्यचन्द्रिका

सिद्धान्तोप्ययुक्तः । तथा हि–

स्वप्रभत्वादसन्दिग्धेऽवाच्यत्वात् श्रुत्यगोचरे ।

निर्विशेषे च चिन्मात्रे कथं श्रुतिसमन्वयः ॥

एवं सन्दिग्धस्यैव विषयत्वात् सामान्यज्ञानविशेषाज्ञाननिबन्धनस्य च सन्देहस्य निर्विशेषेऽसम्भवात् पूर्वपक्षसिद्धान्तयोश्च सन्देहकोट्यन्यतरकोट्यवलम्बित्वात् फलस्य चैककोटिनिर्णयाधीनत्वान् निर्विशेषात्मनि विषयसंशयपूर्वपक्षसिद्धान्त-प्रयोजनाख्यपञ्चकरूपाधिकरणासम्भवो द्रष्टव्यः । अपि च–

आद्यसूत्रेऽहमर्थे हि प्रसिद्धिः प्रतिपादिता ।

जिज्ञासार्थं द्वितीये हि जगज्जन्मादिहेतुता ॥ १ ॥

अविद्यमानाऽहमर्थे लक्षणत्वेन कीर्तिता ।

ईश्वरस्य तृतीये तु निर्विशेषप्रमाणता ॥ २ ॥

शास्त्रस्योक्ता चतुर्थे च तस्मिन्नेव समन्वयः ।

प्रतिज्ञातोन्तरित्यादौ सविशेषं तु कथ्यते ॥ ३ ॥

ब्रह्मेति मायिनां पक्षस्तत्र किं केन सङ्गतम् ।

तत्वविद्वेषमात्रेण श्रुतिसूत्रे कदर्थिते ॥ ४ ॥

प्रकाशिका

‘‘निर्विशेषे स्वयं भाते, सर्वधर्मोज्झितस्यास्य’’ इत्याद्यनुव्याख्यानं हृदि कृत्वाऽऽह ॥ स्वप्रभत्वादिति ॥ स्वप्रकाशत्वादित्यर्थः । ननु अवाच्यस्यापि लक्षणया श्रुतिगोचरता स्यादिति चेन्न । सर्वथा वाच्यत्वहीनस्य लक्ष्यत्वमपि नेत्युत्तराधि-करणे वक्ष्यमाणत्वादिति भावः । चिन्मात्रस्य स्वप्रभत्वेऽपि धर्मान्तरेण सन्देहः स्यादित्यत आह ॥ निर्विशेष इति ॥ श्रुतिसमन्वयरूपफलायोगमुक्त्वा तत्फलक-मीमांसारम्भोऽप्ययुक्त इत्याह ॥ एवमिति ॥ चिन्मात्रे समन्वय इत्यस्यैतत्सूत्रार्थत्वे पूर्वोत्तरासङ्गतिश्च स्यादिति भावेनाह ॥ अपि चेति ॥ परभाष्ये हि ‘‘किं तद्ब्रह्म प्रसिद्धमप्रसिद्धं वा’’ इत्यादिना शङ्कित्वा ‘‘सर्वो ह्यात्मास्तित्वं प्रत्येति । न नाहमस्मीति । यदि हि नात्मास्तित्वप्रसिद्धिः स्यात्सर्वो हि लोको नाहमस्मीति प्रतीयात्’’ इत्यादिना जिज्ञासोपयुक्ततयाऽहमर्थे प्रसिद्धिः प्रतिपादितेत्यर्थः । द्वितीये च जन्मादिसूत्रे ‘‘अस्य जगतो जन्मस्थितिभङ्गं यतःसर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद् ब्रह्म’’ इति परभाष्योक्ते-रीश्वरस्य विशिष्टस्य जन्मादिहेतुत्वमहमर्थेऽविद्यमानं लक्षणत्वेनोक्तमित्यर्थः ॥ तस्मि-न्नेवेति ॥ निर्विशेष एवेत्यर्थः । अन्तरित्यादौ ‘‘अन्तस्तद्धर्मे’’त्यादावित्यर्थः । कदर्थिते कुत्सितार्थतया कृते । ‘‘कोः कत्तत्पुरुषेऽचि’’ इति कदादेशः ।

चन्द्रिकाबिन्दु

सन्दिग्धत्वनिराकरणेन सर्वाण्यधिकरणानि निराकर्तुं शक्या-नीत्यभिप्रेत्याह ॥ एवमित्यादिना ॥ परकीयसूत्रार्थव्युत्पादनेऽसाङ्गत्यं दर्शयति ॥ आद्यसूत्र इत्यादिना ॥

पाण्डुरङ्गि

ननु निष्फलत्वेन पूर्वपक्षिते फलवत्त्वं सिद्धान्तितम् । तथा च फलवत्त्वमेवादौ दूषणीयम् । सूत्रार्थदूषणमादावयुक्तमित्यतः परोक्तसिद्धान्तस्य सूत्राना-रूढत्वमयुक्तत्वं च वक्तुं सूत्रार्थं दूषयति ॥ तथा हीति ॥ एवं हि परोक्तमनुमानं, ‘ब्रह्म शास्त्रप्रतिपाद्यं समन्वयात्’ इति । अत्र लक्षणया वेदतात्पर्यविषयत्वादिति हेत्वर्थोऽभि-प्रेतः । स चायुक्तः । अपूर्वार्थे वेदतात्पर्यं वक्तव्यम् । ब्रह्मणः स्वप्रकाशत्वेनासन्दिग्धत्वान्न तत्र वेदतात्पर्यं युक्तमित्याह ॥ स्वप्रभत्वादिति ॥ ननु स्वप्रकाशत्वेन स्वरूपतः सिद्धत्वेऽपि विशेषतः सन्दिग्धत्वाद्युक्तं तत्र शास्त्रतात्पर्यमित्यत उक्तम् ॥ निर्विशेष इति ॥ तथा च विशेषाभावाद्विशेषतः सन्दिग्धत्वं न युक्तमिति भावः ।

ननु तर्हि मास्तु शक्त्या वेदतात्पर्यविषयत्वं लक्षणया तु भविष्यतीत्यत आह ॥ अवाच्यत्वादिति ॥ तथा चोत्तराधिकरणे वाच्यत्वलक्ष्यत्वयोः प्रयोज्यप्रयोजकभावस्य वक्ष्यमाणत्वाद्वाच्यत्वाभावे लक्ष्यत्वस्यैवाभावेन लक्षणयापि वेदतात्पर्यविषयत्वासम्भवेन हेत्वसिद्धिस्तदवस्थेति भावः । किञ्च त्वया निर्विशेषत्वाङ्गीकारेणाधिकरणारम्भ-प्रयोजकविषयादिपञ्चकासम्भवेनाधिकरणारम्भो न युक्त इति भावेनाह ॥ एवमिति ॥ नन्वत्र वेदान्तानामेव विषयत्वात् प्रामाण्याप्रामाण्ये एव कोटी । एवं चान्यतर-कोट्यवलम्बिपूर्वपक्षसिद्धान्तयोः सम्भवेनान्यतरकोटिनिर्णयाधीनफलस्यापि सम्भवे-नाधिकरणारम्भप्रयोजकपञ्चकसम्भवेनाधिकरणारम्भसम्भवात्कथमेतदिति चेन्न । वेदान्ता-नामेव विषयत्वे सिद्धान्ते ब्रह्मणः शास्त्रविषयत्वसमर्थनमसङ्गतं स्यात् । तथा च ब्रह्मैव विषयः शास्त्रप्रतिपाद्यत्वतदप्रतिपाद्यत्वे एव कोटी । एवं च सन्देहान्यतरकोट्यवलम्बि पूर्वपक्षसिद्धान्तौ, शास्त्रप्रतिपाद्यत्वनिर्णयाधीनं फलं वक्तव्यम् । निर्विशेषत्वाङ्गीकारा-त्किमपीदं न सम्भवतीत्यधिकरणानारम्भसम्भवस्तदवस्थ एवेति भावः । न केवल-मधिकरणानारम्भोऽपि तु पूर्वोत्तरासङ्गतं चैतदित्याह ॥ अपि चेति ॥ तथा च यत्रैव सामान्यप्रतिपत्तिर् विशेषाप्रतिपत्तिस्तस्यैव लक्षणं वक्तव्यम् । तत्रैव च प्रमाणं वक्तव्यम् । समन्वयश्च प्रतिज्ञातव्यः । उपपादनं च तत्रैव कर्तव्यम् । न चैवं प्रतिपादनं क्रियत इत्यसङ्गतिरिति भावः ।