सूत्राक्षरार्थस्तु
सूत्राक्षरार्थनिरूपणम्
तात्पर्यचन्द्रिका
सूत्राक्षरार्थस्तु । तत्तु ब्रह्मैव शास्त्रयोनि सावकाशत्वनिरवकाशत्वादिना । विचारितस्वरूपसम्यक्त्वयुक्तादन्वीयतेऽनेनेत्यन्वयशब्दवाच्यादुपपत्त्यादेर्लिङ्गादिति । सुधायां तु न केवलमुपपत्त्यादिकं समन्वयशब्दार्थः किन्तु तद्धेतुकशास्त्रजन्य-प्रमागोचरत्वरूपशास्त्रयोनित्वे हेतुभूतः सर्वशास्त्रस्य सम्यग्वचनवृत्त्या तत्परत्व-रूपसम्बन्धोऽपीत्युक्तम् ।
प्रकाशिका
‘‘सूत्रं योजयति’’ इत्यादिटीकार्थं निष्कृष्याह ॥ सूत्राक्षरार्थ-स्त्विति ॥ ब्रह्मैवेति ॥ तुरेवार्थः । पूर्वसूत्राच्छास्त्रयोनिपदमनुवर्तत इति भावः । शास्त्रतात्पर्यविषय इत्यर्थः । उत्तराधिकरणसङ्गत्यर्थमर्थान्तरमप्यत्रानुसन्धेयमिति भावेनाह ॥ सुधायां त्विति ॥ सर्वेति ॥ अनेन संशब्दस्य कार्त्स्न्यमुख्यत्वोभयार्थस्यावृत्तिस्तस्य शास्त्रपदेनान्वयपदेन चान्वय इति सूचितम् । यत्त्वत्र एवं शोधितोपक्रमादिना वेदस्य विष्णौ तात्पर्यमिव शैवाद्यागमेन वा तदुपदर्शितोपक्रमादिना वा शिवादावपि तात्पर्यमस्तु । त्वन्मते श्रुतेरनेकार्थसहिष्णुत्वादित्यादि कस्यचिद्दुर्भाषणं तत्तु विष्णूत्कर्ष एव महातात्पर्य-मित्येवंरूपानेकश्रुतिस्मृतियुक्तिविरुद्धत्वादेकवाक्यताभङ्गप्रसङ्गाच्चापेशलम् । विस्तरस्तु गुरुपादकृतकण्ठकोद्धारे बोध्यम् ।
चन्द्रिकाबिन्दु
तत्त्वप्रकाशिकानुसारेण टीकार्थमुक्त्वा सुधानुसारेण टीकार्थमाह ॥ सुधायां त्विति ॥ तत्वप्रकाशिकायां समन्वयशब्देन सम्यक्त्वयुक्तोपपत्त्यादयो गृहीताः । शास्त्रयोनित्वमित्यनेन शास्त्रतात्पर्यविषयत्वं साध्यं गृहीतम् । सुधायां समन्वयशब्देन शक्तितात्पर्यलक्षणसम्बन्ध एव गृहीतः । शास्त्रयोनित्वं तु शक्तितात्पर्यलक्षणसमन्वयज्ञान-साध्यशास्त्रजन्यप्रमाणगोचरत्वं साध्यं गृहीतमिति भेदः ॥
पाण्डुरङ्गि
ननु ‘‘तत्तु समन्वयात्’’ इत्यत्र तच्छब्दस्य पक्षपरामर्शकत्वे साध्या-भावात्साध्यपरामर्शे च पक्षाभावादनन्वयः । समन्वयशब्दस्य तत्परत्वरूपसम्बन्धार्थत्वाद् ब्रह्म शास्त्रतात्पर्यविषयस् तात्पर्यरूपसम्बन्धादिति साध्याविशेषः स्यादित्यतः सूत्राक्षरार्थ-माह ॥ सूत्राक्षरार्थस्त्विति ॥ तथा च तच्छब्दो व्यवहितजन्मादिसूत्रोक्तलक्षणलक्षितब्रह्म-स्वरूप-पक्षपरामर्शकोऽव्यवहितशास्त्रयोनिसूत्रोक्तशास्त्रयोनित्वरूपसाध्यपरामर्शकश्चेत्युभय-लाभ-सम्भवान्नानन्वयः । तुशब्द एवार्थः पक्षेणान्वेति । समन्वयशब्दस्तूपपत्त्यादि-रूपतात्पर्यलिङ्गपर इति साध्याविशिष्टं च नेति भावः । ननु तर्हि सुधायां तत्परत्वरूप-सम्बन्धस्य हेतूकरणात्तत्र साध्यावैशिष्ट्यं स्यादित्यत आह ॥ सुधायां त्विति ॥ तथा च हेतुसाध्ययोर्भेदान्न तत्रापि साध्याविशेष इति भावः ।